Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ३
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥
तृतीया शाखा (उत्तरायणम्) वि.सं. २०५६
सङ्कलनम् कीर्तित्रयी
Page #2
--------------------------------------------------------------------------
________________
CA
..
नन्दनवनकल्पतरुः
.
Madamoibrar Khanamance
witysta n.w.xvie
CARE
r tainin...
t
Page #3
--------------------------------------------------------------------------
________________
Page #4
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरु:
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ।।
तृतीया शाखा (उत्तरायणम्) वि.सं. २०५६
सङ्कलनम् कीर्तित्रयी
Page #5
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ।। तृतीया शाखा ।। (संस्कृतभाषामयं अयन-पत्रम् ।। )
सङ्कलनम् : कीर्तित्रयी।
सर्वेऽधिकाराः स्वायत्ताः ।।
प्रकाशनं : श्रीजैन ग्रन्थ प्रकाशन समिति, खंभात ।।
वि. सं . २०५६, ई.सं. २०००
प्राप्तिस्थानं : १. शनुभाई के. शाह, जीरालापाडो, खंभात ।
२. सरस्वती पुस्तक भण्डार, अमदावाद ।
मुद्रणं : सचिन एन्टरप्राइझ, अमदावाद ।।
फोन : (०७९) ७४९७०४७
Page #6
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभाव: ................ ............
कोऽयं नन्दन-वन-कल्प-तरुः ! प्रबन्धाः - अरैयर् श्रीरामशर्मा
यादवाद्रिः कोऽयं ? अयं नन्दनवनकल्पतरुः । क्व तरुः ! क्व तरुः ! हन्त ! भारते वर्षे सर्वत्र परमाणुविद्युद्योजनाभिः तरवः हताः, प्रहताः, निहताश्च । हन्त क्क हिताः ! क विहिताः ! स्थावराणां नाशे जङ्गमाः न जीवन्ति इति जीवमयेऽस्मिन् इयत्यपि जगति इयत्यपि नीतिः नानुसृता । हन्त ! जीवचिन्तैव विज्ञानिभिः त्यक्तप्राया, तन्मात्रानुसारिभिः राजकीयैश्च ।
अस्तु नाम; कोऽयं कल्पः ? विश्वरक्षणे तु असमर्था एवाद्य सर्वे मानवव्यापाराः राष्ट्रीकृताः । विश्वस्य नाशे परस्परहार्दिकसम्बन्धनाशे च बद्धपरिकराः सर्वेऽपि हन्त ! क्लृपू सामर्थ्य इति हि धातुः, एवञ्च कोऽपि कल्प एव नास्ति।
अस्तु नाम; क्वनु वनम् ? तरूणां एव अभावे तेषां वा विरलत्वे वनं कुत्र लभ्येत ? वनषण संभक्तौ इति हि धातुः, वन्यते विभज्यते खण्ड्यते पुनर्वर्धनाथ परोपकारार्थ चेति हि वनम् । कृतकवनानि दूरे विचारात् सन्तु; कागजकरणार्थं गजवनान्येव सद्वंशबहुलानि तत्र तत्र कारुस्थानीयैः राजकीयैर्खण्टाकैर्लुण्ठितानि । अदान्ताः दन्तचोराः, अशर्माणश्चर्मचोराः, धनकनकखनिरत्नचोराश्च निरपघनाः अदृश्या एव । चन्दनवनानि सन्तु नाम दूरे विचारात्, चन्दनतरुरपि न दृश्यते मलयेषु का कथाऽन्यत्र ! क्क वनम् ! किं वनम् ! सिकता-सिमेण्टशर्करारचितानि लोह-काच-पलास्तिकमयानि सर्वत्र सगर-नगर-वनानि। हन्त ! हन्त ! सदृक्षवनानि कथायामेव श्रोतव्यानि जातानि । यथाः - आ भारतं दश वनानि नैमिष-द्वैतविन्ध्य-दण्डक-गजारण्यादीनि कैर्वा निर्दिश्य निर्दिश्य इदमियद्विस्तारं, इदमियदुन्नतं, इदमियत्प्रभावं इदमियज्जंगमरक्षं इदमियत्समृद्धं इति वर्णयितुं इदानीं अवशिष्टानि ?
सत्येवं, क नन्दनम् ! किं वा नन्दनम् ! कथं वा नन्दनम् ! 'राकेट्' इति प्रसिद्धानां रैखेटानां, उपग्रहाख्यानां विमानानां च प्रभावेन मानवः चन्द्रलोकादीन् गत्वा गत्वाऽपि न किञ्चित् दृष्टवान्। पुराणेषु शास्त्रेषु काव्येषु च प्रतिपादितं नन्दनवनम्। स्वर्गे हि नन्दनं वनम् । तत्रैव खलु कल्पतरुः। न खलु, न खलु, सर्वमेतत् काल्पनिकं विज्ञानिभिः अनङ्गीकृतम् ।
विज्ञानयुगो हि प्रवर्ततेऽद्य । प्रवर्तताम्, प्रवर्तताम् । प्रतिदिनं जीवहिंसाया एव प्रवर्तते खल्वयम्।
'दशसूनासमश्चक्री, दशचक्रिसमो ध्वजी।
Page #7
--------------------------------------------------------------------------
________________
दशध्वजिसमा वेश्या, दशवेश्यासमो नृपः ।।"
सन्ति नृपाः स्वर्गताः । ते हि भूमौ नामावशेषं नष्टा एव । राजा राज्ञी गर्भदास इति इस्पेटाख्येषु ईचपेटापत्रेषु केवलं चित्ररूपास्ते द्रष्टव्या अवशिष्टाः । किन्तु प्रतिदिनं प्रतिग्राम प्रतिपत्तनं प्रतिराज्यं प्रतिराष्ट्रं च द्रष्टव्याः एते हि एकैकशोऽपि दशनृपसमाः। हन्त! हन्त! सर्वत्र कलिः, कलिः, कलिः । समाजघातुकानां हिंसाणां हि विषये श्लोकोऽयं प्रवृत्तः।
हन्त ! सर्वत्र राष्ट्रे गोवधः सर्वकारप्रवर्तित एव।"ध्वजिनी वाहिनी सेना, सेनायां समवेता ये सैन्यास्ते सैनिकाचते।" सैनिकास्तु सौनिकैरिव धूर्तेः राजकीयैः स्ववशे प्रवर्त्यन्ते। तेषामेवार्थे सर्वत्र राष्ट्रेषु सर्वकारेषु धनादीनां अधिको व्ययः भवति।
हन्त! "कलौ मृत्यर्गृहे गृहे" इति संविधानं समायातम् न बन्धुत्वम्, न मातापितृत्वम्, न पत्नीत्वम्, न पुत्रत्वं, न भ्रातृत्वं, न मित्रत्वं; किं पुनर्गुरुत्वम् । न किमप्येतत् समाजे परस्परोपकाराय सम्पन्नम् । धनम्, धनम्, धनम्; अधिकारः, अधिकारः अधिकारः, सुखं, सुखं, सुखम्, अहं, अहं, अहम्; अलमलमेतावतासाम्राज्येन स्वतंत्रेण स्वसुखा-यमानेन । मास्तु धर्मस्य, मास्तु परलोकस्य, मास्तु वरमस्य सुखस्य।
स्वतंत्रभारतस्य आंग्लानुकरणसम्पन्ना स्थितिः एवं अतिगभीरा गहना च । बहिर्विश्वं अचिन्तयन्त एव समुद्रान्तर्जलपातालप्रवाळसस्यवनगहनकुहरकोणजीविनः कीटा इव जनाः कथंचित् निश्शक्जीवन्ति । एवं स्थिते कः उन्नतः स्वर्गलोकः ! किं नन्दनम् ! नन्दयतीति हि नन्दनम्। पुण्यशालिनां कल्याणबुद्धीनां किमस्ति नन्दनं भूमौ ! न खलु, न खलु, न किमपि, न किमपि नन्दनम्।
१.स्वस्ति यादवशैलाग्राद रामशर्मेति कश्चन। कीर्तित्रयं प्रणम्याद्य विज्ञापयति साम्प्रतम् ॥१॥ भवत्पत्रं अनुप्राप्तं दृष्टं हृष्टं च धर्मतः । सन्तोष जनयेत् प्राज्ञ: न देवेश्वरपूजनम्॥२॥ गुरुभ्योऽस्मत्प्रणामोऽसौ भवद्भिर्विज्ञाप्यतामिति । अथ पत्रे त्वीचपेटाक्रीडा या प्रस्तुता मया ।।३।। सा त्रिपञ्चाशत्पत्रमिता द्यूतेषु विनियोज्यते । आंग्लै: कार्डस् इति सा प्रोक्ता तत्र किंग क्वीन् च जोकि च ॥४|| इति राजा च राज्ञी च गर्भदासस्तु सेवकः । इति त्रीणि तु पत्राणि स्युश्चतुर्ध्वपि कोटिषु ||५|| इस्पेट् आटीन कलावर् च डैमण्ड् इति चतुष्टयी। पत्राणां जातिरस्त्यत्र तत्तत्संख्यांकशालिनी।।६।। संख्याहीना तु जातिर्या सा राजादिकनामिनी। गञ्जीफापत्रवचैतत् पत्रं क्रीडाविनोदनम् ॥७॥ इति विज्ञाप्यतेत्यल्पं लज्जयेव मुनिष्विदम् । क्षाम्यन्तु क्षुद्रसन्दर्भ मुनयो वीतकल्मषाः ।।८।। ई लक्ष्मीस्तु महामाया पत्रक्रीडासु वित्तदा । पत्राणि तु चपेटाख्यहस्तक्षेप्याणि तत्र तु ॥९॥ इस्पेट इत्यांग्लशब्दस्त ईचपेट इतीरित: । गर्भदासो नाम हिन्द्यां गुलाम इति हि पठ्यते॥१०॥
Page #8
--------------------------------------------------------------------------
________________
· हन्त ! एवं सति सनामग्राहं ब्रूमहे महामरुप्राये संस्कृतसज्जनसाहित्यवाङ्मयमये प्रपञ्चेऽस्मिन् दुर्लभत्वकृतमहिम्नि लभ्यमानं मधुरपानीयोत्सं खजूरफलच्छायाश्रयं गुर्जरजनपदे कर्णावतीनगरोपकर्णे कर्णपथमवतीर्णं नन्दनवनकल्पतरूं एकम् - येयं संस्कृत-प्राकृतमयी पत्रिका आयनिकी सूर्यस्येव उभयतो गतिमती कीर्तित्रय्या प्रकाशिता ''नन्दनवनकल्पतरुः" इति।
कल्पतरोः परिसरपरिवारेषु मित्रेषु चिन्तामणिः कामधेनुः इत्यादयोऽपि सन्ति खलुः तत्र धर्म-कल्याण-रत्नाख्यं नन्दनवनकल्पतरोः मित्रं नामाक्षरदर्शनेन दृष्टम् । अस्य तरोः शाखासु द्वितीयशाखायां उपशाखाः वृन्तानि पत्राणि पल्लवानि पुष्पाणि नानाविधानि फलानि च, तेषां भोकृवर्गः पक्षिगणः, सन्दर्शकवर्गो देवगणः, द्रुवर्गे च वयं इति इयत्यपि जगति स्वर्ग इव किञ्चित् सन्तोषस्थानं दृष्टम्।
दृष्टं परामृष्टं च यथाः - जैनी वागपि जननी नन्दनवनकल्पतरुसमानानाम्। रत्नाकर इव लक्ष्मी हृदि सर्वेषां दधातु दयमानानाम्॥ घेप्पिअहिअओ हं दिवअ नन्दनवनकल्पतरुमहग्घफलम्। सव्वो करेदु पुण्णं भारअजणपुट्टजणपअम्मि अळम् ॥
25-12-1999 एवं सक्कद-पाउअकइन्द असो गिरिन्दवासो हम्। कित्तित्तिअअं सगुरुं णमोत्ति वाआ करेमि मुणिणाहम् ।।
प्रेष्यतां प्रथमा शाखा द्वितीयापि तृतीयका। यथावकाशं नन्दनवनकल्पतरोरिति अर्थना
श्रीरामशर्मणो रामानुजदासस्य विलासः - पञ्चभाषाकवितावल्लभः उभयन्यायवेदान्तालङ्कारः श्रीराम शर्मा प्राशुपाल : सर्वकारीयसंस्कृतकालेज मेलुकोटे,मण्डयजिल्ला कर्णाटराज्यम्-571431
Page #9
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः=
कुशलम्
श्रीः
यादवाद्रिः
दिनाङ्क : 26-1-2000 क्रिश. आचार्यश्रीविजयशीलचन्द्रसूरये नमस्कृत्य श्रीरामशर्मा विज्ञापयति । उभयकुशलोपरि साम्प्रतम्।
भवता प्रेषितं हि कृपया नन्दनवनकल्पतरुशाखिद्वयम्। तत् लब्धं मया। तत्र अभिप्रायार्थं अवलोकनार्थं चेति या सूचना लिखिता सापि लब्धा । ततः प्रथमं अभिप्रायार्थं अवलोकनं कृतम् । अभिप्राय इदानीं निवेद्यते । यथा -
अत्र शाखायां स्तुतिः चरितं धर्मः नीतिकथाः हास्यकणिकाः इति पञ्च उपशाखाः अवलोकिताः परामृष्टाश्च । तत्र स्तुतिगीतिविषये द्वितीयशाखायां जगन्नाथाख्येन विदुषा यत् अभिप्रायप्रपञ्चनं कृतं तदेवास्माकमप्यभिमतम् । व्यक्तीनां आत्मनि धन्यता धर्मः श्रेयश्च देवगुरुगुणवृत्तादिस्तुतिमात्रेण भवत्येव । तत्रापि गीतिरूपा स्तुतिः अतीव शुद्धा सरसा च । जैनेतरजनानामपि सङ्गीतसाहित्याख्यसरस्वतीमातृस्तनद्वय प्रस्नुत-स्तन्यपायिनां सहृदयानां बालानामिव धारकं पोषकं भोग्यं चैतत् रचनम् । गुरूणां चरितं हि सामयिकं धर्मश्रद्धालूनां सर्वविधमतस्थानामपि विद्याप्रेमिणां बोधयोग्यं सन्मार्गगमने शाखाहस्तवत् उपयोगकरं च । धर्मविचारे निरूपणं सरलं सुन्दरं च जैनमतप्रक्रियायाः परिचायकं च। नीतिकथासु विक्रमादित्यभोजादीनां लोकप्रसिद्धाना कथाः एव श्राविताः सुन्दरतया महाभारतीयाश्च । किञ्च पूर्वं अस्मामिः वेतालकथैव श्रुताऽऽसीत् अत्र तु अग्निवेताल इति विशेषः समुचितः ज्ञातः । आदौ रामतपोवनाभिगमनं इति अनुगमनं इति वालीनिग्रहणं इति चैतद्धि इति पाठान्तरैः इदं पद्यं प्रतिदिनं गृहे गृहे मात्रादिभिः बालाः पाठ्यन्ते अस्मत्प्रदेशे । तत्र अधिगमनपाठः अभिगमनपाठादपि सुयुक्तः इति मन्ये । तक्ररामायणं इति प्रसङ्गस्तु रुचिरः मया इदंप्रथमतया ज्ञातः। बादरायणसम्बन्ध-विषयकः श्लोकः अस्माभिः भोजकालिदाससम्बद्धो न श्रुतः किन्तु अन्यसम्बद्धः। किञ्च अस्माकं पाठः एवमस्ति । यथा अस्माकं बदरी चक्रं इति पूर्वार्धे; उत्तरार्ध तु बादरायणसम्बन्धात् यूयं यूयं वयं वयम् । इति।
हास्यकणिकासु संस्कृत भाषायाः रीतिः रसोन्नयनशैली सरलता च न व्यत्यस्ताः इति सन्तोषस्थानम् । लिप्यां शिरोरेखायाः आवश्यकतां सूचयद्भिःभवद्भिगुर्जरैरपि देवनागरी
Page #10
--------------------------------------------------------------------------
________________
प्रतिष्ठापिता इति च ?
___अथ द्वितीयशाखायां स्तुति-चरित-धर्म-चिन्तनधारादिषु न किञ्चित् नूतनतया विमृश्य वक्तव्यमवशिष्टम् । रङ्गमञ्चे त्रिकादपि त्रयं समुचितं मन्ये । प्राकृतविभागे सढे सढत्तणं इति कथा कर्णाटकावेरीतीरप्रदेशाभिजनेन मया बाल्ये इतोऽपि विस्तरेण श्रुता यथावकाशं उत्तरभागतया विलिख्य प्रेषयिष्यते । नीतिवाक्यानां स्थाने स्थाने मौक्तिकानां इव योजनं मुद्रणक्रमः च रमणीयः इति। यथासम्भवं तृतीयशाखादिपरम्परापि गोचरे भवतीति आशास्तेऽयं जनः
इति विज्ञापकः
अरैयर् श्रीरामशर्मा __ मेलुकोटे 285 उप्पुनीरुबाविबीदी कर्णाटराज्यम् मण्डय जिल्ला-५७१४३१
Page #11
--------------------------------------------------------------------------
________________
- वाचकानां प्रतिभावः
आचार्यवर्याय सादरं नमो नमः
सविनयं निवेद्यते यत्ः 'नन्दनवनकल्पतरुः' सम्प्राप्तो मया भवद्भिः प्रेषितः । अनुगृहीताऽस्मि । जैनधर्मप्रसारण जैन आचार्यपवित्रशीलप्रतिपत्तये असौ पत्रिका अतीव उपयुक्ता वर्तते । तदन्तर्गताः कविताः लेखाः कथाश्च सुरुचिपूर्णाः सुरसाश्च प्रतिभान्ति । आचार्य श्रीविजयनन्दनसूरीश्वराणां जीवनचरितमपि बोधप्रदं वर्तते ।
प्राः उमा देशपाण्डे
५, मंगलवाडी सोसायटी र. व. देसाई मार्गः, वटोदरम् - १
पत्रिकायाः स्वरूपं मुद्रणमपि समीचीनं विद्यते । सधन्यवादं विरमामि ।
आ. विजयशीलचन्द्रसूरि - महाशय ! सादरं नमो नमः
उमा देशपाण्डे
अध्यक्षा
संस्कृत-पालि-प्राकृतविभागः म.स. विश्वविद्यालयः वटपद्रम्
नन्दनवनकल्पतरुः (द्वितीया शाखा) पुस्तिका सम्प्राप्ता । तदर्थमहं भवतां धन्यवादान् साधुवादान् च अर्पयामि । जैनदर्शनप्रसारार्थमिदं पुस्तकं उपयुक्तं भवेदिति आशासे ।
- उमा देशपाण्डे
Page #12
--------------------------------------------------------------------------
________________
-वाचकानां प्रतिभावः
४
||श्रीः।। श्रीमद्भ्यः नन्दनवनकल्पतरुसम्पादकेभ्यः तत्रभवद्भ्यः
शतकृत्व: नमस्कृतयः।
अयि भोः! कृपापूर्वकं भवत्प्रेषिते द्वे अपि सञ्चिके यथाक्रमं प्राप्ते।
भवद्भिः अभिप्रायकथनाय च आज्ञा दत्ता आसीत् । प्रथमसञ्चिकापठनानन्तरं मया चिन्तितं यथा एतादृशभव्यदार्शनिकसाहित्यमुद्दिश्य विद्यार्थिदशायामेव विवर्तमानोऽहं नाऽधिकारीति । अतः मया तूष्णीमेवाऽऽसितम्।।
अथः भवतः द्वितीया सञ्चिका लब्धा । तत्र द्वाभ्यां अर्हविद्वद्वराभ्यां प्रकटितं सर्वग्राह्यं अभिप्रायं पठित्वा नितरां हृष्टोऽभूवम् । नम एताभ्यां विद्वद्वराभ्याम्।
मत्स्तरेण यदि किञ्चित् वक्तव्यमस्ति चेत् एतावत् वक्ष्ये यथा नन्दनवनकल्पतरुसञ्चिकयोः भाषा प्रान्तीयभाषाछायाविमुक्ता संस्कृतभाषा प्रकृतिनिष्ठा सुगमा मनोहरा चेति। अत्र च विषयाश्च भारतीयसंस्कृतिविशेषोद्ग्राहयितार इति इदं महद्धर्षस्थानम्।
भवतां आश्रवः (विद्यार्थी)
M.K.NanjundaSwamy Mattigodu Village Po. Rudrapatna Dist. Hasan 573150 Karnataka
Page #13
--------------------------------------------------------------------------
________________
प्रास्ताविकम
NGOL
परमपूज्यपाद-परमदयालु-सङ्घनायकाऽऽचार्यवर्यश्रीविजयनन्दनसूरिभगवतां जन्मशतीवर्षे परमपूज्यगुरुभगवतां श्रीशीलचन्द्रसूरीश्वराणां सत्प्रेरणया कृपया चाऽऽरब्धस्याऽस्य गीर्वाणभाषासामयिकस्य 'श्रीनन्दनवनकल्पतरोः' तृतीयां शाखां प्रकाशयन्तो वयं हर्षानुभूतिं कुर्महे ।
अस्मदीयोऽयं प्रयत्नलेशो दाक्षिणात्यैर्विद्वद्वरेण्यैः सज्जनैः सोल्लासं सानन्दं सत्कृतः प्रोत्साहितश्चाऽपि । तत्तु तेषां प्रतिभावपत्रेष्वेव दरीदृश्यते । एतदर्थं वयं तान् प्रति कृतज्ञताप्लाविताः स्मः।
अथैतस्य सर्वस्याऽप्युपरिष्टात् पूज्यगुरुभगवतां प्रोत्साहिका सत्प्रेरणैवाऽस्मिन् कार्येऽसाधारणं कारणमस्ति । स्वकीयेन साहित्येनाऽपि तैः पूज्यैरेषा शाखा समृद्धीकृताऽस्ति ।
विद्वज्जगत ईदृक्प्रोत्साहनं सदैव लभ्येतेत्याशासमाना
नन्दनवनतीर्थं फाल्गुन शुक्ला पञ्चमी
कीर्तित्रयी
Page #14
--------------------------------------------------------------------------
________________
- अनुक्रम:
कृति:
कर्ता
पृष्ठम्
श्रीभोयणीतीर्थभूषणश्रीमा
वामिर तवनम
SHRIRAM
..
..
विजयशीलचन्द्रसूरि: विजयशीलचन्द्रसूरिः विजयशीलचन्द्रसूरिः विजयशीलचन्द्रसूरिः विजयशीलचन्द्रसूरिः विजयशीलचन्द्रसूरिः
.
२
स्तवनानुवाद श्रीविमलनाथप्रासादप्रतिष्ठाप्रशस्तिः नन्दनवनतीर्थप्रशस्तिः शासनसम्राट्स्मृतिमन्दिरप्रशस्तिः जगद्गुरु-अष्टकम् चरित्र
कथा आचार्यवर्यश्रीविजयोदयसूरीश्वराणां जीवनगानम्
आस्वाद: चिन्तनधारा प्रेम्णैव प्रेम वर्द्धते
मुनिधर्मकीर्तिविजयः
१९ ।।
HTML
मुनिरत्नकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
मुनिरत्नकीर्तिविजय:
५५
मञ्चः
मुनिकल्याणकीर्तिविजय :
५७
Page #15
--------------------------------------------------------------------------
________________
कथा
मुनिविमलकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिरत्नकीर्तिविजयः
श्रीआर्यसमितसूरयः एतावदेव !
समर्पणम् काव्यानुवाद | मर्म-नर्म
मुनिधर्मकीर्तिविजयः
विजयशीलचन्द्रसूरि:
ग्रन्थपरिचयः
७७
प्राकृत विभागः संवेगमंजरीकुलयं
मुनिकल्याणकीर्तिविजय:
मुनिकल्याणकीर्तिविजय:
८२
पत्रमा
वंचणानिउणो सप्पो
मुनिधर्मकीर्तिविजय:
८४
Page #16
--------------------------------------------------------------------------
________________
- श्रीभोयणीतीर्थभूषणश्रीमल्लिस्वामिस्तवनम् ॥ -
- विजयशीलचन्द्रसूरिः
विमलपुनितगात्री अक्षयक्षेमपात्री। सकलदुरितही कुम्भराजेन्द्रपुत्री। निखिलभुवनमान्या स्त्रीजिनत्वेऽप्यनन्या जयतु जयतु मल्लि- यणीकल्पवल्लिः
||१||
जितसकलभयानां दत्तजीवाभयानां अनुभवविभवानां श्रेयसः सम्भवानाम् । जनितजनशमानां सर्वथा निर्ममाणां अखिलजिनवराणां नौमि पादौ वराणाम्
॥ २॥
गणधरवरगीतां तीर्थनाथप्रणीतां मुनिजनहृदयेषूपस्थितां सद्दयेषु । प्रवचनरसधारां छिन्नसंसारकारां अतुलशुभप्रभावां स्तौम्यहं सत्यभावाम्
||३||
अनुपममिह भूमौ जैनचन्द्रं चकास्ति प्रवचनमतिपुण्यं तत्समं क्वाऽपि नाऽस्ति। अनवरतनिमग्नास्तस्य सेवासु लग्नाः सुरवरनिकरास्ते सन्तु नित्यं प्रसन्नाः
॥४
॥
असारे ग्राम्यकासारे सरसीरुहसंवहम्। | वीक्ष्योदयन्तं मन्येऽहं 'गहना कर्मणो गतिः! ।।
Page #17
--------------------------------------------------------------------------
________________
स्तवनानुवाद - શ્રીશીતલર્જિનસ્તવન
..woelna
શ્રીશીતલ જિન ભેટીએ, કરી ભક્ત ચોખું ચિત્ત હો; તેહથી કહો છાનું કિડ્યું, જેહને સોંપ્યા તન મન વિત્ત હો. ૧. દાયક નામે છે ઘણા, પણ તું સાય૨ તે કૂપ હો; તે બહુ ખજુઆ તગતગે, તું દિણય૨ તેજસરૂપ હો. મોટો જાણી આદર્યો. દા૨ધ્ર ભાંજો જગતાત હો; તું કરુણાવંત શિશેમણ, હું કરૂણાપાત્રવિખ્યાત હો. અંતરજામી સઁવ લહો, અમ મનની જે છે વાત હો; મા આગળ મોસાળના, શા વર્ણવવા અવદાત હો. જાણો તો તાણો કિશ્ય સેવાફળ દીજે દેવ હો; વાચક ચશ કહે ઢીલની, એ ન ગમે મુજ મન ટેવ હો.
वाचक यश श्रीशीतलजिनस्तवन
...........
||१||
॥ २॥
सेवे श्रीशीतलजिनं भक्त्या कुर्वन्नच्छं चित्तं रे छन्नं किं तदने वद यस्मै दत्तं हत्तनुवित्तं रे दातारो बहवः परं त्वं जलधिस्ते ननु कूपा रे त्वं सूर्याभस्तेजसा ते भान्ति खद्योतस्वरूपा रे सेवे त्वां ज्ञात्वा क्षमं दारिद्यं दूरय देव ! रे त्वं करुणावत्सु शिरोमणिः करुणार्थी प्रसिद्धोऽहमेव रे अन्तर्यामिन् ! बोधसि मम हृद्तमखिलं भावं रे मातृपुरः को वर्णयेत् मातृपक्षलक्षणप्रस्तावं रे ज्ञात्वा किं नु विलम्बसे सेवाफलदाने नाथ ! रे ? वाचकयशसः प्रार्थना, न सहेऽतिविलम्ब तात ! रे
___ - विजयशीलचन्द्रसूरिः
॥३॥
।। ४॥
॥ ५॥
Page #18
--------------------------------------------------------------------------
________________
श्रीविमलनाथप्रासादप्रतिष्ठाप्रशस्तिः
-विजयशीलचन्द्रसूरिः
(अनुष्टुप)
प्रस्तुत्य स्तुत्यचरणं, स्तुतं भूरिधरेश्वरैः । कुर्वे शस्तिं प्रतिष्ठाया नेमिसूरीश्वरं गुरुम्
॥ १॥
(वसन्ततिलका) स्वस्तिश्रियां गृहमुदारमुदां निवासः
पीयूषपेशलसुकोमलवाग्विलासः । दूरीकृताघप्रसरः सुरसेव्यपादो भव्याय भव्यभविनां विमलप्रभुः स्तात्
॥२
॥
(वसन्ततिलका)
यत्पाद पद्मयमलं विमलं विहारकाले सुकोमलसुपर्वकृतोत्पलेषु । संतिष्ठते नवसु हेममयेषु, भक्त्या वन्दे मुदाकरमहं विमलप्रभुं तम्
॥३॥
(शार्दूलविक्रीडितम्) केषांचिद् हृदयं रमाप्रियधवे लग्नं सदा माधवे,
केषांचिद् सजरे विधौ, च कियतां रूपेण रुद्रे शिवे । गुञ्जद्भव्यमधुव्रतौघनलिन ! प्रध्वस्तदोष ! प्रभो ! ह्यस्माकं तु निसर्गसुन्दर ! चिराचेतो निमग्नं त्वयि
॥ ४
॥
(वसन्ततिलका)
अशोकवृक्षः। दृष्ट्वा प्रयाति भविनां यमशेषशोको दूरे द्रुतं हि समवासृतिसंस्थितं, सः। पायात्सदा विमलनाथविभोरशोंकशाखी जरामृतिजनुर्भवतो मनुष्यान्
॥ ५॥
Page #19
--------------------------------------------------------------------------
________________
(वसन्ततिलका)
पुष्पवर्षणम्। देव ! त्वदीयसमवासरणाचलायामस्वप्नवर्षितमनोरमपुष्पराशेः । भूयादपायसुरभीतरवासराशिनाशी नृणां विमलनाथ ! विभो ! सुगन्धः
॥६॥
(हरिणी)
दिव्यध्वनिः। प्रलयजलभृद्ध्वानन्यक्कृद्विराजति सद्ध्वनिस्समवसरणे दिव्यो भव्यो विभो ! तव मञ्जुले। सकलभविकस्फारागार ! द्रुतं विमलप्रभो !, दुरितदनुजस्तं च श्रुत्वा प्रगच्छति दूरतः
॥७॥
(आर्या)
चामरम्। धवलिमपरास्तशशधर- किरणाभ्यां चारुचामरवराभ्याम् । अनिशं वीज्यमानो ददातु न : शं विमलजिनराट्
॥८
॥
(आर्या)
सिंहासनम्। नानारत्नमणीगण-विभूषिते भासुरे सुरेशकृते। सिंहासन उपविष्टः,पुनातु नो विमलनाथजिनः
|| ९||
(आर्या)
भामण्डलम्। नमदाखण्डलमण्डल ! दृष्ट्वा भामण्डलं तवोर्जस्वि। मिहिरं स्मरन्ति भव्या ध्वस्तध्वान्तं प्रकाशकरम् ।
॥ १०॥
Page #20
--------------------------------------------------------------------------
________________
दुन्दुभिः।
(वैतालीयम)
त्वयि भक्तिभरान्वितैः सुरै - र्विहितो दुन्दुभिनाद एष नः। विमलाशय ! नाशयत्विहाऽष्टविधं मंक्षु प्रमादविद्विषम्
॥ ११॥
छत्रत्रयम्। (वसन्ततिलका) रत्नत्रयं किमिव मूर्तिमदेतदस्ति.
छत्रत्रयं विशददिव्यमयूखधाम ! मूर्ध्नि स्थितं त्रिविधतापहरं नराणां, यस्य, प्रणौमि विमलं विमलं जिनं तम्
।। १२॥
(अनुष्टुप)
अत्यद्भुतप्रभावेन,भाविताशेषभूतलम् । कृपाकल्पद्रुमं भक्त्या,नमामो विमलं जिनम्
|| १३||
(आर्या)
आचार्यधर्ममूर्ति-सूरीन्द्ररचलगणविहायोऽङ्कः । विहिताऽञ्जनशलाका,प्रतिमा विमलप्रभोः पूर्वम्
॥ १४॥
(आर्या)
अन्याश्चाऽपि चतुर्दश, प्रतिमाः काश्चिन्नवाश्चै प्रत्नाश्च । अहम्मदावादपुरे, लालाभाईप्रतोलिकामध्ये
॥ १५॥
(आर्या)
आमूलं जीर्णोद्धत-जिनालये विमलनाथजिनराजः। राजन्ति भव्य राजि-सुपूजिता इह प्रमोदप्रदाः ।। || १६ ॥
(त्रिभिर्विशेषकम्)
Page #21
--------------------------------------------------------------------------
________________
(पृथ्वी)
रसेक्षणनभोऽयन(२०२६)प्रमितकेऽत्र संवत्सरे सहोधवलपक्षके जयकरे हि षष्ठीदिने। इमाः सकलमूर्तयो विहितभव्यहृत्स्फूर्तयो लसन्ति सुप्रतिष्ठिता जिनगृहेऽत्र भव्यैर्मुदा
॥ १७॥
(वंशस्थविलम्) बभूवुराचार्यवरास्तपस्विनः,
पुरा जगचन्द्रसुनामचञ्चवः । गतः प्रसिद्धिं 'तप'संज्ञकस्ततस्ततोऽच्छगच्छो जगतीह चन्द्रवत्
॥ १८॥
(शिखरिणी)
गणेऽस्मिन् संजातो विशदधिषणः सद्गुणचणः बहुक्षोणीपालप्रणतचरणः शुद्धचरणः। सुतीर्थेऽस्मिन् जैने दिनमणिरिव व्योमसदृशे, यतीनः सूरीशः समसमयविन्नेमिविजयः
॥ १९॥
(आर्या)
तत्पट्टधरः पूज्यो-ऽमेयगुणः सर्वदा सदयहृदयः। संप्रति धुर्यस्तीर्थे, विजयोदयसूरिराड् जयति
॥ २०॥
(अनुष्टुप्)
तस्य पट्टधरः सूरेः,श्रीलनन्दनसूरिराट् । सर्वदा शर्मदः पूज्यो जयति यतिपुङ्गवः
॥ २१॥
(शार्दूलविक्रीडितम्) योऽनन्तस्थिततारकौघगणनां धीरो विधत्ते जनः,
संजाता जिनपा इयन्त इति यो जानाति चाऽद्यावधि। ज्ञाता येन च रोहणाचलमणीसंख्या सुसंख्यावता, श्रीमन्नन्दनसूरिणो गणयितुं शङ्के गुणान् स क्षमः
||२२||
Page #22
--------------------------------------------------------------------------
________________
(शार्दूलविक्रीडितम्) यः श्रीमज्जिनशासनाम्बरतले हंसायते दीप्तिमान्, धीमन्मानसमानसे गुणशुचिर्हंसायते चाऽपि यः । यः सद्ग्रन्थसमूहमाग्रथितवान् निर्ग्रन्थराजो महान्, स श्रीनन्दनसूरिराजसुगुरुः स्याद्भूयसे श्रेयसे
(शार्दूलविक्रीडितम्) एकोऽहं भुवनेऽमृतस्य निलयस्तेजोनिधानं तथा, प्राण्याह्लादकरोऽप्यहं, शशधरेत्थं माऽभिमानं कृथाः । यत्त्वतोऽप्यधिकः कलङ्करहितो जेजीयते भूतले,
वाचं न्यक्कृतसत्सुधां परिधरन् श्रीनन्दनः सूरिराट्
(पञ्चचामरम् )
(वंशस्थं)
(शालिनी)
सदा प्रसन्नमानसं त्रिशल्यशल्यसन्निभं, सुमेधसंगतैनसं महौजसं सचेतसम् । सुशिष्यवृन्दवन्दितं, गिरेव चन्दनं तथा, प्रभूतभूतनन्दनं नमामि सूरिनन्दनम्
(द्रुतविलम्बितम्) बुधजनालिसभाजनभाजनं विहितशास्त्रमहोदधिमज्जनम् । कृतकुदोषनिशाचरतर्जनं, भविकरं प्रणतो गुरुनन्दनम्
यदीयसद्दर्शनमात्रतो व्यथा, गता हि भीतेव शरीरिणां द्रुतम् । किमाकृतिं शान्तरसो धरँश्च यः, सनन्दनः सूरिरिहास्तु मे श्रिये
श्लोकोऽप्येको वर्ण्यते नैव यस्य, नैकैः श्लोकैः पण्डितौघेन लोके । दीव्यत्तेजोराजमानप्रभावः, सूरीशः स श्रेयसे नन्दनः स्तात्
11 33 11
॥ २४ ॥
॥ २५ ॥
॥ २६॥
॥ २७ ॥
11 26 11
७
Page #23
--------------------------------------------------------------------------
________________
८
(मालिनी)
(पृथ्वी)
(पृथ्वी)
(आर्या)
(आर्या)
(अनुष्टुप्)
(अनुष्टुप्)
(अनुष्टुप्)
भविकमधुलिहोघैः सर्वदा सेव्यमानं, सुगुणगणसुवासाऽऽमोदिताऽशेषलोकम् । पदयुगमिव पद्मं नन्दनाख्यस्य सूरेरपि विकसनशीलं यत्सदा तत्प्रवन्दे
शुचिः कलुष शाखिनां, जलधरः क्रुधग्नेरपि, हरिर्मदगिरेस्तथा, तृडुदधेरगस्त्यश्च यः । भवोदधिनिमज्जतां प्रवरयानपात्रं गुरुः, सनन्दनमुनीश्वरो भवतु नः श्रिये सर्वदा
अनङ्क इव चन्दिरो गुरुरिवाऽथ मर्त्याङ्गभृद्, द्विपादिव च केसरी, निखिलकर्ममातङ्गभित् । सुतीर्थमिव जङ्गमं, भविकृताघनाशीह यः, स नन्दनमुनीश्वरो भवतु नः श्रिये सर्वदा
तेषां सूरिचतुष्टय- समन्वितानां सभ (२७)मित साधूनाम् । पावननिश्रायां खलु, जातेष्टा सुप्रतिष्ठेयम्
सोत्सवं सोल्लासं, प्रभूतधनसद्व्ययेन विहितेयम् । भव्य श्राद्धैः सूरी-श्वरनिश्रायां प्रतिष्ठाऽच्छा
श्रेष्ठिश्रीफुलचन्द्राख्यः, श्राद्धश्रेष्ठ उदारधीः । प्रतोलिकायां तत्रैव, वास्तव्यः स्तव्यसद्गुणः
जीर्णोद्धारात् समारभ्य, ह्या प्रतिष्ठोत्सवं मुदा । कृतवान्नु महायासं, जिनभक्त्येक प्रेरितः
विहितोऽपि हि तेनाऽत्र, प्रभूतधनसद्वययः । तत्प्रेरितागतैः किञ्च, मोहमय्यादितः खलु
1138 11
11 30 11
11 39 11
11 33 11
11 33 11
॥ ३४ ॥
॥ ३५ ॥
( युगलम् )
॥ ३६ ॥
Page #24
--------------------------------------------------------------------------
________________
(अनुष्टुप)
(अनुष्टुप्)
(अनुष्टुप्)
(अनुष्टुप्)
(अनुष्टुप्)
(आर्या)
अनेकैः श्रेष्ठिवर्यै र्हि, विहितो हितकारकः । व्ययोऽनल्पधनस्याऽत्र, प्रतिष्ठाया महोत्सवे
प्रतोलिकायां वास्तव्यैर्जनैः सङ्घगतैः खलु । सोल्लासं हि यथाशक्ति, विहितो धनसद्व्ययः
श्रीमतः फुलचन्द्रस्य, श्रेष्ठिनो निःस्पृहस्य च । संविज्ञाय तमायासं, जिनभक्तिकृते कृतम्
श्री सङ्केन कृतज्ञेन, प्रतिष्ठानन्तरं खलु । द्वारोद्धारार्थमादिष्टः, ससम्मानं स एव हि
प्रतिष्ठामिषतो भद्रै-र्जिनभक्तिपरैर्नरैः । ध्रुवं कृता प्रतिष्ठा हि भव्यत्वस्य निजात्मनि
यावत्कालं सिद्धा, वर्तन्ते रम्यमुक्तिहर्म्ये हि । तावदियं सुप्रतिष्ठा, नन्दतु भव्यौघशकंर्त्री
श्रीनन्दनसूरीश्वर - निश्रायां श्रेयसा च मिश्रायाम् । पन्न्यासपदालङ्कृत- सूर्योदयविजयगणिराजाम्
विनीतशिष्यलवेन, शीलादिमचन्द्रनामकेनेयम् ।
दृष्ट प्रतिष्ठा विधिना, श्रीमद्राजाभिधे नगरे तत्रैवाब्दे सहसि, पौषदशम्यां नु प्रापिता पूर्तिम् । शस्तिर्गुरुवर शिष्ट्या, वर्धितदिष्टा प्रतिष्ठाया
॥ प्रशस्तिरियं समाप्तिमभजत् ॥
11 30 11
( युग्मम्)
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
(युगलम् )
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥४५ ॥
(त्रिभिर्विशेषकम् )
९
Page #25
--------------------------------------------------------------------------
________________
१०
-
-
TAM
ENGLISH SCHOOL
SCHOLAN
IMIUMe
AD
आङ्ग्ल विद्यालयस्य । माहात्म्यम्!
देशे दारिद्यं दृष्ट्वाऽत्यन्तं ग्लानिमनुभवामि। तदपनेतुमहं सर्वयत्नैः यतिष्ये।
महोदय !
→
वचनानुसारं
7
मम दारिद्यमपसारयतु, न तु मां दरिद्रम् !
Page #26
--------------------------------------------------------------------------
________________
११
॥६०॥
||
१||
॥ २
॥
= नन्दनवनतीर्थप्रशस्तिः
-विजयशीलचन्द्रसूरिः मनाप्रड्न नमः । श्री मुनिसुव्रतस्वामिने नमः । स्वस्ति। जयति जगति जिननायक-वीरप्रभुशासनं परमशिवदम्। नित्योदितं जगद्धित-मतिपुनितं विबुधगणमहितम् पञ्चमगणधरभगवान् श्रीवीरस्वामिपट्टगगनमणिः । श्रमणगणादिमपुरुषो जयति सुधर्माभिधः सुगुरुः तत्पदपारम्पर्ये तपगच्छोऽ तुच्छसद्गुणस्वच्छः। शास्त्राधारित-सुविहित-सामाचार्यां स्थितो भाति
॥३॥ नैके श्रुतधरपुरुषाः शासनमान्याश्च परमगीतार्थाः । चिरकालमन्वभूवन् , तपगच्छैश्वर्यमतिवर्यम् विक्रमतो विंशतितम-शतके गच्छेश्वरोऽभवत् सूरिः । श्रीविजयनेमिसूरिः शिष्यो मुनिवृद्धिचन्द्रस्य
॥५ ॥ सुविहित-संविग्नमुनि-व्रजधुर्यः सूरिचक्रवर्त्यपि च । जिनशासनसम्राडपि भूरिग्रन्थप्रणेता च
॥६॥ कापरडा-कादम्बा-चलप्रमुखानेकप्रत्नतीर्थानाम् । जीर्णोद्धारविधाता प्रभूतनृपबोधदाता च नैष्ठिकसद्ब्रह्मधरो युगप्रधानोपमोऽनुपमसत्त्वः । सच्चारित्रपवित्रो विशालशिष्यौघपरिकलितः तत्पट्टोदयपर्वत-शिखरे सूरोदयोपमः परमः । गीतार्थवृन्दमुख्यो विजयोदयसूरिराडभवत्
|| ९॥ तत्पट्टधरः श्रीमान् परमदयालुः सुतीक्षणसद्धिषणः। जिनशासने धुरीणो नन्दनसूरीश्वरः समभूत्
||४||
स च
॥७॥
!! ८
॥
||१०॥
Page #27
--------------------------------------------------------------------------
________________
१२
॥ ११॥
॥ १२॥
।। १३॥
॥ १४॥
॥ १५ ॥
॥ १६॥
सोऽपि- धीरो विशालहृदयः समदर्शी भिन्नमतसहिष्णुश्च ।
वात्सल्यामृतवर्षी शासनहितचिन्तने निरतः भवभीरुर्गीतार्थः सर्वजनोपकृतिप्रकृतिकः सुकृती। दम्भाहंकारादिक-दूषणरहितः सरलचित्तः निजपरसमसमयज्ञः समयज्ञो ग्रन्थषोडशीकर्ता । गच्छाधिप ओजस्वी स सूरिरिह परमगुरुसेवी बाल्ये गृहीतदीक्षो वर्षभदशभिरेव सूरित्वम्। समवाप्य पालयित्वा पञ्चाशद्वत्सरावधि च तदपि अथ विहृतो निजवयसः सूरीशानोऽष्टसप्ततितमेऽब्दे । शत्रुञ्जयतीर्थोपरि नूतनजिनगृहप्रतिष्ठार्थम् अहम्मदाबादपुराद् विहरन् क्रमशः स आगतः ससुखम्। नेत्राग्निखपाण्यब्दे (२०३२) मार्गसितेतरचतुर्दश्याम् तत्र च सन्ध्यासमये जाता तत्स्वास्थ्यविकृतिरथ सहसा।
पञ्चनमस्कृतिसंश्रुति-पूर्वं प्राप च समाधिमृतिम् अथ च- श्रीनेमिसूरिपट्टे सूरिर्विज्ञाननामकः समभूत्।
तत्पट्टे कस्तूरः सूरीशस्तत्पदे यशोभद्रः । सूरिरभूत् तत्पट्टे शुभङ्करस्तस्य पट्टधरसूरिः। सूर्योदयाभिधोऽस्ति श्रीनन्दनसूरिपदसेवी तत्प्रेरणया श्रावक-वर्गस्तगडीति नाम्नि तत्क्षेत्रे। सूरीशस्वर्गभुवि गुरुभक्त्या निर्मितं रम्यम् श्रीनन्दनसरीश्वर-धर्मोद्यानं विहारयात्रायाम। गच्छन्मुनि-साध्वीनां नितरां विश्रान्तिहेतु महत् गच्छादिभेदमुक्तं श्रमण-श्रमणीगणस्य नित्यमिह । भवति हि वैयावृत्त्यं सूर्योदयसूरिप्रेरणया
॥ १७॥
।। १८।।
॥ १९॥
॥ २०॥
।। २१॥
॥ २२॥
Page #28
--------------------------------------------------------------------------
________________
१३
किञ्च- श्रीस्तम्भतीर्थवासी श्रीवीशाओशवालवंशीयः । दलपतभाई झवेरी - नामाऽऽसीत् श्रावको धनिकः
|॥ २३॥ सुन्दरलालेत्यभिध-स्तस्य सुतो देवगुरुपरमभक्तः। सद्धर्मकर्मकरणे नित्यं रक्तस्तथा जातः
।। २४ ॥ तद्भार्या श्रीजासुदबाईत्यभिधाऽभवत् सुकृतनिष्ठा । पातिव्रत्यघराऽथ च धर्ममतिः श्राविका सुभगा
||२५॥ तत्पुत्रत्रितयं खलु पूनमचन्देति तत्र प्रथमोऽस्ति। तदनु जसवंतलालो वीरेन्द्राह्वस्तृतीयश्च
॥ २६ ॥ पितृमातृभक्तिसंभृत-चित्तैस्तैर्मातृभावनां ज्ञात्वा । निजपितृकल्याणार्थं जिनगृहनिर्माणनिर्णयोऽकारि
।। २७ ॥ ततश्च- श्रीसूर्योदयसूरेस्तच्छिष्यात शीलचन्द्रसाधाश्च । समवाप्य सदुपदेशं तगडीग्रामेऽत्र चैत्यनिर्माणे
॥ २८॥ कृतसंकल्पैस्तैः किल रूप्यककोटिव्ययं निजं कृत्वा । उत्तुङ्गशिखरमण्डित - जिनभविनं कारितं शीघ्रम्
॥ २९॥ तत्रोपरितनभागे मुनिसुव्रतनाथमुख्यबिम्बानाम्। भूमिगृहे श्रीऋषभ-स्वाम्यादिकजैनबिम्बानाम्
॥ ३०॥ तैर्निजकुटुम्बसहितैः इतरश्राद्धैश्च गुरुचरणरक्तैः। दशदिवसीयमहोत्सव-पुरस्सरं कारिता प्रतिष्ठाऽपि
॥ ३१॥ श्रीसूर्योदयसूरेः शिष्य-प्रशिष्यादिपरिवृतस्य मुदा। निश्रायां विहितोऽञ्जन-विधिरपि विधिशास्त्रमनुसृत्य
॥ ३२॥ संवति समितिसमितिखे-क्षण(२०५५)प्रमिते फाल्गुने तथा मासे । पञ्चम्यां शनिवारे विहिता जिनभुवनसुप्रतिष्ठा
॥ ३३॥ अपरं च- तत्सममेव प्रतिष्ठित-मेतत्तीर्थस्य मङ्गलं नाम । 'नन्दनवनतीर्थ' मिति समस्तसंघेन शुभभावैः
|| ३४॥
Page #29
--------------------------------------------------------------------------
________________
१४
किञ्च
॥ ३५॥
तीर्थस्य सुव्यवस्था-कारकमस्तीह चारुसत्तन्त्रम् । भाविकजनदत्तधनै-स्तेनाऽत्र विनिर्मितं सुभगम् यात्रिकभुवनं भोजन-सदनं चोपाश्रयद्विकं सुभगम् । श्रीनन्दनसूरीणां मूर्तियुता सुगुरुकुलिका च
|| ३६॥ यावचन्द्रदिवाकर- मेतत्तीर्थं तथैव जिनभुवनम्। जयताज्जगति जनानां कर्मक्षयहेतु भवतु तथा
॥ ३७॥ श्रीनन्दनसूरीणा-मन्तेवासी प्रशस्तिकामेताम् । सूर्योदयसूरिशिशुः शीलेन्दू रचितवानिति शम्
शुभं भूयात् श्रीश्रमणसंघस्य ॥ शिवमस्तु सर्वजगतः ।। श्रीः ॥
|| ३८॥
श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः॥
हैमवचनामृतम्॥
Page #30
--------------------------------------------------------------------------
________________
१५
शासनसम्राट्स्मृतिमन्दिरप्रशस्तिः=
यः -
-विजयशीलचन्द्रसूरिः गतवृजिनं वीरजिनं व्रतिनामिनमद्य संस्तुवे शमिनम्। दृष्टा यं प्राथम्येऽर्यमबुद्धिीतमस्याऽभूत्
॥१॥ गौतम-सुधर्मप्रमुखान् गणधरधुर्यास्तथा नमस्यामि । यदुपज्ञो गणिपिटकः प्रवहत्यधुनाऽप्यखिलसंघे
||२|| श्रीमत्सुधर्मगणभृत्-पट्टे चतुरधिकसप्ततिप्रमिते। श्रीवृद्धिविजयशिष्यः संजातो नेमिसूरीशः
॥३॥ तपगच्छेशः शासन-सम्राडपि सूरिचक्रचक्री च। बहुबहुतीर्थोद्धर्ता, नैकग्रन्थप्रणेता च
|| ४ ॥ अप्रितम प्रौढप्रतिभः, संयमनिष्ठश्च सत्त्वशाली च। संघस्य च यः कृतवान्, पथदर्शनमिह महापत्सु
||५|| अतुलमनन्यमनुपमं ब्रह्मव्रतपालनं सदा यस्य । यबलतः संकल्पै-र्वचनैरपि सिद्धतां स गतः
|॥६॥ हृदि कृतसत्यप्रतिष्ठो भवभीरुः प्रकृतिभद्रमूर्तिश्च ।
अनुकम्पाभृतचेता नेताऽपि श्रमणसंघस्य कार्तिकशुक्लप्रतिपदि नव-कर-नव-चन्द्र (१९२९)वत्सरे पुण्ये। मधुमत्यां शनिवारे, वीशाश्रीमालवंशके जातः
||८| लक्ष्मीचन्दतनूजो दीवालीबाइमातृसन्तानम्। श्रीनेमचन्दनामा समभून्निजनामधन्यः सः
||९॥ षोडशवर्षीयेण च जगृहे दीक्षा स्वयं विरागेण ।
तदनु च गुरुवर्यकृपा-सम्पादितहितततिः सोऽभूत् ॥ १०॥ ज्ञानोपार्जननिरत-श्चारित्राराधकस्तपस्वी च ।
क्रमशो योगोद्वहना-दवाप्तगणि-पण्डितादिपदः || ११॥
॥७॥
सच
Page #31
--------------------------------------------------------------------------
________________
|| १२॥
॥ १३॥
॥ १४॥
|| १५॥
|| १६॥
॥ १७॥
शासनमान्यः शासनसेवारसिकः समस्तगुणकलितः।
ज्ञात्वा पूज्यैर्योग्यः सूरिपदे स्थापितः समुदा कृतयोगानुष्ठानः सुविहितसंविग्नमार्गगामी च।
समभूत् स एव प्रथमोऽस्मिन् शतके सूरिशार्दूलः तदनु च - निजजीवने समग्रे जीवदयां शास्त्रसेवनं सम्यक् ।
तीर्थानामुद्धारं रक्षणमपि सर्वदा कृतवान् गीतार्थशिष्यनिकरं निर्मितवान् कुशलशिल्पिवत् स तथा।
निर्मापितवान् विधिवत् सहस्त्रशो नूत्नजैनबिम्बानि किं बहुना?- बहुभूपप्रतिबोधक-मीक्षित्वां यं भवन्ति स्मृतिविषयाः।
श्रीहीर-हेमप्रमुखाः सूरीशास्तेजसांनाथाः अपि च - शर-ख-ख-कर(२००५)मितवर्षे आश्विनमासेऽथ दीपपर्वदिने।
महुवापुर्यां रात्रौ, समाधिमरणं स आप गुरुराजः तज्जन्मस्थाने जिन-भवनं श्रीदेवगुरुप्रसादाख्यम् ।
देहान्तिमभूमावपि चैत्यं शिखरोन्नतं माति अथ च - स्वर्गारोहणवर्षा-दर्धशताब्द्यत्र वैक्रमे जाता।
शर-शर-पुष्कर-कर(२०५५)मित-वर्षे हर्षप्रकर्षप्रदा महुवावास्तव्येन श्रीसंघेनाऽत्र वत्सरे कृतम्।
स्मृतिमन्दिरं च विविधा महोत्सवा निश्चिता बहवः ततश्च - श्रीनेमिसूरिपट्टे सूरिविज्ञाननामकस्तस्य।
पट्टे कस्तूरातः सूरीशस्तत्पदे यशोभद्रः तत्पट्टे च शुभङ्कर-सूरिस्तत्पट्टभूषणं चास्ति।
श्रीसूर्योदयसूरि-निर्मलतेजोभरितमूर्तिः तस्याऽऽज्ञया तदीयः शिष्यः श्रीशीलचन्द्रसूरीशः।
मुनिविमल-रत्न-कल्याण-धर्मकीर्तीतिनामधरैः
॥ १८॥
॥१९॥
|| २०॥
|| २१॥
॥ २२॥
॥ २३॥
Page #32
--------------------------------------------------------------------------
________________
१७
॥ २४॥
॥ २५॥
॥ २६॥
॥ २७॥
त्रैलोक्यमण्डनेन च शिशुमुनिना परिवृतः स संस्थितवान्।
चातुर्मास्यं महुवा-नगरे वर्षेऽत्र विज्ञप्त्या तत्प्रेरणया तस्य च निश्रायां मार्गदर्शनेनाऽपि।
बहुसंघ-भूरिभव्यव्रजसाहाय्यात् सुलब्धधनः महुवासत्कः संघ कारितवान् मन्दिरं गुरुस्मृत्याम् ।
नव्यं भव्यं रम्यं गुरुप्रतिमामण्डितं सुभगम् तत्र च - श्रीगुरुजीवनपरिचय-कराणिशुभतैलचित्रफलकानि ।
संस्थापितानि निपुणै-श्चित्रकरैर्निर्मितानि तथा शून्य-शर (५०) प्रमिते श्रीनेमिगुरोः संवतीह चाऽश्वयुजि ।
मासे पर्वपवित्रे शुक्रे च धनत्रयोदशीदिवसे स्मृतिमन्दिरस्य तत्र च परमगुरोस्तातपादपूज्यस्य।
स्वर्णरसित-पित्तलमय-मूर्तेर्विहिता प्रतिष्ठा च यावचन्द्रज्योत्स्ना संसारं सान्त्वयति निराकांक्षम्।
विलसतु तावदियं गुरु-मूर्तिर्गुरुमन्दिरं च मधुपुर्याम् गुरुवर ! भवतो भक्त्या यद्यर्जितमल्पमपि मया सुकृतम्।
तत्तेनाऽहं संयमशीलः स्यामेवमीहते शीलः नेमिगुरोः प्रीत्यास्पद-मासीत् श्रीनन्दनाह्वसूरीशः ।
तस्याऽन्तिषद् रचितवान् प्रशस्तिमेतां नु शीलेन्दुः
|| २८॥
।। २९ ।।
॥ ३०॥
॥ ३१॥
||२२||
| सरिदम्भोभिरम्भोधिः किं माद्यति मनागपि ? |
हैमवचनामृतम्॥
Page #33
--------------------------------------------------------------------------
________________
१८
-जगद्गुरु-अष्टकम्
-विजयशीलचन्द्रसूरिः
॥ १॥
॥२॥
॥३॥
||४||
श्रीहीरविजयसुगुरुं गुरुगणगुम्फितं जगन्महितम् । हितकरमतुलप्रभावं भावाङ्कितचेतसा वन्दे वन्देऽमन्दानन्दं नन्दनवनमिव प्रसन्नतानिभृतम्। भृतमपि विशुद्धसंयम - यमनियमै रसूरिवरम् वरशिष्यपरिकरान्वित-विततगणाधीश्वरं तपोनिरतम्। रतमविरतमात्महिते हिताहितज्ञं स्तुवे गुरुं हीरम् हीरकरत्नसमानम- मानमनोरमविशुद्धदीप्तिगृहम् । गृहमतिशयितविमलता-लतावितानस्य, हीरप्रभुम् प्रभुमकबरनामानं मानोन्नतमखिलदेशभूपपतिम् । पतितमपि प्राणिवधे वधतो विनिवारकं नौमि नौमि च शत्रुञ्जयगिरि-गिरिनारप्रमुखभूरितीर्थेषु । तीर्थेषु भवे भविनां भविनां यात्राप्रवृत्तिकरम् करमोचनकर्तारं कर्तारं गोवधस्य प्रतिबन्धनम् । बन्धनमुक्तेर्डाबर-वरसरसी-यादसां प्रणेतारम् नेतारं तपगच्छे गच्छानां निर्मले तथा श्रेष्ठे। श्रेष्ठं साधुसमुदये उदयन्तं स्तौमि हीरसूरीशम्
||५॥
युग्मम् ।।
॥ ६॥
|| ७
॥
॥८॥ विशेषकम् ।।
फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत्॥
हैमवचनामृतम्॥
Page #34
--------------------------------------------------------------------------
________________
चरित्र
कथा
न्यायविशारद - सिद्धान्तवाचस्पति - पूज्यपादाऽऽचार्यवर्य श्रीविजयोदयसूरीश्वराणां जीवनगानम् - मुनिधर्मकीर्तिविजयः
,
अस्ति जिनशासनस्याssधारो देवो गुरुः धर्मश्चैवं तत्त्वत्रिकम् । तत्राप्यस्मिन् काले विशेषेण गुरुतत्त्वस्य माहात्म्यमस्ति यत एतदेवाऽन्यस्य देव-धर्मस्वरूपतत्त्वस्य प्राप्तौ प्रधानं कारणमस्ति । साम्प्रतं देवा अपि बहवः धर्मा अपि भिन्ना भिन्नाः सन्ति; तत्र को देव आराध्यः को धर्म उपादेयश्चेति ज्ञातुं गुरुरेव समर्थोऽस्ति ।
अधुना श्रीजिनेश्वराणां केवलज्ञानिभगवतां च विरहेऽस्माकं सन्ति गुरव एवाऽऽधारभूताः। जिनागमस्य गूढरहस्यमगम्यतत्त्वं च ज्ञात्वा जिनेशप्ररूपिते मार्गे - ऽस्मादृशान् जीवान् स्थिरीकारकास्ते गुरव एव सन्ति । यदि न गुरुभिः जिनमार्गो रक्षितः स्यात् तर्हि वयं सर्वेऽप्यज्ञान - मोहाहङ्कारादिरूपान्धकारे एवेतस्ततोऽटन्तः स्याम । इदानीं भवाटवीमुल्लङ्घयितुं गुरव एव पथदर्शकाः सन्ति । अस्मिन् काले न संभवत्येवा-ऽस्मादृशानां वामुद्धा गुरुं विना । अतस्तेषां गुरुणां प्रतिपत्तिरेव मोक्षमार्गप्राप्तेरमोघं कारणमस्ति।
गुरुः कः ?
'गु' शब्दस्त्वन्धकारे स्यात् 'रु' शब्दस्तन्निरोधकः । अन्धकारविरोधित्वात् 'गुरु' रित्यभिधीयते ॥
१९
अपाकरोति योऽविवेकमानादिदुर्गुणरूपान्धकारं स गुरुः । यः स्वयमब्धौ निमग्नः स अन्यान् समुद्रपारं कर्तुं न समर्थः । स तु स्वयं निमज्जति, अन्यानपि निमज्जयति । अत एतच्छ्लोकेन ज्ञायते यद्, यो गर्व-क्रोध- अज्ञान - दम्भ-प्रपञ्च - असूया - कदाग्रहमहत्त्वाकाङ्क्षादिदुर्गुणान्धकारविरहितः स एव गुरुत्वेन कथयितुं शक्यः ।
किञ्चैतादृशां गुरूणां निरतिचार - विशुद्धचारित्रपालनेन विवेकान्वितज्ञानप्रभावेण चैवाऽद्यपर्यन्तं श्रीमहावीरप्रभोः शासनं निर्बाधत्वेन निष्कलङ्कतया च प्रवर्तते । अन्य-दर्शनीयैः परधर्मिनृपतिभिश्च जिनशासनं कलङ्कयितुं नैके प्रयत्नाः कृतास्तथाप्येभिः गुरुभिः जिनशासनस्य सर्वोपरित्वं यथातथमेव रक्षित्वा शासनस्योद्योतः कृतः।
Page #35
--------------------------------------------------------------------------
________________
२०
अस्यां श्रीत्रैशलेयप्रभोः पट्टपरम्परायामस्मिन् शतके गुर्जरदेशेऽहङ्कारविरहितज्ञानवन्तो निर्मलचारित्राराधका: शास्त्रनिष्ठजीवना न्यायविशारद-सिद्धांत-वाचस्पतिपूज्यपादाचार्यमहाराजश्रीविजयोदयसूरीश्वरगुरुभगवन्तोऽवातरन्।
तैः पूज्यपादैः श्री विजयोदयसूरीश्वरभगवद्भिः जिनशासनस्याऽनुपमा सेवा कृता । न कदापि विस्मर्तुं शक्यते तेषां पूज्यपादानामुपकारः ।
'न्यायमार्तण्ड-महोपाध्याश्रीयशोविजयेभ्यः पश्चादद्यप्रभृति पूज्यपादश्रीविजयोदयसूरीश्वरतुल्या बहुश्रुत-गीतार्थशिरोमणिविद्वन्महापुरुषा न भूताः तथाऽऽगामिनि काले ईदृशाः प्रतिभासम्पन्नमहापुरुषा भविष्यन्ति न वा'' एवं जिनशासनाग्रणीश्रेष्ठिना कथितम् । एतत्कथनेनैव ज्ञायते, यत् ते पूज्यपादाः कीदृशा महापुरुषा आसन्।
तेषां महापुरुषाणां चरित्रलेखनं मादृशां तु समुद्रतटे स्थित्वा सिन्धोः गांभीर्य मातुं प्रयत्न इव, दीपं गृहीत्वा सूर्यं मार्गयितुं प्रयत्न इव च चेष्टाऽस्ति। तथापि सज्जना उदारचित्ताः सन्ति, न कदापि बालकस्य चेष्टामवगणयन्ति ते, एवं मन्येऽहम्।
कथितं च - किं बाललीलाकलितो न बालः। पित्रोः पुरो जल्पति निर्विकल्पः ? | अतोऽत्रापि 'सज्जनपुरुषा ममाऽप्येतां बालचेष्टां स्वीकुर्वन्तु' इत्यहं विज्ञपयामि।
प्रान्ते - 'महापुरुषाणां गुणकीर्तनमपि कर्मक्षयस्य निदानम्'' इति परमश्रद्धयैव पूज्यपादानां श्रीविजयोदयसूरीश्वरगुरुभगवतां किञ्चित् जीवनचरित्रं लिखितुं प्रयतेऽहं बालबुद्धिः।
जन्म अस्तीहैव जम्बूद्वीपे भरतखण्डे गुरुगुणगणगौरववति गूर्जरदेशे परमपुण्यसौधमेकं 'श्रीस्थंभतीर्थ' नामकं नगरम्।
Page #36
--------------------------------------------------------------------------
________________
२१
यस्मिन नगरे राजिया-वाजियापारेख-तेजपालसंघपति-उदयकरणसंघपतिकविवरश्रीऋषभदासादयः सुश्रावका जाताः । यत्र कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिणो दीक्षाऽभूत् । यन्नगरं श्रीअभयदेवसूरि-श्रीसोमसुंदरसूरि-अकबरप्रतिबोधकजगद्गुरुश्रीहीरविजयसूरि-श्रीविजयसेनसूरिपुङ्गवप्रमुखाचार्यपरमपवित्रपादारविन्दैः पावनीभूतमासीत् । यत्र द्वादशलक्षवर्षाधिकचिरन्तनी कामितपूरणश्रीपार्श्वप्रभोः नयनरम्या प्रतिमा विराजते । यत्र प्रायोऽशीतिरभ्रं लिहभव्यजिनगृहाणि दीप्यन्ते तथा विद्वज्जनानामध्ययनायाऽ मूल्याऽऽगम-न्याय-ज्योतिष-व्याकरण-साहित्यादिग्रन्थगणैः सुशोभितानि ज्ञानमन्दिराणि च सन्ति । अधुना तु तन्नगरं खंभात इति नाम्ना प्रसिद्धमस्ति।
तत्र च वसति स्म जिनेश्वरेष्वप्रतिमश्रद्धावान् गुरुजनेषु च परमप्रीतिधारकः श्रीछोटालालनामकः सुश्रावकः । तस्याऽऽसीत् भार्या प्रसन्नतायाः प्रतिकृतिरिव तथा दानशीलादिगुणालङ्कारान्विता श्रीपरसनदेवी।
''पुण्यवन्त उत्तमजीवा उत्तमक्षेत्रे एव जायन्ते''
श्रीस्थंभतीर्थे वैक्रमीये वेदयुगग्रहजैवातृक(१९४४)संवत्सरे तैषशुक्लस्य वदनेन्दु(११)तिथौ भोमवासरे प्रशस्तमुहूर्ते श्रीपरसनदेव्याः कु क्षे: जिनशासनपुष्करे कुवादिकुहेवाकतिमिरतिरस्कारकारकोऽजनिष्टैको बालकः।।
अपूर्वतेजोभिः सुशोभितं ललाटं, प्रसन्नां सौम्यां च मुखमुद्रां तस्य निरीक्ष्य पितरौ अतीवाऽऽनन्दितौ आस्ताम्। तेषां मानसं हर्षोल्लासेन पूरितमंभूत्। सर्वे कौटुम्बिक-जनाश्चाऽपि तस्य बालकस्यैतादृशं ललाटं प्रेक्ष्याऽऽनन्दमनुभवन्तः परस्परमकथयन्-यद् एष बालको भविष्यकाले महापुरुषो भविष्यति।
अथ शुभे दिने तस्य बालकस्य ‘उजमशी' (उद्यमसिंह) इत्यभिधानं कृतम्। तस्य द्वौ ज्येष्ठौ भ्रातरौ 'ठाकरशीभाई-मोहनभाई इत्याऽहौ, 'रतनलालः' इति नाम्ना लघीयोभ्राता, तथा 'रेवा' नाम्ना एका भगिन्याऽऽसन्।
(२)
शैशवकाल: मातापितरौ धर्मनिष्ठौ संस्कारिणौ चाऽऽस्ताम्। ततस्तयोः शुभसंस्काराः पुत्रेऽपि सहजं परिणताः । “यदि मातृहृदये शुभभावना भवेत् तयवश्यमेव सा बालकस्य मानसपटेऽविता
Page #37
--------------------------------------------------------------------------
________________
२२
भवति'' एवं लोके कथ्यते एव । अतस्स बालकोऽपि नित्यमेव जिनपूजा - गुरुसेवापाठशालागमनादीः आवश्यकधर्मक्रियाः चकार ।
"पुत्रस्य लक्षणानि पारणके, वध्वाः गृहद्वारे" एतदुक्तिं चरितार्थीकुर्वन्निव स बाल्यकालादेव तपनवत् दिव्यतेजस्वी, कुरङ्ग इव स्फूर्तिमान् चाऽऽसीत् ।
एवं द्वितीयाचन्द्रवत् प्रवर्द्धमानस्स बालको व्यावहारिकाऽभ्यासार्थं शालायां पितृभ्यां प्रेषितः । तत्राऽपि कुशाग्रबुद्धित्वात् सर्वेषां विद्यार्थिनोऽग्रे सरीभवन्नासीत् । अनुक्रमेणाऽष्टवर्षीयोऽभूत् । शालायां तिस्रः कक्षास्तेनोत्तीर्णाः।
,
(३) गुरुसमागमः
वैक्रमीये वेदबाणनन्दवसुन्धरा (१९५८) वर्षे पूज्यपादाः शासनसम्राट् श्रीनेमिसूरीश्वरमहाराजाः सपरिवारं श्रीस्थंभतीर्थे समवसृताः ।
पूर्वमेतेन बालकेन शासनसम्राजां चारित्रनिष्ठा - पाण्डित्यादिगुणाः श्रुता आसन् । किन्तु नाऽद्यपर्यन्तं तेषां पुण्यदर्शनं तेन कृतम् । ततस्सहसैव शासनसम्राजां पापनाशक - दर्शनादेव बालकस्य मानसमानन्दोल्लासभृतमभूत् ।
तत्र शासनसम्राभिः संसारोदधितारिणी भववनपरिभ्रमणपरिश्रमप्रणाशिका धर्मदेशना प्रदत्ता। शर्करासमां मधुरदेशनां श्रुत्वां पूर्वं तेषां यद् गुणकीर्तनं श्रुतं तस्मिन् श्रद्धा दृढीभूता । तेषां कोमलवचनैः बालकस्यैतस्य मनोगताः प्राक्तनशुभसंस्कारा उद्घटिताः । तत्क्षणमेव बालकस्य हृदयमननुभूतपूर्वं मन्थनमनुभवितुं लग्नम् ।
अथ देशनां निशम्य सर्वे श्रावकजना निर्गताः, किन्तु तत्रैव स्थितस्स बालकः । यथा बालकोऽर्णवं वीक्ष्याऽऽनन्दमनुभवति, परंतु तस्याऽपूर्वाऽऽनन्दस्य यथार्थवर्णनं कर्तुं न समर्थो भवति; तथैवैष बालकोsपि शासनसम्राजां प्रवरं मुखारविन्दं निरीक्ष्याऽकथनीयाऽऽनन्दमनुभवति तथापि तद्वर्णनं कर्तुं हि केवलं पुनः पुनः स बालको गुरूणां मुखमेवाऽद्राक्षीत् ।
पश्चात् शनैः शनैः स तेषां समीपमागतवान् । शासनसम्राजोऽपि परीक्षका आसन् ।
Page #38
--------------------------------------------------------------------------
________________
२३
आत्मनो निरीक्षणशक्तिसामhण बालकस्य तेजोदीप्तं ललाटं दृष्ट्वा मनसि चिन्तयांचक्रुः, अहो ! अस्य बालकस्य लक्षणानि शुभानि सन्ति, तथा वदनमपि जिज्ञासासमृद्धमस्ति; तेन संभाव्यते यद्, एष बालको यदि दीक्षां स्वीकुर्यात् तर्हि स चतुराशासु जिनशासनयशःप्रसारको भविष्यति, आगामिनि काले जिनमतधुरां वाहकोऽप्येष भविष्यति। ततस्तैः मधुरस्वरेण पृष्टम्, अत्र रोचते तुभ्यम् ?
बालक आह - आम्, गुरुदेव !।
अथ स बालकोऽपि प्रतिदिनं तत्र गत्वा शासनसम्राजामन्येषां मुनिभगवतां च भक्तिं तथा स्वकीयमध्ययनं करोति स्म।
यथाकालं विहारं कुर्वन्तः शासनसम्राजोऽन्यत्र गतवन्तः। तदा स्थंभतीर्थनिवासिभिः अन्यैः बालकैः सहैष बालकोऽपि शासनसम्राड्भिः स्थापितायां जंगमपाठशालायामभ्यासं कुर्वन्नासीत् । एवं दशवर्षमात्रे वयस्येव स चत्वारि प्रकरणानि षट्कर्मग्रन्थानि पूर्णीकृत्य चन्द्रप्रभाव्याकरणस्याऽध्ययनमारभत।
(४)
प्रव्रज्याग्रहणम् "यादृशः सङ्गः तादृशः रङ्गः" एतत्कथनानुसारेण शासनसम्राजां देशनां श्रुत्वा पश्चात् बालकस्य चित्तं संयमं ग्रहीतुमुत्कण्ठितमभूत् । प्रतिदिनं तेषां मुनिभगवतां च सहवासात् बालकस्याऽऽन्तरमानसे स्थिता वैराग्यभावना दृढीभूता।
यौवनकाले सत्यपि बालकस्य चेतः संसारस्य मनःप्रमोदकारिभ्यो विषयसुखादिभ्यो . निवृत्त्य त्यागस्य कठोरमार्गमुररीकर्तुमुल्लसितमभूत् । एवं संयमरागस्तु रक्तगत इव प्रबल आसीत् । तीर्थकरप्ररूपितः संयम एव शरणं मे, अन्यत्सर्वमपि निरर्थकम्, अतो दुर्गतिदेन भवपरम्परावर्द्धकेन च संसारेणाऽलम्, इत्येवं स्वमानसे निर्णयः कृतः।
इतः एतन्मार्गग्रहणस्याऽनुमितेः प्राप्तिः सुदुर्लभाऽऽसीत् । तथाप्येकदा तेन बालकेन नम्रभावेन मनोगता भावाः पितृभ्यां कथिताः। पुत्रस्यैतत्कथनं श्रुत्वैव तौ स्तम्भवत् स्तब्धीभूतौ । ताभ्यां कथितं च यद्, अद्यप्रभृति न त्वयैषा वार्ता मे गृहे कदापि वक्तव्या । संयममार्गात् तं
Page #39
--------------------------------------------------------------------------
________________
विचलितुं पिताऽपि त्वरितमेव व्यापारेऽयुनक् । अद्यप्रभृति शासनसम्राजां समीपे गमनमपि तस्य निषिद्धम्।
अहो ! मोहस्य चेष्टा ! अहो कर्मणां गतिः। मोहराजाऽतिदुष्टः, सर्वकर्मसु स एव बलिष्ठः । मोहो विवेकं विनाशयति, विवेकविकलो जनोऽन्धनिभः कथ्यते, ततः किं सारं ? किमसारं ? किं करणीयं? किमकरणीयं ? इत्यादि विवेको नष्टो भवति।
अत्र पिता धर्मनिष्ठः श्रावक आसीत्, सदा साधुजनानां सेवाऽपि स करोत्येव; तथाऽपि "स्वकीयममत्वेन त्यागवैराग्यवासितशुद्धहृदयस्य सुपात्रस्य गृहे बन्धनं करणं नोचितम्, एतेन चारित्रमोहनीयं कर्म बध्यते,'' एवं जानन्नपि मोहवशात् स न पुत्राय दीक्षाग्रहणस्याऽनुमतिमयच्छत् ।
एवं सत्यपि न बालको विचलितोऽभवत् । एवं कियान् कालो व्यतीतः ।
अथ वैक्रमीये सोमरिपुग्रहरसा(१९६१)वर्षे पितुः निधनमभूत्। एतद्घटनया बालकस्य चित्तं संसारस्य नश्वरत्वं चिन्तयत् संसारसुखादधिकमुद्विग्नमभूत् ।
इतः जिनशासनस्याऽनुपमसेवां कुर्वन्तः शासनसम्राजः सपरिवारं श्रीस्थंभतीर्थे पुनः समवासरन् । अभीप्सितमेव वैद्येन कथितमिव स बालकस्तु आनन्दोल्लसितो-ऽभूत् । यथोचिताऽवसरे तेन बालकेन स्वकीयोऽद्यपर्यन्तो वृत्तान्तस्तथाऽत्मनो भावना च प्रदर्शिता गुरुभगवतामग्रे । मुक्तिसुखाभिकाङ्क्षी स बालकः शासनसम्राजो व्यजिज्ञपयत् च यत्, प्रभो ! मह्यं प्रव्रज्यां देहि ! मह्यं प्रव्रज्यां देहि ! शासनसम्राजोऽपि बालकस्य प्रव्रज्यायोग्यतां ज्ञात्वा "त्वया वैशाखशुक्लस्य पञ्चमीदिने श्रीमातरतीर्थ-मागन्तव्यम्'' एवमकथयत् । बालकोऽपि "तथाऽस्तु' एवमुक्त्वा गृहं गतवान्।
अथ शुभदिने श्रीस्थंभनपार्श्वप्रभुं नन्नम्य श्रीमातरतीर्थस्य समीपस्थे देवाग्रामे शासनसम्राजां पुण्यनिश्रायामुपस्थितोऽभवत् स बालकः । ततो वैक्र मीये लोचनदर्शननन्दाब्ज(१९६२)वर्षे माधवसितपञ्चम्यां तिथौ प्रशस्तमुहूर्ते संसाराब्धितारिणी दीक्षां प्रतिपद्य शासनसम्राजामन्तेवास्यभूत्। गुरुभगवता' मुनिउदयविजय इत्यभिधानं कृतम्।
Page #40
--------------------------------------------------------------------------
________________
२५
वैराग्यदृढता दीक्षायाः प्रथमदिनादेव मुनिश्रीउदयविजया देव-गुरु-धर्माराधनायां लीना अभवन् । सम्यग्दर्शन-ज्ञान-चारित्रस्य निर्मलां साधनां साधयितुं प्रयत्नवन्तोऽ भवन् । एवं गुरुभक्तौ ज्ञान-ध्यानोपासनायां चात्मनो देहभानमपि विस्मृतम्।
___ दीक्षाया अल्पकालेनैव तैः पूज्यपादैः कीद्दशी वैराग्यदृढता साधिता, तस्या एकः प्रसङ्गः -
अस्मदीयाश्चरित्रनायकाः पूज्यपादाः श्रीदशवैकालिसूत्रस्य योगोद्वहनं कुर्वन्त आसन्। स्वकीयज्येष्ठभ्रातुः गृहे शासनसम्राड्भिः साकं पूज्यपादा गोचरचर्यायां गताः। तदा ज्येष्ठभ्रात्रा कौटुम्बिकैश्च पूज्यपादान् गृहखण्डे प्रपूर्य कथितं- भवन्तो वसतिं गच्छन्तु, अधुनाऽस्माभिरस्मदीयभ्राता प्राप्तः । एतच्छुत्वा शासनसम्राजो ग्लानि-मनुभवन्तो वसतिं जग्मुः ।
_इतः, पूज्यपादा कायरूपेणाऽत्राऽऽसन्, किन्तु मनसा तु शासनसम्राजां सांनिध्ये एव; यतः सर्वस्वं गुरुचरणे अर्पितं तैः। ततः पूज्यपादाः तत्र स्थिता अभिग्रहं कृतवन्तो यद्, "यावत् शासनसम्राजां मुखदर्शनं न भवेत् तावत् मम चतुर्विधस्याऽऽहारस्य त्यागः" ।
सर्वैः कौटुम्बिकजनैः पूज्यपादान् विचलितुं कर्तुं नैके प्रयत्नाः कृताः। परंतु पूज्यपादास्तु शिखरीव निश्चला एवाऽऽसन्। दिनपर्यन्तं तत्रैव तथैव ध्यानावस्थायां स्थिताः।
अन्ते सर्वः स्वकीयोऽपराधः क्षान्तः । संयमार्थमनुमतिं दत्त्वोपाश्रयं गन्तुं मुक्ताश्च । सर्वमपि विशिष्टं महाजनानाम् ।
पूज्यपादानामीदृशी प्रकटां वैराग्यभावनां निरीक्ष्याऽतीव प्रसन्ना अभवन् शासन - सम्राजोऽपि।
(६)
अध्ययन-अध्यापनम्। येनाऽऽत्मनः सहजस्वभावः प्राप्यते तदेव ज्ञानम्। येन विनय-विवेक-निर्मलता-औदार्यादिगुणाः प्रकटयन्ति तदेव ज्ञानम् ।
Page #41
--------------------------------------------------------------------------
________________
२६
येनाऽहङ्कार-धृष्टता-दम्भ-माया-संकुचिततादिदुर्गुणा उद्भवन्ति तद् ज्ञानत्वेन न कथयितुं शक्यम्, तत्तु केवलं ज्ञानाभास एव ।
न शास्त्राणामध्ययनं दुर्लभमस्ति। सर्वे जीवा ग्रन्थाभ्यासं कुर्वन्ति, अत्र न किमप्याश्चर्यम्, किन्त्वाश्चर्यं तु तदेव यद्, ये जीवा ग्रन्थानधीत्य तत्कथितस्य ज्ञानस्याऽऽलम्बनेनाऽऽत्मनः परिणतिं विशुद्धां कुर्वन्ति, स्वपरोभयोः कल्याणमपि च साधयन्ति । अपरं च एतादृशं ज्ञानमेव सत्यं ज्ञानम्।
तत एव 'स्वभावलाभसंस्कारकारणं ज्ञानं' एतद्वचनमनुसृत्य पूज्यपादाः ज्ञानप्राप्तौ संयमविकासे गुणवृद्धौ चैव सदोद्यमशीला' बभूवुः । किन्तु कदापि शरीरविकासे यशःप्रसारणे च नैव प्रयत्नः कृतस्तैः।
यदा शिष्या विनयादिगुणोपेताः स्युः तदा गुरुकृपा त्वरितमेव सफलीभवति । गुरुकृपैव मोक्षमूलम् । शिष्याणामात्मिकविकासे गुरुकृपैव प्रधानकारणमस्ति । तयाऽशक्यकार्यमपि शक्यं भवति।
अथ पूज्यपादैः स्वकीयेनाऽप्रतिमविनयगुणेन प्राप्ता गुरुकृपा । पूज्यपादानां सहजो ज्ञानावरणीयकर्मणः क्षयोपशमः तीव्र आसीत्, तेन सह गुरुकृपा मिलिता। अतो द्वयोः समागमात् पूज्यपादैरल्पेनैव कालेनाऽऽवश्यकः शास्त्राभ्यासः पूर्णीकृतः। गृहवासेऽपि यदा ते षोडशवर्षीया आसन् तदा पूज्यश्रमणश्रमणीसमुदायानध्यापयन्ति स्म।
दीक्षां गृहीत्वा तै : सार्धशतत्रयश्लोकप्रमाणं पाक्षिकसूत्रमेकस्मिन्नेव दिने कण्ठस्थं कृतम् । अहो ! दीक्षायाः केवलं वर्षत्रयपर्याये एव श्रीहरिभद्रसूरिकृतवृत्तिसमेतं श्रीआवश्यकसूत्रं स्वयमेव पठितं तैः।
पूज्यपादा जैनदर्शनवेत्तारस्तु आसन्नेव, किन्तु पञ्चाङ्गव्याकरण-वेदान्त-न्यायसाहित्य-काव्य-अलङ्कार-छन्दशास्त्र-वैद्यक ग्रन्थ-षड्दर्शन-ज्योतिष-शास्त्रशिल्पशास्त्रेषु सर्वाऽऽगम-सर्वशास्त्रेष्वपि च तेषां नैपुण्यं निराबाधं प्रवर्तते स्म । नास्त्येतादृशं किमपि शास्त्रं यत्तैः नावगाहितम् । अपि तु सकलशास्त्रस्य गूढं रहस्यमपि तेषां करामलकवत् हस्तगतमासीत्।
अस्मिन् शतके पूज्यपादैराद्यमेव बृहवृत्ति-लघुन्यासयुतं हैमव्याकरणं विशुद्धस्वरूपेण
Page #42
--------------------------------------------------------------------------
________________
२७
संपादितम्। तैरेव महापुरुषैः श्रीहरिभद्रसूरीश्वराणां महोपाध्याय-श्रीयशोविजयवाचकानां च नैके ग्रन्था अपि संपादिताः । तथा जैनदर्शनस्याऽगम्यपदार्थ -सार्थसभर लोकप्रकाशादीनामाकरग्रन्थानां सरलो गुर्जरभाषायामनुवादोऽपि कृतः । तथैव स्वयमपि नैके ग्रन्था रचिताः । एवं ज्ञानक्षेत्रे पूज्यपादानामुपकारोऽविस्मरणीयोऽस्ति।
एवंभूते सत्यपि एतादृशामपि पूज्यपादानां निरभिमानतात्वनन्यैव । तैः स्वजीवने कदापि आत्मनः प्रख्यातिः न कृता, न कारिता च । तैः संपादितेषु ग्रन्थेषु कदाचिदेव स्वाभिधानस्योल्लेखो दृग्गोचरीभवति। ते आहः "एतत्सर्वं ज्ञानावरणीयकर्मणःक्षयोपशमार्थमेव कृतं, न मम प्रसिद्धये ।" अहो ! पूज्यपादानां निरभिमानता । तेषामेतत्कथनमस्मादृशेभ्यः साधुभ्यो वर्तमानकालीनपण्डितेभ्यश्च मूकप्रेरणां ददाति, यदि विवेकिनो जागृताश्च वयं भवेम ।
साम्प्रतं तु स्वनामरहितमेकमपि कार्यं न भवति। प्रसिद्धयर्थं सर्वे उन्मत्तीभूताः । एतत्तु आश्चर्यं यद्, कार्यं सामान्यं किन्तुं बृहती नामापेक्षा ! एतदेव सामान्य-विशिष्टपुरुषयोरन्तरम् ।
किञ्च-पूज्यपादानामध्यापनरुचिरप्यवर्णनीयाऽऽसीत्। जिनशासनस्याऽनेक-कार्येषु व्यस्तेषु सत्स्वपि प्रतिदिनं शिष्येभ्यः स्वयमेव वाचना ददुस्ते। कदाचित् कार्यव्यस्तत्वेन वाचनां न प्रदधुः तर्हि द्वितीयदिनेऽधिका वाचना तैः प्रदीयते स्म । शरीस्वास्थ्याभावेऽप्यवश्यमध्यापयन्ति स्म ते पूज्यपादाः ।
एकः प्रसङ्गः स्मर्यते -
एकदा पूज्यपादानां देहोऽस्वस्थ आसीत् । ततो वाचनार्थमागताः सर्वे शिष्याः तादृशं स्वास्थ्यं दृष्ट्वा प्रतिनिवृत्ताः, किन्तु प्रतिनिवर्तमानान् तान् निरीक्ष्य झटिति पूज्यपादाः सन्निपि तान् शिष्यानाह्वयन् । तत्काले शासनसम्राभिः पृष्टं-उदय ! किमस्ति ?
पूज्यपादैः कथितं प्रभो ! न किमपि । पश्चात् वाचनाऽपि दत्ता नित्यमिव । एवं पूज्यपादानामीदृशी अध्यापनरुचिरप्यलभ्याऽधुना।
(७)
स्वाध्यायरमणता स्वस्याऽध्ययन मिति स्वाध्यायः। स्वं-आत्मानं अधि-प्रति अयनं-गमनमिति स्वाध्यायः ।
Page #43
--------------------------------------------------------------------------
________________
२८
आत्मनः शुद्धस्वभावो लभ्यते येन, स स्वाध्यायः ।
सदा स्वाध्याये एवाऽस्मदीयाः पूज्यपादा लीना आसन् । स्वाध्यायरमणता तेषां परमा सहचरी आसीत्। न कदापि स्वाध्यायं विना वृथा समयं गमयन्ति स्म ते। तैःप्रमादः समयव्ययो वा कदापि न कृतः । सदाऽप्रमत्तदशायां जागृत्यां चैव वसन्त आसन्।
अन्तिमवर्षेषु पूज्यपादानां 'वल्लि'नामकरोगात् दृष्टितेजः सर्वथा मन्दीभूतमासीत्। तथापि रात्रिंदिवं निरन्तरं शास्त्रस्याऽध्ययने जपयोगे चैव निमग्नाः तिष्ठन्ति स्म ते।
एकदा ज्ञानाभ्यासं कुर्वन्तो मुनीन् दृष्ट्वा तैरेको मुनिः कथितो यद्, “त्वं तु धनवान् भवसि, अहं तु दरिद्रो भवामि।"
एतच्छ्रुत्वा तत्र स्थिताः सर्वे स्तब्धा अभवन्। तैः कथितं,प्रभो ! किमर्थं भवन्तः एतादृशं वदन्ति ।
पूज्यपादा आहुः ''भो मुनयः ! मम नयने निस्तेजस्यभवताम्, युष्माकमिव कथमहं शास्त्रवाचनं कर्तुं समर्थो भविष्यामि । यूयं भविष्यथ, ज्ञानवृद्धिमपि च करिष्यथ, तथा कृत्वा च श्रद्धामपि दृढीकरिष्यथ । ततो यूयं सर्वेऽपि धनवन्त एव भविष्यथ। अहं तु न तत् किमप्यधुना कर्तुं समर्थोऽस्मि।"
तदा तैः मुनिभिः तेषां पूज्यपादानां स्वाध्यायलीनतायाः प्रशंसा कृता।
पूज्यपादैः प्रोक्तं - "यूष्माकं कथनं सत्यं भवेत्, किन्तु अस्माकं सर्वेषां क्षयोपशमस्य विचित्रता किं युष्माभिः न ज्ञाता?? पूर्वधरभगवन्तोऽपि मन्दक्षयोपशमिनः प्रमादिनो वा भवेयुः तर्हि तेऽपि सर्वं विस्मरेयुः तर्हि अस्मादृशां दुर्बलजीवानां का स्थितिः भवेत् ? एकस्य सूत्रस्य नैकेऽर्थाः एवं प्रभुणा गदितं, किन्तु ज्ञानिन एव तान् कर्तुं समर्थाः । अस्मादृशां त्वागम एव संसारोदधितरणस्य मार्गः। ततो नयनाभावे कथमहं शक्तो भविष्याम्यागमाध्ययनं कर्तुम् !।"
एतत्प्रसङ्गेन ज्ञायते, यत् स्वाध्यायरमणता का।
Page #44
--------------------------------------------------------------------------
________________
(c)
समर्पणम् ।
सम्यग् रीत्याऽर्पणमिति समर्पणम् ।
स्वकीयस्य सर्वमपि गुरुचरणेऽर्पणमिति समर्पणम् ।
आत्मनः स्पृहां-इच्छां विस्मृत्य गुरुस्पृहाया अनुसरणमेव समर्पणम् । गुरोरस्तित्वेन सत्रा बाहयास्तित्वान्वितस्याऽऽत्मनस्तीव्र बुद्धि-रूप- महत्ताशक्तीत्यादिकस्यान्तरिकास्तित्वस्याऽपि मिलनमेव समर्पणम् ।
'अहं' इति पदस्य भाने नष्टे सत्येव यथार्थं समर्पणं प्राप्यते ।
'अहं' नास्ति एव परंतु गुरुः एव' एतादृशो बोधोऽपि समर्पणम् ।
एतादृग् समर्पणमेव गुरुकृपायाः प्राप्तौ अमोघं कारणमस्ति । अपरं च यदि गुरुकृपायाः प्राप्तिः भवेत् तहर्यन्यत् सर्वमपि प्राप्तमेव ज्ञेयम् ।
२९
वस्तुतः पूज्यपादाः पूर्णसमर्पिता आसन् स्वगुरुभगवति । अस्मिन् काले श्रीविजयोदयसूरीश्वर - श्रीनन्दनसूरीश्वराणां गुरु समर्पणं जगद्वन्द्यं विश्वप्रसिद्धं च कथ्यते ।
गुरुमुखभावान् ज्ञात्वा तथैव वर्तनम्, इङिगताकारेणैव गुरोः भावं संलक्ष्या-ऽनुसरणम्, इत्यादिक्रियाया दर्शनात् मनस्येवं भवति यद्, किं पूज्यपादैः श्रीउत्तराध्ययनस्य 'विनय' नामप्रथमाध्यययनमात्मसात् कृतं भवेत् ।
अपि च पूज्यपादानां परमां गुरुभक्तिं वीक्ष्य मनोवाञ्छितदायकस्य श्रीगौतमगुरोः स्मरणं भवति । साम्प्रतं तु श्रीगौतमगुरोः दर्शनं दुर्लभ, तथापि पूज्यपादानां दर्शनं कृत्वा “गौतमगुरोः दर्शनं कृतं " एवं सर्वे जना मन्यन्ते स्म ।
सदा गुरुदेवश्रीशासनसम्राजां चरणे एव अतिष्ठन् ते । दीक्षादिनादारभ्य पूज्यपादा गुरुभगवत्श्रीशासनसम्राड्भ्यो दिनमेकमपि न वियुक्ता अभवन् । आश्चर्यं त्वेतद् यद्, गुरुभगवद्भिरपि न कदाप्यन्यत्र गन्तुं कथितम् । एवं वस्तुतस्तु शासनसम्राजां छायारूपा एव बभूवुः ते पूज्यपादाः । तत एव शासनसम्राजां प्रचण्डः प्रतापस्तेजश्च पूज्यपादानां जीवने
Page #45
--------------------------------------------------------------------------
________________
३०
शान्तित्वेन समत्वरूपेण च परावृत्य सर्वेषां शातदायकेऽभवताम्।
बहवः प्रसङ्गाः तेषां पूज्यपादानां जीवने घटिताः यच्छ्रवणेन वयं सर्वेऽपि नतमस्तकाः स्याम । परंतु समर्पणस्य सर्वोपरित्वं दर्शयन्तं एकं प्रसङ्गं लिखामि।
गुरुभगवतां शासनसम्राजां क्षपायां किमप्यस्वास्थ्यं न भवेदिति विचार्य पूज्यपादाः तत्संस्तारकस्य निकटे एव स्नपन्ति स्म ते।।
एकदा शासनसम्राजो मध्यनिशि'उदय' एवमूचुः । "किं गुरुदेव !'' एवं वदन्तः नतमस्तकाः पूज्यपादास्तत्राऽगताः। तावति काले एव शासनसम्राभिः निद्रा प्राप्ता।
पूज्यपादाः तादृश्यां स्थितौ तत्रैवाऽस्थुः । तदा शीतकालः प्रावर्तत । पूज्यपादानां शरीरमपि उष्णमासीत् । एवं देहे प्रतिकूलेऽपि पूज्यपादाः तत्रैव पञ्चवादनपर्यन्तं स्थिताः ।
शासनसम्राजो जाग्रति । तत्रस्थितान् तान् पूज्यपादान् दृष्ट्वा तैः कथितं-उदय ! किमर्थमत्र उपस्थितोऽसि ?
पूज्यपादा आहुः - प्रभो ! भवदाज्ञायाः पालनार्थं स्थितोऽस्मि । शासनसम्राजः ऊचुः - कियत्कालादत्र स्थितोऽसि ! ? पूज्यपादैः प्रोक्तं - द्वादशवादनात्। शासनसम्राड्भिः गदितं - किं एवमेव !। पूज्यपादैः कथितं - आम्, गुरुदेव ! ?
शासनसम्राजो जगदुः - शरीरमुष्णमस्ति, प्रचण्डं शीतं वर्तते, तर्हि कथं देहरक्षणार्थं कम्बलं ग्रहीतुं न गतः !?
पूज्यपादैः व्याकृतं - प्रभो ! अयमात्मा, अयं देहः, एवं सर्वमपि भवदीयमेवाऽस्ति, ततो भवदाधिकारे एव मया स्थातव्यमित्यहमत्र स्थितोऽस्मि।
एतादृशी विशिष्टां सविनयभक्तिं निरीक्ष्य शासनसम्राजां मनोऽतीव प्रोल्लसित-मभूत्।
Page #46
--------------------------------------------------------------------------
________________
३१
RAHARIAN
एवं अस्माकं पूज्यपादाः ज्ञान-चारित्र-दर्शनविशुद्धाराधनया देदीप्यमानाः समर्था महापुरुषा आसन । तथापि स्वकीयं समस्तमस्तित्वं विस्मृत्य गुरुभगवतां चरणारविन्दे एवाऽल्पज्ञ-भक्तिमूढबालकवत् जीवितुं प्रयत्नवतां पूज्यपादानां समर्पण-मेतदस्मादृशेभ्यो गुरुवचने विमर्शकारिभ्यो बोधं ददाति ।
अस्मिन् शतवर्षे नैतादृशः समर्पिता आत्मानोऽस्मिन् शासनेऽभवन् । एवमागामिनि काले एतादृक्समर्पित आत्मा भविष्यति न वेति आशङ्का वर्तते । अधुना तु तादृशः समर्पणस्य गन्धलेशोऽपि न दृश्यते।
(९)
वात्सल्यम् ''अन्यं जनं दृष्ट्वा हृदये निर्व्याजानन्दस्य प्रकटनम्" इति वात्सल्यम् ।
यत्र वात्सल्यं तत्र भेदभावो न संभवति । 'मम-तव' इति भेदो वर्तते तत्र वात्सल्यस्य कल्पनाऽप्यशक्या।
अस्माकं पूज्यपादा एतादृशस्य निर्व्याजवात्सल्यस्य निधिरासीत् । यथा-ऊषरभूमौ ग्रीष्मकालस्य प्रचण्डातपेन तप्तः पथिक जनो जलं निरीक्ष्याऽऽहलादमनुभवति तथैवाऽसारसंसारे भ्रमन्तः सन्तोऽकल्प्ययातनामनुभवन्तश्च जना अपि पूज्यपादानां सदेशमागत्य तेषां वात्सल्यामृतपानं पीत्वा स्वहृदयेऽवर्णनीयां प्रसन्नतामनुबभूवुः । अद्यपर्यन्तमनुभूतं सर्वमपि दुःखशोकसमुदीयं विस्मृत्य नवीनं चैतन्यं प्राप्नुवन्ति स्म ते जनाः । पश्चात् तत्वात्सल्यप्रभावेण जीवनं जीवितुमपूर्वसामर्थ्यमलभन्त।
पूज्यपादाः साधुजनानां जननीनिभा आसन् । पूज्यपादश्रीशीलचन्द्रसूरीश्वरभगवन्मुखादनेकशः श्रुतं यद्, “यदाऽहं बालसाधुरासम् तदा केनाऽपि कारणेन गुरुदेवा अकुप्यन् तदाऽहं पूज्यपादानां निकटं गच्छामि स्म । ते पूज्यपादाः स्वकीयाङ्के मामुपावेशयन्, प्रेम्णा पृष्ठे स्वकीयं हस्तं प्रासारयन्। एवं तदके एव कियत्काल-मुपाविशम् ततो हृदयेऽनुपमा प्रसन्नतां चाऽन्वभवम्।
तथैव कदाचित् न केषामपि साधूनां स्वास्थ्यं सुखाऽनुकूलं भवेत् तर्हि
Page #47
--------------------------------------------------------------------------
________________
३२
स्वयमेवाऽऽत्मीयस्वास्थ्यस्य चिन्तामकृत्वा ग्लान साधूनामुपकण्ठमागत्य योग्यमौषधोपचारमज्ञापयन्, तथाऽऽनन्ददायकमागमवचनमपि चाऽश्रावयत्।
एवं पूज्यपादानां वात्सल्यमप्यतुलनीयमासीत् ।
(१०)
साधनामयं जीवनम् येनाऽत्मनो हितं साध्यते सा साधना। आत्मनो गुणानां वृद्धिः, दुर्गुणानां हानिः नाम साधना। सा साधनैव तेषां पूज्यपादानां प्राणभूताऽऽसीत्।
पूज्यपादानां समस्तं जीवनं साधनामयं शास्त्रपूतं तथा निर्दम्भं त्याग-तितिक्षाज्ञानोपासनाभृतं चासीत्।
तृप्तिरेव मोक्षाभिलाषिणां मुनीनां लक्षणमस्ति । अतृप्तिस्तु संसारिजीवानां भवाभिनन्दिनां जीवानां च लक्षणमस्ति । मुनयस्तु सदा परितृप्ता एव भवन्ति । तत एव परितृप्तात्मनां जीवनं सङ्घर्षविहीनं निरपवादं च शुद्धजीवनं चापि भवति।
अस्माकं पूज्यपादाः परितृप्ता आसन्। तेषां चित्ते काऽपि तृष्णा-अभिलाषैव नासीत् । तत एव तेषां जीवनं क्लेशरहितं निर्मलजीवनमासीत् । पूज्यपादैः स्वजीवने न केनाऽपि सह सङ्घर्षः कृतः, सङ्घषु क्लेशो वोत्पादितः।
पूज्यपादास्तु निर्लेपाः परितृप्ता आसन् , ततः जिनशासनस्य शोभैव मम शोभा एवं ते मन्यन्ते स्म।
अथ पूज्यपादा विशेषण चारित्रशुद्धराराधका आसन्, अन्येषां प्रति कमलवत् मृदवः, परंतु स्वंप्रति तु वज्रनिभाः कठोरा आसन्। तत एव तैः स्वजीवने कदाप्यपवादमार्गोन स्वीकृतः। तपोविषये चारित्रविषये यावच्छरीरविषयेऽपि चापवादो न सेवितस्तैः।
अन्तिमवर्षेषु शरीरेऽनेके रोगाः प्राप्ताः । नयनयोः तेजो मन्दीभूतमासीत्, तथापि न कदापि शिबिकायाः उपयोगः कृतस्तैः यावच्छरीरसामर्थ्यं तावत् विहार एव कर्तव्य इति दृढं ते
Page #48
--------------------------------------------------------------------------
________________
३३
कथयन्ति स्म । केवलं वर्षद्वयं शिबिकायाः उपयोगः कृतः तत्रापि सहवर्तिसाधूनामनुनय आग्रहश्चैव निदानं स्वयं तु तद्विषये स्वात्मानं प्रायश्चित्ताधिकारिणं निन्दनीयं चैव मन्यन्ते स्म ते । तेषां चित्ते तस्याऽप्यतीव खेद आसीत्।
अधुनेदृशानां चारित्रनिष्ठात्मनां पुण्यवतां जीवानां दर्शनमपि दुर्लभं अस्ति । तेषां पुण्यदर्शनमपि चारित्रमोहनीयकर्मक्षयस्य निमित्तं भवति।
किञ्च, वर्तमानकाले वीरप्रभोः शासनस्य परम्परामनुसरन्तो महापुरुषाः बहवो भवेयुः तथापि बाहयाडम्बरात् भौतिकसुखात् निर्लेपीभूयात्मनो हितस्य करणं न सरलम् । पूज्यपादसदृशा निरभिमानिनः संयमनिष्ठाश्च धीरपुरुषा एव एवंरीत्या जीवितुं समर्थाः नान्ये ।
अपि च पूज्यपादानां सर्वतोमुखप्रतिभासंपन्नानां जिनशासनं प्रति अनन्यं समर्पणं जिनमतधुरावहनस्य च योग्यतां ज्ञात्वा शासनसम्राभिः तेभ्यो वैक्रमीये निधि-मुनि- ग्रहकलानिधि(१९७१) वर्षे श्रीखंभातनगरे विधिपूर्वकमाचार्यपदं प्रदत्तम् । अपरं च आचार्यपदेन सह श्रावक समुदायोपस्थित्यां 'सिद्धांतवाचस्पति - न्यायविशारद'' एवं बिरुदद्वयमपि प्रदत्तम् । आचार्यपदप्राप्तेः पूज्यापादानामान्तरिकजीवने किमपि परिवर्तनं नाऽभूत् , यतः सरलता निर्दभता-पावित्र्येत्यादिगुणा यथावदेव स्थिताः ।
एतेन ज्ञायते यद्, पूज्यपादानां जीवनं साधनामयं शास्त्रपूतं चासीत्।
(११)
तपोदाय॑म् 'तप्यते आत्मा येन' इति तपः। तपसा निकाचितानि कर्माण्यपि नश्यन्ति ।
न केवलं पूज्यपादा ज्ञानिनः अपि तु तपस्विनोऽप्यासन् । तैः स्वजीवने ज्ञानेन सह तपोवृत्तिरपि दृढीकृताऽऽसीत्।
साम्प्रतं बाह्यतपसो माहात्म्यं बाढं प्रसृतमस्ति । ततो यो बाह्यतपो विशेषं करोति स तपस्वी कथ्यते । परंतु आगमानुसारेण स एव तपस्वी उच्यते- यः कायदमनेन सहाऽन्तश्चित्ते वर्तमानानां दुष्टवृत्तीनां दमनमपि करोति । अन्यथा तपसा सह मनसि स्थिताः अहङ्कार
Page #49
--------------------------------------------------------------------------
________________
३४
क्रोध-माया-दम्भादिदुर्गुणा अपि वधैरन् । एवं च तस्य तीव्रमपि तपः कायदमनमेव भवेत्। तत एव शास्त्रेष्वपि तपो द्वैधं वर्णितम् - बाह्यतपः आभ्यन्तरं तपश्च ।
अस्माकं पूज्यपादैः बाह्यतपसा सहाऽऽभ्यन्तरतपोऽपि सेवितम् । तैः जीवनपर्यन्तं पर्वतिथौ अवश्यमेवोपवासः क्रियते स्म । जीवने अन्यदपि तपः कृतम् । अन्तिमे वयसि देहस्य दुर्बलत्वेन तपः कर्तुं तेऽसमर्था जाताः तत्कारणात् तेषां मन उद्धिग्नमभूत् ।
एकदा एकेन बालसाधुना 'उपवास प्रत्याख्यानं गृहीतम् । तं दृष्ट्वा पूज्यपादैः हस्ताञ्जलिः कृता । तदा तेन साधुना प्रोक्तं-प्रभो ! कथमेवं कृतम् । पूज्यपादा आहुःतवाऽनुमोदनं करोमि; यतः त्वं पुण्यवान् आत्माऽसि, पर्वदिनेषु विशेषं प्रत्याख्यानं करोषि, अहं तु किमपि न करोमि।"
अहो ! कीदृशी लघुता। तथैव तपोभावनाया दाढ्यं समर्थन्नेकः प्रसङ्गः
एकदा कर्णावतीनगरे विराजमानान् पूज्यपादान् वन्दितुं श्रीविजयधर्मसूरीश्वराः आगताः। पूज्यपादानां चरणस्पर्श कृत्वा सहसैवाऽवदन्ते - "सूरिराज'' ! भवदीयो देहोऽतीवोष्णोऽस्ति, ततः किमप्युपचारं कुर्वन्तु, यदा यावच्छरीरे प्रातिकूल्यं वर्तते तावत् विश्राम्यन्तु भवन्तः, पश्चाद् यत्किमपि कर्तव्यं भवद्भिः।
पूज्यपादैः व्याकृतं ''महाराज ! अद्य विंशतिस्थानकपदस्याऽऽराधनायां पञ्चदशमगौतमपदस्याऽऽराधनायां षष्ठभक्तप्रत्याख्यानमस्ति। तथा च ज्वरं दूरीकर्तुं तप एव परममौषधमस्ति, विश्रामस्तु निश्यस्त्येव ।''
एतच्छ्रुत्वा श्रीविजयधर्मसूरीश्वराणां मुखात् वाक्यं प्रसृतम्, "ज्ञानयोगेन सह तपोयोगे रममाणानां महात्मनां दर्शनमपि कर्मक्षयस्य निदानमस्ति।
(१२)
विधिशुद्धिः सुप्रसिद्धोऽस्त्यस्मिन् जिनशासने श्रीशासनसम्राजां समुदायो विशुद्धं विधिविधानादि कर्तुं कारयितुं च । यत्राऽपि शासनसम्राजो विशुद्धं विधानमकारयन् तत्र रमणीयं मङ्गलमयं च
Page #50
--------------------------------------------------------------------------
________________
३५
वातावरणमुदभवत्।
विधिविधानेषु बाल्यकालादेव पूज्यपादानां विशेषा रुचिरासीत् । तेषां क्रियारुचिरप्यनुपमैवाऽऽसीत् । अस्माकं पूज्यपादाः बाल्यकाले प्रधानैः विधिकारकैः सह पूजनादिविधिं कारयितुं गतवन्त आसन् । तत्र स्वयमेव विधिकारकाणामनुमत्या सर्वमपि विधिमकारयन् । तदेदृशं विशुद्धं विधि निरीक्ष्य तत्रस्थिताः सर्वे जना अतीवाऽऽनन्दमनुभवन्तोऽन्वमोदयन् ।
अन्यच्च-गुरुभगवच्छ्रीशासनसम्राजां मार्गदर्शनानुसारेण पूज्यपादैः दीक्षाउपस्थापना-योग-अनुयोगादिविधीनां शान्तिस्नात्र-प्रतिष्ठा-अञ्जनशलाका-अर्हन्महापूजननन्द्यावर्तपूजन-सिद्धचक्रपूजनादिपूजनानां च विधानानि शुद्धस्वरूपेण व्यवस्थितत्वेन च सङ्कलितानि । अत एव सुज्ञा गुणानुरागिणश्च विधिकारकाः प्रसङ्गेषु श्रीशासनसम्राजां श्रीविजयोदयसूरीश्वराणां चोपकारं स्मरन्ति एव, तथा भविष्यति कालेऽपि जैना एनमुपकारमवश्यमेव स्मरिष्यन्ति।
वैक्रमीये वसुन्धरालोचनखहस्त (२०२१) वर्षे पूज्यपादा राजनगरे विरेजुः । तदाऽऽचार्यविजयश्रीप्रेमसूरीश्वरभगवतां निश्रायां नूतनसाधोरुपस्थापनायाः प्रसङ्ग आसीत्।
तेषां विज्ञप्तिमुररीकृत्य पक्षघातपीडया प्रतिकूले देहे सत्यपि अस्माकं पूज्यपादास्तत्र गतवन्तः। तस्मिन् काले पूज्यपादैः विशुद्ध-स्पष्टोच्चारपूर्वकेण सार्थं पञ्चानां महाव्रतानां पाठो भणितः। एतच्छ्रुत्वा'ईदृशी सुचारु पद्धतिः विधिशुद्धिश्च कदाप्यस्माभिः न दृष्टा न श्रुता चाऽपि, अद्याऽतीवाऽऽनन्दमनुभवामः" एवं तत्रस्थिताः सर्वेऽपि साधवोऽवदन्।
अधुनाऽपि शासनसम्राजां समुदाये ईदशी विधिशुद्धिः प्रवर्तते ।
(१३)
मुहूर्तनिपुणता आसन् ज्योतिःशिल्पशास्त्रेषु पूज्यपादा अकुण्ठितकृपाणधारावत् तीक्ष्णमति-धारकाः । प्रतिष्ठा-अञ्जनशलाका-दीक्षादीनां महोत्सवानां मङ्गलमुहूर्तार्थं देशा-न्तरेभ्योऽपि भावुकजनास्तेषा समीपमागच्छन्ति स्म ।
Page #51
--------------------------------------------------------------------------
________________
३६
"पूज्यपादैः प्रदतं मुहूर्त्तं सदा कल्याणकरं वृद्धिकरं चैव भवेत्, कदापि न निष्फलं भवेत्'' एवं सर्वेऽपि दृढं मन्यन्ते स्म । तत एवाऽन्यगच्छसमुदायानां साधवोऽपि दीक्षादीनां मुहूर्त्ताय पूज्यपादानां समीपं श्रावकान् प्रेषयन्ति स्म । पूज्यपादैः प्रदत्तेन मुहूर्त्तेनैव सर्वा अपि क्रियास्तेऽकुर्वन् । पूज्यपादैः यत्र यत्र प्रतिष्ठादयः कृताः, तत्राऽद्याप्यानन्द एव वर्तते । सर्वे कथयन्ति यद्’'मृगराजं निरीक्ष्य कुरङ्गा इव पूज्यपादानां मंगलमुहूर्त्तप्रभावेण सङ्घे प्रवर्तमानाः क्लेश-कलहादिविघ्ना अपि स्वयमेवाऽनश्यन् ।
एवं सत्यपि कोऽपि जनो यदा पूज्यपादानां मुहूर्त्तं प्रशंसेत् तर्हि पूज्यपादा अकथयन् "एतत्सर्वं गुरुकृपायाः फलं, अहं तु तस्य किङ्करः”।
अहो ! पूज्यपादानां निरभिमानता ।
मुहूर्त्तस्य वैशिष्ट्यं दर्शयन्नेकः प्रसङ्गः
एकदा कृता गर्ता जिनमन्दिरं कर्तुं कल्लोलग्रामस्य श्रावकैः । यत्र प्रभुप्रतिमायाः स्थापनं निश्चितं आसीत् तत्र गर्तायां जलं कियत्प्रमाणमस्तीति ज्ञातुं गृहकारेण (कोन्ट्राक्टरेण) कोशो गर्तायां मुक्तः । स तु गर्ताया मध्यभागे एव रज्जुपाशान्निर्गतः । कोशं बहिरानेतुं नैके प्रयत्नाः कृता लोकैः । अयनचुम्बकद्वाराऽपि बहिरानेतुं जना आयासवन्तोऽभवन् । किञ्चिदुपरि आगत्य पुनः पतितः, एवं बहुशः प्रयत्नाः कृताः, किन्तु सर्वे व्यर्थीभूताः ।
प्रान्ते नगरस्याऽग्रेसराः श्रावकाः पूज्यपादानां निकटमाजग्मुः । तैः सर्वो वृत्तान्त उदितः । तेषां वार्तां श्रुत्वा पूज्यपादा आहुः - साम्प्रतं "कुमुहूर्त्तं" वर्तते । ततः कियत्कालात् पश्चात् तत्र विधिपूर्वकं स्नात्रपूजां भणित्वा तत्रैव स्थाने एतेन वासचूर्णेन पूजयिष्यथ ।
एतच्छ्रुत्वा सर्वे प्रसन्नतां प्राप्ताः। स्वस्थानं गत्वा तैः श्रावकैः गुर्वाज्ञानुसारेण शुभदिने प्रतिनियते समये पूज्यपादैः कथिताः सर्वा विधिक्रियाः सादरं कृताः । एवं कृत्वा पुनः कोशमुपर्यानेतुं प्रयत्नः कृतः । अल्पेनैव कालेन उपर्यागतः कोशः।
सर्वैः कथितं - पूज्यपादानां मुहूर्त्तप्रभावोऽद्भुतोऽस्ति । एवं पूज्यपादाः ज्योतिः शिल्पशास्त्रादिष्वपि निपुणा आसन् ।
Page #52
--------------------------------------------------------------------------
________________
३७
(१४)
विश्रामणा 'पतितपरिणतिवतामात्मनां सदुपदेशदानेन संयमे स्थिरीकरण 'मिति विश्रामणां बालसाधूनां नूतनसाधूनां चाऽऽवश्यकक्रियामभ्यासादिप्रवृत्तिं च सततं संलक्ष्य तेभ्यः साधुभ्यो योग्यं मार्गदर्शनं हितकारिणीं हितशिक्षां च यच्छन्ति स्म ते पूज्यपादाः । स्वकीयसमुदायानां परकीयसमुदायानां वाऽऽराधनायां प्रमत्तसाधूनां मातृवत् वात्सल्यपूर्वकं सोत्साह प्रमादस्याऽशुभविपाकादीन् दर्शयित्वा बुध्यन्ते स्म ते । एवंरीत्या अनेके जीवाः तैः संयमे स्थिरीकृताः । अधुनाऽपि ते जीवा अवश्यमेव पूज्यपादान् स्मरन्ति।
प्रवर्तमाने काले कुत्रचिदेव विश्रामणा गुणो दृश्यते।
अधुना संयमे शिथिलसाधून प्रमादिसाधून च वीक्ष्य केचिज्जनास्तान् निन्दन्ति, किन्तु नैतत् योग्यम् । अस्मिन् विषमकाले मार्गच्युतानां मार्गभ्रष्टात्मनां निन्दाकरणे नास्ति महत्ता। किन्तु तादृशां जीवानां तद्योग्यां देशनां दत्त्वा स्वमार्गे स्थिरीकरणे एव महत्ताऽस्ति । ततस्ते एव साधुवादस्य योग्याः, यैः शिथिलसाधूनां चारित्रे स्थिरत्व-मदायि।
(१५)
समाधिः 'अहं देहाद् भिन्न:, मत्त: सर्वमपि भिन्नमिति बुद्धया वर्तनं बाह्यदशां त्यक्त्वा सङ्कल्पविकल्पविहीनबुद्धयाऽऽभ्यन्तरदशायां रमणम्' समाधिः ।
समपरिस्थितौ विषमपरिस्थितौ वा माध्यस्थ्यभावेन रमणमेव समाधिः
यदा सुखदकाले वा ईप्सितस्य प्राप्तौ सत्यामपि वा न रागः स्यान्न वाऽऽनन्दः, तथैव दुःखदपरिस्थित्यामनिष्टसंयोगे सत्यामपि वा न शोकः स्यान्न वोद्वेगस्तदैव समाधिः।
पूज्यपादैः जीवनपर्यन्तं समाधिः साधिता । कदापि तेषां वदने न दृश्यते स्म उद्वेगो ग्लानिरतृप्तिश्च । सदा प्रसन्नाः परमाः संतोषिणश्चाऽऽसन्।
Page #53
--------------------------------------------------------------------------
________________
संप्राप्ता अनेके प्रसङ्गा जीवने समाधिभावात् विचलितकारकाः। किन्तु समाधिभावात् न कदापि विचलिता अभवन् पूज्यपादाः । तत एव पूर्वे यादृशी समाधिरासीत्, तादृश्येव समाधिश्चरमकालेऽपिदृश्यते स्म। अन्तिमवर्षेषुन देहे आनुकूल्यं प्रावर्तत। 'मधुप्रमेह-पक्षघातअन्धत्वादयो रोगा जाता आसन्। तथापि व्याकुलता उद्वेगश्च न कृतस्तैः। केवलं शमे समाधिभावे चैव लीना आसन् । सदाऽऽत्मध्याने स्वाध्याये चैव मग्नास्तिष्ठन्ति स्म ते पूज्यपादाः।
एकः प्रसङ्गो दृग्गोचरीभवति।
आस्तां लोचने मन्दीभूते जीवनस्य सन्ध्या काले । तदा केनचिद् भावुकेन श्रावकेण कथितम्-प्रभो ! नयनयोः मन्दत्वात् भवतां मनसि बाधा भवति किम् ? तदा प्रसन्नवदनैः पूज्यपादैः समाधिभावस्य परमं वैशिष्ट्यं निदर्शयन् उत्तरो दत्तः-''मयेक्षणयोः यथार्थमुपयोगः कृत एवाऽस्ति । यत्किमपि दर्शनीयं पठनीयं च तत्सर्वमपि मया दृष्टमनुभूतं च ततः का बाधा ? तथा च न विषादस्य किमपि कारणमत्र । अधुना हि चक्षुषा किं प्रयोजनम् ? तेन मम को लाभः ? ।'
श्रुत्वैतद्वचनं स श्रावकस्त्वतिलज्जितोऽभवत् ।
एतेन ज्ञायते यदस्मादृशां जीवानां नयनेषु सत्स्वपि न यज्ज्ञानं निर्लेपत्वं च जायते तज्ज्ञानं निर्लेपत्वं च पूज्यपादानां जीवने दृश्यते स्म । नयनयोः तेजसि नष्टे सत्यपि एतादृशं प्रसन्नत्वं निर्लेपत्वं च कस्यचिदेव महापुरुषस्य जीवने संभवति ।
समाधिमूर्तीनां पूज्यपादानां कृपयाऽस्मादृक्षु जीवेषु समाधिलेशोऽपि प्रादुर्भवेदेषैवाऽभिलाषा।
(१६)
वचनसिद्धिः आसन् वचनसिद्धपुरुषाः पूज्यपादाः ।
प्राकृतविशारदपूज्यपादश्रीकस्तूरसूरीश्वरगुरुभगवद्भिः कथितं-श्रीउदयसूरीश्वर-गुरूणां दर्शनात् श्रीस्थूलभद्रमुनिः स्मर्यते। श्रीस्थूलभद्रमुनेरिव पूज्यपादानां चारित्रं तथा ब्रह्मचर्यमतीव
Page #54
--------------------------------------------------------------------------
________________
३९
निर्मलमासीत् । तत एव निर्मलसत्त्वप्रभावेण पूज्यपादानां मुखात् निर्गतं वाक्यं सिद्धं भवत्येव ।
वयं सर्वेऽपि जानीमो यद्, एकमपि व्यञ्जनमर्थविहीनं नास्ति। तद्वयञ्जनवृन्दात् शब्दो भवति । एवं प्रत्येक शब्देषु गूढा शक्तिः समाविष्टाऽस्ति । यदा च शब्दस्थिता शक्तिः सत्त्वस्याऽलम्बनं प्राप्नोति तदा सा शक्तिः स्वयमेव प्रादुर्भवति ।
तत एव सत्त्वशीलपुरुषाणां मुखात् प्रसृतो शब्दः सिद्धो भवत्येव । ईशानां महापुरुषाणां मुखात् यदपि वाक्यं निर्गच्छेत् तन्मन्त्रमयं भूत्वा सफलं भवत्येव ।
पूज्यपादानां जीवने घटित एकः प्रसङ्गः स्मर्यते।
आसीदेको ग्रामो जूनागढप्रदेशे "गिरतलाल' इत्यभिधानकः । तत्र केनाऽपि कारणेन कस्यापि जनस्य पुत्रस्य वाक्शक्तिः हता। पित्राऽनेके कृता उपचाराः, किन्तु न कोऽप्युपचारः सफलीभूतः।
तदा केनापि कथितं त्वं 'सावरकुंडलाग्राम' गच्छ, तत्र अस्माकं गुरुवर्या विराजमानाः सन्ति, तत्समीपं गच्छ।
स तत्र गतः । ततोऽविहरन् पूज्यपादाः । स जनोऽपि सपुत्रः पूज्यपादान् मार्गयन् 'राजपरा' इत्यभिधानं ग्रामं गतः ।
पूज्यपादा आहुः- कथमागतः ?। तेन सर्ववृत्तान्तः कथितः। पूज्यपादैः व्याकृतं - कदा ग्रामं जिगमिषुरसि ? तेन प्रोक्तं - भवतां यादृश्याज्ञा । पूज्यपादैः गदितं - भोः ! साम्प्रतं निशाकालो जातः । ततः प्रातरागगच्छेः ।
पुत्रेण सह स जनः प्रातः पूज्यपादानामन्तिकमागतः। पूज्यपादैः मन्त्रितवासचूर्णं कृत्वा कथितं ''श्रीकदम्बगिरिमारुह्य विशुद्धबुद्धया जिनेश्वरं नमस्कृत्याऽत्राऽऽगच्छ। जिनेश्वरस्य कृपया ते पुत्रः स्वस्थो भविष्यति।
'तथेति' एवं कथयित्वा सपुत्रः पिताऽद्रिमारुढः । अपूर्वश्रद्धया जिनेशं वन्दित्वा
Page #55
--------------------------------------------------------------------------
________________
४०
पूज्यपादानां निकटे आगतः तावति काले एव स बालकोऽपि वाक्शक्तिविहीनः विशुद्धस्पष्टोचारणपूर्वकेण वक्तुमारब्धवान् ।
एतेन ज्ञायते यद्, पूज्यपादानां वचने का शक्तिरासीत् । तेषां नामस्मरणमप्यशुभनाशकमासीत्।
(१७)
आत्मजागृतिः आसन् गुणाकराः पूज्यपादाः । उपरि वर्णितैः गुणैः सहाऽन्येऽपि पापभीरुताभवभीरुता-आत्मजागृतिश्चैवमनेके गुणा तेष्वासन्।
पूज्यपादानामात्मजागृतिरनन्यैवाऽऽसीत्। यत्राऽत्मजागृतिस्तत्र पापभीरुता भवभीरुता च स्तः एव।
उपयोग एवाऽऽत्मजागृतिः। यत्राऽस्ति आत्मजागृतिस्तत्र जीवनेऽन्यदुर्गुणानां प्रवेशोऽशक्योऽस्ति।
उपयोगपूर्वकेणैव साधुना किमपि कार्यं करणीयमन्यथा साधुवेषस्य सत्त्वेऽपि स साधुत्वेनाऽऽख्यातुं न शक्यते । यतो जिनशासने जागृतिं विना कृतं सर्वमपि कार्यं न सम्मतम् ।
पूज्यपादा बाढं जागृता आसन् । पूज्यपादानां चित्तं सदा प्रभुध्याने स्वाध्याये चैव लीनं तिष्ठति स्म । ते मृदुभाषिणस्तथा मितभाषिण आसन् । ‘‘एकोऽपि शब्दः प्रमादादयोग्य उद्येत तर्हि पापकर्म बध्यते' इति मन्यन्ते स्म ते। ततो न कदापि विना कारणं वदन्ति स्म ते । यदा यदा तेऽवदन् तदैकाग्रचित्तेनैवोपयोगपूर्वकमेव चाऽवदन् । कदाचित् पदस्था वाऽन्ये वा साधवः सावधं गदेयुः तर्हि तेभ्योऽपि प्रायश्चित्तमयच्छन्।
एतादृगात्मजागृत्याः प्रभावात्, अपूर्वं ज्ञानं निर्मलं चारित्रं च तेषामासीत् तथाप्यहङ्काराभाव एव तत्र प्रवर्तते स्म। 'अन्येभ्योऽहं विशिष्टः, अधिकज्ञानवान्, चारित्र-चूडामणिः, गीतार्थशिरोमणिः' एवं न लिखितं, न लेखितं चाऽपि । तथा च तदर्थं प्रयत्नोऽपि न कृतः । कदाचित् कोऽप्यागत्य पूज्यपादानां प्रशंसां यदि कुर्यात् तर्हि पूज्येभ्यो न तद् रोचते स्म । तर्हि
Page #56
--------------------------------------------------------------------------
________________
४१
गर्वस्य का वार्ता ?
किञ्च, पूज्यपादानां शरीरसंयमोऽपि वर्णनीय आसीत् । शरीरसंयम एवाऽऽत्मसंयमे कारणमस्ति।
___ व्यराजन्त भावनगरे पूज्यपादाः । एकदा 'बनाजी' इत्यभिनामक आङ्ग्लवैद्यो दृष्टिरोगनिपुणस्तत्राऽऽगतः।
तेन पूज्यपादानां नेत्ररोगं(मोतियो) दूरीकृत्वा कथितं भवन्तः क्षुतं मा कुर्वन्तु । त्रयोदशदिनेषु पूर्णेषु आङ्ग्लवैद्येन सन्धानं त्रोटितम् । तदा पूज्यपादैः पृष्टम्- किमधुना क्षुतं कुर्वाणि न वा ? आङग्लवैद्य आह- किं त्रयोदशदिनपर्यन्तं क्षुतं न कृतम् ?
पूज्यपादा आहुः - भवता निषेधः कृतस्ततो मया क्षुतं न कृतं, तत्पश्चात्तदैव पूज्यपादैः क्षुतं कृतम्।
अहो ! इन्द्रियाणामप्यपूर्वः संयमः। एवं तिरस्कृतप्रमादानां पूज्यपादानामात्मजागृतिरतीव प्रशंसनीयाऽऽसीत्।
(१८)
महायात्रा देहस्य प्रातिकूल्याद् विहर्तुमसमर्थाः पूज्यपादा भावनगरे एव चरमवर्षेषु तिष्ठन्ति स्म। प्रतिदिनं क्रमेण तेषां देहस्याऽनानुकूल्यं प्रवर्द्धते स्म ।
अथ वैक्रमीये रिपुलोचनाम्बर श्रवण (२०२६)वर्षे वैशाखकृष्णस्य एकादशीतिथिरागता।
विशुद्धभावेनाऽऽवश्यकक्रियाः पूर्णीकृत्य 'मारवाडीवण्डो' इत्यभिधाने उपाश्रये प्रसन्नवदनाः पूज्यपादा व्यराजन्त।
कियत्कालात् पूज्यपादानां स्वास्थ्यं प्रतिकूलमेवाऽऽसीत्, तथाप्यद्य विशेषतया प्रतिकूलं आसीत्।
Page #57
--------------------------------------------------------------------------
________________
४२
स्वदेहस्य परावर्तनक्षणं विज्ञाय पूज्यपादैः ज्ञातं यद्, अधुना श्रीनमस्कारमहामन्त्रोऽर्हत्सिद्धसाधुधर्मा एव मे शरणं नान्यत् किमपि। एवं विचार्य शरीरचिन्तां विमुच्य जिनेः कथितायां शुभभावनायां लीना अभवन् पूज्यपादाः ।
एवं सन्ध्याकालोऽभूत्।
स्वस्थचित्तेन जागृतिपूर्वकेण प्रतिक्रमणक्रिया कृता, संस्तारकपौरुषीविधिरपि पूर्णीकृता।
क्रमेण निशा प्राप्ता । बाढमन्धकारः प्रसृतः । अद्य जिनशासननभोमण्डलेऽज्ञानतिमिरनाशकदिनपतिरस्तं गमिष्यति, एवं ज्ञात्वेव मृगाङ्कोऽपि नाऽऽकाशाबहिरागतः । क्रमशः सर्वत्र तमो व्याप्तमभूत् ।
अथ च प्रायो दशवादने सति हृदये तीव्रा पीडा प्रादुर्भूता। पूज्यपादानां स्वास्थ्यस्य गाम्भीर्यं ज्ञात्वा सर्वे साधवस्तत्रोपस्थिता अभवन् । श्रीचतुर्विधसङ्घोऽपि तत्र सम्मीलितः।
यैराजीवनं मैत्रीप्रमोदकारुण्यमाध्यस्थ्यरूपां भावनामनुभावयद्भिः समाधिरात्मस्थीकता, ते एव जीवाः प्रान्तकाले समाधिभावनामृतं पीतुं समर्थाः सन्ति, नान्ये। अतृप्तात्मनां सेविताशान्तीनां जीवानां च समाधिप्राप्तेरिच्छा तु मृगतृष्णैव।।
___ इतः पूज्यपादानां वदनमपूर्वतेजोभिः विलासितमासीत्। तेषां मुखे नोद्वेगः, न शोकः, न व्याकुलत्वं, न चातृप्तिः, किन्तु शमः समाधिश्च विलसन्त आसन्।
पूज्यपादैः जीवनपर्यन्तं शुद्धभावेनाऽऽराधिताया धर्माराधनायाः समाधिभावनाया एवैतत् फलमासीत्।
एवं सार्थैकादशवादनसमयो जातः।
शुभभावनाभिरात्मानमनुभावयन्तो, भगवतः शरणं स्वीकुर्वन्तः, श्रीनमस्कार-महामन्त्रं स्मरन्तश्च समाधियुक्ताः पूज्यपादा विदेहिनोऽभवन् ।
सर्वस्मिन्नपि वातावरणे शोकः प्रसृतः । सर्वेषां नयनेभ्योऽम्बुप्रवाहः प्रावहत् । शिष्यवृन्दाः श्रावकाश्चाप्येतद्घटनयोद्विग्ना अभवन् । एवं सर्वमपि नगरमाक्रन्दे व्याप्तमभूत्।
तत्रस्थितानां लोकानां मुखात् वाक्यं पतितम् -
Page #58
--------------------------------------------------------------------------
________________
" धिक् धिक् अकारणवैरिणं, दुष्टं, निर्लज्जं यमराजं येनाऽजातशत्रवो निरपराधिनो जिनशासनसौधस्याऽऽधारानिभा अस्माकं पूज्यपादा उत्पाटिताः ।
४३
"हा, हा, प्रभो ! एतत् किं भूतम् ! अस्माकं किं भवष्यति ? कोऽस्मानुपदेक्ष्यति ? "दादा, दादा, एवमुक्त्वा कथमानन्दं प्राप्स्यामः!।”
एवं सर्वत्राऽश्रुपात एवाऽदर्शि ।
सर्वत्र प्रसृत एष वृत्तान्तः । खम्भात - राजनगर जामनगर-बोटाद - मधुमतीपादलिप्तप्रमुखनगरेभ्यो जनवृन्दमागच्छति स्म । सर्वे जना अहमहमिकया पूज्यपादानामन्तिमदर्शनार्थमाजग्मुः ।
अथ च वैशाखनीलस्य द्वादशीतिथौ सोमवासरे मध्याह्नस्यैकवादनसमयो जातः । तदा भक्तवर्गैः तेषां पार्थिवदेहः शिबिकायां स्थापितः । “जय जय नन्दा जय जय भद्दा" इति गगनभेदिनादपूर्व केणाऽन्तिमयात्रा प्रवृत्ता । नगरस्य मध्यभागस्थिते 'दादासाहेब' इत्यभिधानभूमिपटाङ्गणे प्रशान्तमूर्तिपन्यासप्रवरश्रीगम्भीरविजयगणीनां देवकुलिकायाः समीपे चन्दनमयचितायां शिबिका स्थापिता । तत्रैव मानववृन्दस्य समक्षमश्रुपूर्णनयनान्वितैः कौटुम्बिकैरग्निदाहः कृतः ।
एवं विनश्वरदेहः पञ्चभूतेषु मिलितः ।
अधुना तत्रैव स्थाने श्रीभावनगरसङ्घेन न्यायविशारद - सिद्धान्तवाचस्पतिपूज्यपादानां श्रीविजयोदयसूरीश्वरगुरुभगवतां देवकुलिका कारिता । तस्यां तेषां चरणपादुका मूर्त्तिश्च प्रतिष्ठिता ।
नश्वरदेहेनाऽन्यत्र गतवन्तः पूज्यपादाः किन्तु यशोदेहेन त्वधुनापि तेषामुपस्थितिरत्राऽनुभूयते । अस्मिता नश्वरी किन्तु अस्तित्वं हि शाश्वतमस्ति । अतो देहरूपेण याऽस्मिताऽऽसीत् सा नष्टा, तथाऽपि तेषां गुणरूपमस्तित्वमधुनाऽपि अस्त्येव ।
-
शासनसम्राट्-पूज्यपादश्रीनेमिसूरीश्वरगुरुभगवति दिवङ्गते सति तेषामनुपस्थितेः यदुःखं श्रावका अन्वभवन् तदधिकतरं दुःखं प्रशान्तमूर्त्तिश्रीविजयोदयसूरीश्वरे त्रिविष्टपंगते सति वयं सर्वेऽनुभवामः । यतोऽधुना तु जिनशासनस्यैकमात्र आधारोऽपि गतः । इदानीं जैनसङ्के
Page #59
--------------------------------------------------------------------------
________________
४४
या विकटसमस्या उद्भवन्ति, ता दृष्ट्वा पूज्यपादानामुपस्थितिः कीदृश्युपयोगिन्यासीत् तदनुभूयतेऽस्माभिः सर्वैरपि ।
एवं पूज्यपादानां गमनेन सहाऽस्य शतकस्य जिनशासनस्य साधुताया उज्जवल - परम्पराऽपि लुप्तप्राया ।
1
अन्ते - जिनशासनं प्रति गुरुभगवन्तं प्रति च सर्वाङ्गसमर्पितानां, निर्दम्भचारित्रपूतानां, अहंकारशून्यज्ञानवतां च महापुरुषाणां श्रीविजयोदयसूरीश्वराणां गुणरत्नाकरेभ्यो गुणगन्धोऽपि निर्गुणिनि मयि प्रादुर्भवेदिति आशासे ।
वन्दनीयः सतां साधुर्द्युपकारी विशेषतः ॥
हैमवचनामृतम् ॥
Page #60
--------------------------------------------------------------------------
________________
चिन्तनधारा
आस्वादः
- मुनिरत्नकीर्तिविजय :
मिथ्यात्वदावानलनीरवाह-मसद्ग्रहत्यागमुदाहरन्ति । अतो रतिस्तत्र बुधैर्विधेया विशुद्धभावैः श्रुतसारवद्भिः ॥ ( अध्यात्मसार १४ / १)
‘‘स्वं स्वस्यैव वधाय शस्त्रमधियां यद् दुष्प्रयुक्तं भवेत्' शस्त्रास्त्रसाधनावत् ज्ञानस्य साधनाऽप्यत्यन्तं दुष्कराऽस्ति । यद्युचितमुपयोक्तुं न प्रभवेत् तर्हि हानिरपि तत्र शक्यैव । नास्त्यत्र शस्त्रस्य ज्ञानस्य वाऽपराधः कश्चित् । यथा शस्त्रं रक्षति तथा ज्ञानमपि प्रकाशं प्रतनोत्येव । किन्तु तत्र तद्धारक एव केवलं प्रमाणम् । साम्यमेकमत्र स्पष्टं प्रत्येति यत् शस्त्रस्याऽनुचितः प्रयोगः स्वस्य परस्याऽपि च हानार्थं भवति यथा तथा दुष्प्रयुक्तं ज्ञानमपि स्वस्य हानये जायत एव किन्तु तत्सार्द्धमेवाऽन्येषां कृतेऽपि तद् हानिकर्तृ भवति ।
४५
गम्भीरतमाऽस्ति साधना ज्ञानस्य । पुनश्चात्यन्तं सावधानतयैव, करणीया सा । कञ्चिदपि रोगं सर्वथा निर्मूलयितुं वैद्या व्याधिग्रस्ताय जनाय प्रथमं प्राथमिक्यै स्वस्थतायै सामान्यमौषधं प्रयच्छन्ति । तत्पश्चादेव रसायनतुल्यान्यौषधान्यनुमन्यन्ते । यद्येवं न ते कुर्युस्तर्हि तदौषधं विपरीतं परिणमेदपि । एवमेव ज्ञानमपि जीवनतत्त्वं लक्षयति । तदात्मसात्कर्त्तुं स्वकीये च जीवने परिणमयितुमपि चैतसिकी भूमिका प्रथमं स्वस्था स्वच्छा च कर्त्तव्याऽस्ति । सा भूमिका नाम विवेकः ज्ञानप्राप्तेः प्रथमः परिणामो विवेक एव । चित्ते विवेकोद्भव एवाऽधिकज्ञानप्राप्तेः स्वकीययोग्यतां दर्शयति ।
दीपशलाकाया घर्षणात् स्फुलिङ्ग उद्भवति । तत एकः प्रदीपश्चेत्यते चेदेकस्मादन्यस्तस्मादन्य एवंरुपेण प्रभूतः प्रकाश उपलब्धुं शक्यः, यश्च मार्गं प्रकाशयेत् । एवमेव घर्षणादुद्भूतः स्फुलिङ्ग इवाऽस्ति विवेकोद्भवोऽपि । यदि स्याद् विवेकोद्भवः सकृदपि पश्चात्तु दीपाद्दीपः प्रज्वलती’ति न्यायाद् ज्ञानस्योज्जवलो निर्मलश्च प्रकाशोऽप्यन्त-वर्द्धमान एव स्याद्, यश्च सर्व प्रशस्तं मार्ग प्रकाशयेदपि ।
ज्ञानस्य सर्वोत्तमं फलमस्ति विरक्तिः वैराग्यम् । विवेकादारभ्य वैराग्यं यावददेषा
Page #61
--------------------------------------------------------------------------
________________
x
ज्ञानयात्राऽस्ति । अस्ति विवेकस्तलहट्टिका वैराग्य तुं शिखरम् । यो न तलहट्टिकां प्राप्नोति स कथं शिखरं प्राप्नुयात् ? इति तु सर्वजनप्रतीतमेव। विवेकस्त्वयं वैराग्यस्य प्रापकं द्वारम् । वैराग्यं तु बिन्दुः स यतो मोक्षमार्गस्यारम्भो भवति । विवेकः प्रदीपतुल्योऽप्यस्ति, यो वैराग्यमार्ग सुकरं प्रकाशयति।
यत्र विवेको नास्ति स मतिव्यामोहाद् विक्षिप्तचित्तः सन् ज्ञानमार्गाद् भ्रश्यति । असद्ग्रहगृहमपि स प्रविशत्येव, यत्र दुराग्रहान्धकार एव प्रवर्तते । यत्र चाऽस्ति दुराग्रहो न तत्र सम्भवति समाधिलेशोऽपि। पुनर्यच्च ज्ञानं न समाधिं वितनुते न तज्ज्ञानं किन्तु ज्ञानाभास एव । 'जहा खरो चंदणभारवाही तिवत् तस्य गतिरस्ति। सर्वं तस्य वैपरीत्येन परिणमति -
दम्भाय चातुर्यमघाय शास्त्रं प्रतारणाय प्रतिभापटुत्वम्। गर्वाय धीरत्वमहोगुणाना-मसद्ग्रहस्थे विपरीतसृष्टिः॥
__ (अध्यात्मसार १४/१८) आग्रहमुक्तिरेव जीवनस्य महत्त्वपूर्णोऽध्यायोऽस्ति। विनाऽऽग्रहमुक्तिं सर्वा अपि साधनाः फलशून्या एव जायन्ते। यतः कदाग्रहस्तु मिथ्यात्वमुन्मार्गश्चाऽस्ति। उन्मार्गे च कृतः पुरुषार्थो नेप्सितस्य स्थलस्य प्रापणे समर्थो भवति। पुरुषार्थस्येयत्ता तु न केवलं तत्र प्रमाणभूता किन्तु सन्मार्गोऽपि तत्राऽपेक्षितोऽस्त्येव।
आग्रहस्तु सर्वदाऽसन्नेव भवति। अपरं च यस्मिन् विषये वस्तुनि वाऽऽग्रहो जायेत तत्तु यया कयाचिदप्यपेक्षया यदि सत्यमपि स्यात्तद्यपि तत्तु असदेव स्यात्, यतो दुराग्रहग्रस्तानां सर्वत्र स्वेष्टविषये एकान्तमतिरेव भवति ।
स्वस्वीकृतमतस्य श्रद्धायां स्वस्वीकृतमतस्य चाऽऽग्रहे, उभयत्राऽपि महदन्तरं वर्त्तते । मतस्याऽऽग्रहोऽवरुध्यति सत्यावबोधम् । केवलं श्रद्धायामस्ति सद्बोधोपलब्धेः शक्यता कदाचित् सत्समागमयोगेन। किन्तु आग्रही जनो न कदाप्यन्यान्स्वीकरोति , येन सत्समागमः शक्येत तस्य। .
सर्वज्ञेन सताऽपि न कदापि भगवन्महावीरेण कृतः स्वकृतस्य सत्यदर्शनस्य- ऽऽग्रहः । स तु केवलमुपदेष्टा द्रष्टा चैव स्थित आसीत् । उक्तं च -
Page #62
--------------------------------------------------------------------------
________________
४७
अरिहंता भगवंतो अहियं व हियं व न हि इहं किंचि । वारंति कारवेतिं य घेत्तूण जण बला हत्थे।
(उपदेशमाला ४४८) निराग्रहवृत्तिरेव ज्ञानिनां वास्तविकं लक्षणमपि । निराग्रही एव तत्त्वं बोधयितुं शक्तः । 'निराग्रहादेव वक्तुः सकाशात् तत्त्वाधिगमो भवतीति वचनात्।
___ गोशालकस्तु, येन पूर्वं भगवन्महावीरस्य शिष्यत्वं प्रतिपन्नमासीत्, स एव ततः पृथग्भूय किञ्चिद्धीत इव नैमित्तिको भूत्वा निजं च स्वतन्त्रंमतं संस्थाप्य स्वमेव महावीरत्वेन ख्यापयन् वर्त्तते स्म । तथापि भगवन्महावीरेण न कदाप्येतादृश्यास्तस्य प्रवृत्त्या विरोधो विहितो, नाऽपि च तां प्रतिकर्तुं कश्चित् प्रयत्नोऽपि कृतः । परं गोशालकस्तु सततं भगवन्महावीरं मिथ्या व्यवस्थापयितुमुद्यत आसीत्, यतस्तत्राऽऽसीदसद्ग्रहो, न तु सत्यम्।
निःसारस्य पदार्थस्य प्रायेणाऽऽडम्बरो महान्।
नहि तादृग् ध्वनिः स्वर्णे यादृक्कांस्ये प्रजायते॥ अत्र भगवन्महावीरस्य पक्षे तु केवलं सुवर्णवद् विशुद्धं सत्यमेवाऽऽसीन्न किन्त्वाग्रहलेशोऽपि । सत्यं तु केवलं स्वीयं स्वरूपं प्रकाशयति परमसत्यं त्वन्यत्तिरस्करोति, यतो नास्ति तस्य स्वीयं निश्चितं किञ्चित् स्वरूपमपि।
यत्राऽस्त्याऽऽग्रहस्तत्र परान् मिथ्या ख्यापयितुं स्वस्माच हीनान प्रदर्शयितुं वृत्तिरुतिष्ठते । सा एव च वृत्तिस्तस्य समग्रां साधनां निष्फलामिव निर्मिमीते।
व्रतानि चीर्णानि तपोऽपि तप्तं कृता प्रयत्नेन च पिण्डशुद्धिः। अभूत् फलं यत्तु न निहवाना-मसद्गृहस्यैव हि सोऽपराधः॥
(अध्यात्मसार १४/८) आग्रहान्न कश्चिद् लाभविशेषो भवत्यात्मानं, केवलं हानिरेव भवति, परांश्च न किञ्चिद् हानमपि भवति। किन्त्वहङ्काराविष्टा आग्रहिणोजना न कञ्चिद् लाभालाभं पश्यन्ति। कदाग्रहोऽपि सर्वदा तर्कशून्यः कुतर्कबहुलश्च भवति ।
स्वमंताग्रहवशात परेभ्यो यथा तथोपदिश्य विशालोऽनुयायिवर्गोऽपि निर्मातुं शक्य एव । भगवन्महावीराद् गोशालकस्याऽनुयायिनां वर्गो विशाल आसीत्। असत्यस्य समर्थकाः सर्वकाले
Page #63
--------------------------------------------------------------------------
________________
४८
संख्यया बहुला एव भवन्ति । किन्तु तावन्मात्रेणैव सत्यस्य लोपो न कदापि भूतो भवति भविष्यत्यपि च।
आग्रही जनः सदाऽशान्तिमेवाऽनुभवति । तस्याऽन्तःशून्यत्वं च तं सततं तुदति । एतादृशोऽन्तःशून्यो जनः स्वकीयां रिक्ततां शून्यता वाऽसहमानः सन् तां पूरयितुमनुयायिवर्गस्वरुपं कोलाहलमाश्रयति । किन्तु रीत्याऽनयाऽशान्तिस्तस्य कियत्कालं जलमालिन्यवत् शाम्यति परं नोन्मूल्यते । दुराग्रहो जनं जडमिवाऽसहायमिव च निर्मिमीते । तादृशश्च जनस्य मताग्रहोऽनुयायिवर्गेणैवोच्चसितुंजीवितुंवा प्रभवति। असत्यं न कदाप्यवलम्बनं विना जीवति तिष्ठति च । कदाग्रहस्तु स्वरूपमेवाऽसत्यस्य । असत्ये एवाऽऽग्रहो जायते न तु सत्ये। आग्रहिणः समग्रप्रवृत्त्या हेतुरपि स्वस्वीकृतमतं सत्यापयितुमेव भवति। तस्य साधनायां, परस्परं वार्तायामुपदेशदानेऽपि च सा एव वृत्तिदृश्यमाना भवति।
__ बद्धः कोऽपि गौ रज्जूप्रमाणायामेव भूमौ पर्यटति । पुनः पुनश्च पर्यट्य यत्र कीलिका तत्रैवाऽऽगच्छति । एतेनैतावदेव जगदिति स मन्यते । यो नास्ति निर्बन्धः स न सम्पूर्णं सत्यं ज्ञातुं पारयति । कूपमण्डूकवत्तस्य जगदपि लघीय एव भवति । तस्य च स्वमान्य एव जगति आग्रहो वर्त्तते । एवमेव ज्ञानक्षेत्रेऽपि यः स्वमतिकल्पितं किञ्चित् सत्यं मत्वा तत्रैकस्मिन्मेव स्थले कीलिकाबद्ध इव निष्ठति तस्य ज्ञानदृष्टिः कुण्ठिता भवति। तदनु न स कदापि ज्ञानस्य विशालं क्षेत्रं पर्यवसितुं प्रभवति।।
अत्रैकं महदन्तरं वर्त्तते गवि आग्रहिणि च जने । यदि कोऽपि तं गां ततो मोतुमुद्यतेत तर्हि स तत्स्वीकरोति । कदाचित्तु भवेदेवं यन्न यं कञ्चित् स स्वीकुर्यात् किन्तु यं स स्वीयं मन्यते यदि स तं ततो मोचयेत् तर्हि तु स्वीकरोत्येव सः । किन्त्वाग्रही जनस्तु कमपि न स्वीकरोति । अपरं चाऽत्राऽस्ति विडम्बनं यत् नास्त्येतादृशः कोऽपि यं स स्वकीयमिति कृत्वा मन्येत् यश्च स्वं सन्मार्ग दर्शयेत् । स एव तस्याऽऽत्मीयो जनो यस्तं तत्प्रवृत्तींश्च सर्वदा ओमिति कृत्वा विना तर्केण समर्थयेत्। अतः स्वीकृतधारणानां मतानां च व्यस्थापने परेषां च सत्यस्याऽपि मतस्य प्रतिकारकरणे एव प्रवृतो वर्त्तते । तस्मिन्नेव च तस्य सर्वशक्त्या व्ययोऽपि भवति।
आग्रही बत निनीषति युक्तिं तत्र यत्र मतिरेस्ति निविष्टा । पक्षपातरहितस्य तु युक्ति-र्यत्र तत्र मतिरेति निवेशम् ।।
Page #64
--------------------------------------------------------------------------
________________
४९
स्वकीयं मतं स्वकीयां प्रवृत्तिं वा सत्यं मत्वाऽनुसरणं तु केवलं दिग्भ्रमोऽस्ति, किन्तु तदेव सत्यं यत्स्वेन स्वीकृतं, परेषां तु सर्वमसत्यमेव इत्येवंरूपोऽस्वीकारः तज्जन्यश्च परेषु तिरस्कारस्तु मतिभ्रमोऽस्ति । दिग्भ्रान्तो जनो मार्ग प्राप्नोति कदाचित् किन्तु न कदापि भ्रान्तमतिः । तस्मै तु सन्मार्गो दर्शयितुमपि दुःशक एव।
यद्यस्ति भवत्पक्षे सत्यं तर्हि तस्याऽऽग्रहो न युक्तः । सत्यं तु स्वयं प्रकाशरूपमस्ति । 'एष प्रकाश एवे' ति प्रकाशार्थमाग्रहो नोचितः । तत्प्रकाशस्य प्रापणे च स्वान्यजनस्य दृष्टेरुद्घाटनार्थं धैर्यमावश्यकमस्मासु । यदि नास्ति भवस्तु धैर्यं यदि च भवन्त आग्रहिणस्तर्खेतदेव स्पष्टयति यत् त्वत्पक्षे सत्यमेव नास्ति । अन्यथा यूयं न परान् मिथ्या ख्यापयितुं प्रावत्य॑ध्वम् कदापि । सत्यं तु धैर्य शिक्षत एव।
आग्रही जनः स्वकीयं स्थानं कर्त्तव्यं च सर्वं विस्मरति । तस्याऽहङ्कास्तं यथा प्रेरयति तथा स प्रवर्त्तते । स खलु एवं मन्यते यदहं स्वतन्त्रः यदृच्छया वर्त्तने समर्थश्च । वस्तुतस्तु स दुराग्रहजनिताहङ्कारपरवश एव वर्त्तते। दुराग्रह एव कि नास्ति पारतन्त्र्यम् ? कस्मिश्चिंदेकस्मिन्नेव स्थाने बद्धः परतन्त्र एव।
अलमेतेन । किन्तु एतादृश्यां स्थितौ विवेकाभाव एव कारणम् । शस्त्रज्ञानमिव शास्त्रज्ञानमप्यपात्रे दुष्फलं भवति । यावन्न विवेक उदेति हृदये तावन्न ज्ञानप्राप्तये योग्यः पात्रं वा भवितुमर्हाति कोऽपि एतादृशि च जने ज्ञानदानं सर्वेषामनायैव जायते। स स्वयं तु नोत्पथं लक्षयति किन्तु तदनुयायिनमपि तस्याऽनुसरणेऽहितमेव भवति । तदपि च स न विचारयति।
स्वयं प्रमादैनिपतन् भवाम्बुधौ कथं स्वभक्तानपि तारयिष्यसि ? | प्रतारयन् स्वार्थमृजून शिवार्थिनः स्वतोऽन्यतश्चैव विलुप्यसेऽहसा ।।
(अध्यात्मकल्पद्रुम १३/१५) अस्तु यदस्ति। ज्ञानिनां धैर्यं त्वपूर्वममेयं चाऽस्ति। भगवन्महावीरस्य धैर्यण गशालकस्य ज्ञानदृष्टिरुद्घटिता, सन्मार्गश्च तैः प्रापितः सः । एवं वर्तमानकालेऽपि तादृशानामसद्ग्रहान्धकारभ्रान्तानामपि विवेको ज्ञानदृष्टिश्च सत्पुरुषाणां धैर्येणोद्घटयतु एवं च ते तेषां च प्रेरितो जनसमाजोऽपि सत्यं सन्मार्ग शान्तिं च प्राप्नुवन्तु । सर्वत्र च शान्तिः प्रसरतु शीघ्रमित्याशास्महे।
Page #65
--------------------------------------------------------------------------
________________
५०
श्लोकेऽस्मिन् कथितं बुधत्वमपि ते लभन्ताम्, येन कल्याणपथपथिका अपि ते भूयासुः। यतः स एव वस्तुतो बुधः श्रुतसारवानपि स एव येनाऽसद्ग्रहत्यागः कृतः। इति शम्।
A. V. School
m
A. v. School
इदानीं नैकमपि वातायनमवशिष्टम्। कृपया तदर्थं कष्टं नोह्यम्।
-क्षमाप्रार्थी आचार्यः
ALARIANRArunaukrinaaman
......
Page #66
--------------------------------------------------------------------------
________________
५१
-मुनिधर्मकीर्तिविजय : - प्रेम्णैव प्रेम वर्द्धते
विषमपञ्चमकालेऽस्मिन् मनुष्यजन्म जिनशासनं जिनकथितधर्माराधना चेत्येवं वस्तुत्रिकं दुर्लभमस्ति । तत्राऽपि जिनकथितधर्माराधना तु सुदुर्लभा।
धर्ममाराधयितुं नैके मार्गाः प्रदर्शिता भगवता। सा धर्माराधना सर्वैः जीवैः एकेनैव मार्गेण साधितुमशक्या, यतो जीवा विभिन्ना विविधपरिणामवन्तो भिन्नवीर्यवन्तश्च सन्ति । तत एव सर्वान् जीवानाश्रित्य भिन्ना भिन्ना धर्माराधनाया मार्गाः कथिताः। तत्र प्रवर्तते मैत्रीभावनामक एको मार्गोऽपि।
का सा मैत्री ? सर्वेषां जीवानां शुभचिन्तनमेव मैत्री। सूक्ष्मेभ्योऽपि सूक्ष्मान् जीवान् प्रति प्रेम्णो वात्सल्स्य वा निर्झरणं मैत्री। "सर्वे जीवाः सुखिनो भवन्तु'' इत्येवं शुभभावनाऽपि मैत्री। अज्ञातमनस्यपि कांश्चिदपि जीवान् प्रति न द्वेषः, नाऽरुचिः, नोद्वेगः, सा मैत्री। श्रीहरिभद्रसूरिभगवता षोडशकप्रकरणे कथितम् - "परहितचिन्ता मैत्री।" श्रीमुनिसुन्दरसूरिणाऽपि अध्यात्मकल्पद्रुमे कथितम् - मा कार्षीत्कोऽपि पापानि मा च भूत्कोऽपि दुःखितः । मुच्यतां जगदप्येषा मतिमैत्री निगद्यते॥
सर्वदर्शिप्रभुणा मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यरूपाश्च चतस्रो भावनाः प्ररूपिताः। कथमत्र मैत्र्येव प्रथमा वर्णिता ? नाऽन्या ? इति प्रश्नो भवति।
तदा ज्ञानिभिः समाधानं कृतं; यदस्ति प्रमुखद्वारं मैत्र्येव शेषभावनात्रिकस्य । एतां मैत्री विना न कदापि प्रमोद-कारुण्य-माध्यस्थ्यभावाः संभवेयुः। यत्र मैत्री तत्रैव प्रमोदादिभावनाः सन्ति । यं प्रति मैत्र्युद्भवति तं प्रत्येव प्रमोदः कारुण्यं माध्यस्थ्यं वा जागर्ति, किन्तु यं प्रति
Page #67
--------------------------------------------------------------------------
________________
५२
द्वेषः, अरुचिः वास्ति, तं प्रति कदापि प्रमोदादिभावा नोद्भवन्ति । तत एव श्रीमहावीरप्रभुणा मैत्री भावना प्रथमा वर्णिता।।
किञ्च, मोक्षमार्गस्वरूपशिखरस्यैता भावनास्तु सोपानरूपाः सन्ति । आद्यसोपानस्याऽऽरोहणं विना न कदाचिदपि शिखरस्य प्राप्तिः शक्या । आद्यं सोपानमस्त्यत्र मैत्री। अत एव यदि मैत्री साधिता तर्हि मोक्षसुखं सिद्धमेवाऽस्ति।
पुनः, मैत्र्यामेव जिनप्रणीतधर्माराधनायाः सकलमपि तत्त्वं समाविष्टमस्ति । मैत्री विना कृताः सर्वा अप्याराधना निष्फलाः-वन्ध्यीभूताः अकिञ्चित्कराः सन्ति । न केवलं जिनशासनेऽपि तु सर्वेष्वपि दर्शनेषु मैत्रीभावस्य परमं माहात्म्यं वर्णितमस्ति।
उपनिषद्यपि प्रोक्तम् - "न हिंस्यात् सर्वभूतानि' । अत्र ग्रन्थकारेण निषेधात्मकरूपेण मैत्रीस्वरूपं कथितम्। हिंसाया निरोधद्वारेण 'सर्वेषां जीवानां प्रियं कुर्वन्तु' एवं निगदितम् । तत एवाऽऽद्ये मैत्रीभावस्याऽऽराधनैवाऽस्माकं जीवानां श्रेयस्करी।
अन्यच्च-विद्यते मैत्रीभावेऽकथ्या परमा शक्तिः, सा त्वस्मादृशैः जीवैरगम्या । येन जीवेन मैत्र्याराधिता तस्य सर्वतो मैत्र्याःशुभपरमाणवः प्रसरन्ति । तैः परमाणुभिः पवित्रीभूतानां पुदगलानांमण्डलं भवति । तस्मिन् मण्डले केऽप्यशुभपुद्गलाः कृष्णपुदगलाः प्रवेष्टुं न समर्था भवन्ति । कदाचिदशुभपुद्गलाः प्रविशेयुः तर्हि ते पुद्गला अपि मण्डलस्थितशुभपुद्गलानां संयोगैः शुभ्रीभवन्ति।
वयं सर्वेऽपि जानीमो यद्, क्रोधेनाऽन्धीभूता अहङ्कारेणोन्मत्तीभूताः पापिनो जीवा अपि प्रभोः महावीरस्य शरणमुररीकृत्य त्वरितमेव प्रशान्ता अभवन् । न केवलं मनुष्या अपितु विषान्विता हिंसकप्राणिनोऽपि मैत्रीभावपवित्रीभूतात्मनः प्रभोः शरण्यं संप्राप्य निर्विषा बभुवुः। प्रभुणैते सर्वेऽपि जीवा न क्रोधेन, किन्तु मैत्रीस्वरूपामृतरसधाराभि-रेवोद्धृताः।
पातञ्जलयोगदर्शनेऽपि प्रोक्तम्"अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ।'
अत्र नाऽन्यत् किमपि कारणं, किन्तु पूर्वकथितमेव यदशुभपुद्गला अपि मैत्रीभावाधिवासितशुभपरमाणुसंयोगैः शुभ्रीभवन्ति।
गुरुगौतमस्वामी स्मर्यते।
Page #68
--------------------------------------------------------------------------
________________
किं विना कारणादेव श्रीगौतमविभुं निरीक्ष्य पञ्चदशशतं परधर्मिणस्तापसा आनन्दिता अभवन् ?। यत्र कार्यमस्ति तत्र कारणमप्यस्त्येव, कदापि कारणं विना कार्यं न संभवति, यतः कार्यकारणयोरविनाभावित्वात् ।
५३
अत्राऽगम्यः प्राक्तनसंस्कारः कारणमस्ति । यं जीवं दृष्ट्वा मनसि मैत्री आनन्दो वोद्भवेत् तर्हि स पूर्वभवेऽवश्यमेव मैत्रीभावसम्बन्धेन युक्तः स्यात्, एवं ज्ञेयम् । अत एवाऽत्रापि ते तापसाः पूर्वभवे गुरुगौतमेन सह शुभसम्बन्धेन युक्ता अभविष्यन् एवमहं मन्ये ।
अत्राऽऽश्चर्यं भवति यद्, पूर्वभवे कीदृशो मैत्रीभावो दृढीकृतः स्यात्, येन झटित्येव शरणागता एते सर्वेऽपि तापसाः परमसुखभाजोऽभवन् ।
अतः प्रेम्णैव प्रेम वर्धते, न क्रोधेन न वाऽन्यैः ।
इदानीमपि कदाचित् साधकपुरुषाणां जीवने एतादृशाः प्रसङ्गा भवन्ति । मैत्र्याः शुभफलं निरूपयन् वर्तमानकालीन एकः प्रसङ्गो दृग्गोचरीभवति ।
एकदा भारतीयसत्पुरुषाणां दर्शनस्य हेतोरागतवान् “पोलब्रन्टन' नामको वैदेशिकः । सर्वत्र दर्शनं कुर्वन् सन् स दक्षिणप्रदेशेऽरुणाचलगिरेः तटस्थिते आश्रमे रमणमहर्षेः पार्श्वं गतः । दर्शनं कृत्वा स्वं धन्य मन्वानस्स स्वस्थाने प्रत्यावर्तितः । तदा तेनैको दृष्टिविषः सर्पो दृष्टः । भीतो विह्वलीभूतश्च ।
1
तत्समक्षे स्थितः फटाटोपं विरच्य सर्पोऽपि । ततस्सर्पं ताडनार्थं दण्डं ग्रहीतुं स मनाग् प्रतिन्यवर्तत । तस्मिन् काले एव "रामैया" नामको योगी तत्राऽऽगतः ।
आगतं तं दृष्ट्वा स 'पोलब्रन्टनः ' उवाच - भो ! अस्ति सर्पोऽत्र, ततस्तत्रैव तिष्ठतु । स तु निर्भयत्वेन पुरतो गतः । तत्राऽऽगत्य तेन योगिना स्वकीयौ द्वौ हस्तौ ऊर्ध्वकृतौ ।
तदाऽऽश्चर्यमभूत् यद्, सर्पः स्वकीयां बृहज्जिह्वामुद्घटितमुखे इतस्ततोऽभ्राम्यत्, तथा क्रोधेन प्रज्वलितोऽभूत् । यद्यपि योगिनं प्रत्यागन्तुं न समर्थीभूतस्सर्पः।
अथ योगी स्वयं गतवानुपसर्पम् । सहसैव स्वशीर्षं योगिनः पादारविन्देऽनामितं भुजङ्गेन । योगिना सर्पपुच्छे शनैः हस्तः स्पृष्टः । तत्कालेऽपि अहिः जिह्वां स्ववदने इतस्ततोऽभ्रमत् । किन्तु न किमपि कर्तुं स शक्तिमानभूत् ।
Page #69
--------------------------------------------------------------------------
________________
५४
प्रान्ते स व्यालः स्वकीयां सर्वामपि चेष्टां संहृत्य स्वस्थानं प्रति प्रयातः।
तदाऽऽश्चर्यान्वितानन्दमेदुरमानसेन 'पोलबन्टनेन' योगी पृष्टः - भो! कथं स भुजङ्गमो हस्तस्पर्शमात्रेणैव प्रतिन्यवर्तत ? |
तदा योगी आह - कस्मात् भीतिः मे? यतो मया तस्य किमप्यशुभं न कृतम्। मम हृदये सकलजीवानां कल्याणभावनैव रममाणाऽऽसीत् । एतया भावनया पवित्रपुरुषान् विचलितुं न केऽपि समर्थाः।
एतेन ज्ञायते, यदा हृदये सर्वान् जीवान् प्रति मैत्रीभावः क्षमाभावो वोद्भवति तदाऽस्मिन् संसारे स जीव किमपि कर्तुं समर्थोऽस्ति । स अत्रैव मोक्षसुखस्या-ऽऽनन्दमप्यनुभवति।
मम हृदयेऽपि मैत्र्युद्भवेदिति शम्।
। कति भिक्षुकान् । प्रीणयामि?
Page #70
--------------------------------------------------------------------------
________________
-मुनिरत्नकीर्तिविजयः प्रिय मित्र !
धर्मलाभोऽस्तु।
किं कुशली त्वम् ? वयमत्र सर्वे देव-गुरु-धर्मकृपया गुरुभगवतां पुण्यनिश्रायां ससातं वर्तामहे ।
अधुना तु विहारयात्रायां प्रवृत्ताः स्मः। विहारकाले जनमानसस्याऽभ्यासोऽपि भवति । जनाः सर्वत्र सर्वदा धनवार्तायामेव प्रवृत्ता दृश्यन्ते । अन्यत्सर्वं तैर्विस्मृतमिव प्रतिभाति । तदभावेन तु ते नित्यं पीडिता इव वतन्ते । अत्राऽऽश्चर्यं त्वेतद् यत् तत्प्राप्तावपि न तेषां प्रश्ना न्यूनीभूता निराकृता वा । तर्हि किं तत्र कारणम् ? किं मूलमस्य ? इत्यपि चिन्तनीयम्।
कतिभिर्दारिद्यैः पीडितो दृश्यतेऽस्माकं साम्प्रत आर्यमानवसमाजः । दृष्टिदारियहृदयदारिय-संस्कारदारिय-विचारदारियाद्यनेकैरिफ्रेग्रस्तोऽयं समाजः। ततश्चैव स्वकीयेन मूलस्वरूपेण सोऽत्यन्तं वियुक्तो भूतः। अत्र शोचनीयं त्वेतद्द्यन्न स ता पीडां पीडात्वेनाऽनुभवितुं शक्तः । भौतिकताया इयान्प्रभावो मानवमनसि वर्त्तते यन्न स एतानि दारिद्राणि किञ्चिदपि गणयति । अपितु यत्राऽस्ति भौतिकता तत्र त्वेतानि दारिद्राणि गुणत्वेनैव कीर्त्यन्ते। सर्वे गुणाः काञ्चनमाश्रयन्ते' इत्युक्तिरपि तदैव सफला खलु !।
अध्यात्मोन्नतिकारणैरार्यसंस्कारैरामोदिताऽऽस्माकीना संस्कृतिरस्मद्विलासवृत्त्या पङ्गुतामुपनीताऽस्ति। नैतावदेव, किन्तुं सर्वथा विकलेव कृताऽस्ति। जीवनस्य तेषामुच्च-तमानां दृष्टिविशालता-हृदयौदार्य-सत्संकार-सर्वतोमुखविचारपवित्राचारेत्यादीना- मादर्शानां तावदुपेक्षा कृताऽस्ति येन नास्ति मनुष्यस्य पार्श्वे किञ्चिद् यत्तेन स्वीयमिति कृत्वा कथयितुं शक्यम्।
__ न केवलं पाश्चात्यसंस्कृतेराक्रमणमेवाऽत्र कारणम्, किन्तु ततोऽप्यधिकं तु तद्बहुमूल्यसंस्कारान् प्रत्यस्माकं गौरवाभावोऽपि कारणत्वेन वर्त्तत एव । पाश्चात्य-शासकानां दूरीकरणमेव स्वातन्त्र्यं मत्वा तदुत्रावकरणं त्वस्माकं मौढ्यमेव । वस्तुतस्त्वस्मदीयाया वस्तुस्थित्या अस्मान् वियुज्य तेषां संस्काराणां यत्सेचनं तैः कृतं तदेव महत्पारन्त्र्यमस्माकं,
Page #71
--------------------------------------------------------------------------
________________
५६
यन्न वयं जानीमहे । तत्संस्काराणामपनयनमपि विचारयितुं वयं न शक्तास्तत्कियद् दयनीयम् ? केवलं चक्षुरुद्घाटनमेवाऽऽवश्यकमत्र । तत्पश्चादेव वयं किञ्चिदपि कर्त्तुं शक्ष्यामः । पूर्वं महापुरुषैर्जीव्यमाना वर्त्तमानकालेऽपि च कुत्रचिद् दृश्यमानाऽऽस्माकीनैषा संस्कृतिस्तु कैश्चिदनुभविभिर्जागृतैश्च सज्जनैर्ग्रन्थद्वारा व्यक्तीकृताऽप्यस्ति । यद् एवं कृत्वा लोकमानसं तां प्रति जागृयात्, इत्यर्थमेव तेषामेष प्रयासः । किन्तु सर्वकारस्तत् तादृशं पुस्तकं पुरस्कृत्य लोकाश्च प्रशंसा कृत्वा स्वान् कृतकृत्या इति मन्यन्ते रीत्याऽप्यस्माकमुपेक्षैवाऽऽविर्भवत्यस्मिन् विषये, इति स्पष्टमेव । तत्परिणामस्वरूपेणैव च वयमेतादृक्षैराभ्यन्तरदारिद्यैर्ग्रस्ताः स्मः । कदाऽस्यां दिशि प्रयतिष्यामहे वयम् ?
तस्य
I अनया
या संस्कारपरम्परा साहजिक्ये वाऽऽसीदस्माकं तामभ्यस्य वर्त्तमानकाले पाश्चात्यविद्वज्जना तद्रहस्यमपि शुद्धयन्ति । वयं च स्मः, ये ऽस्मिन् विषये विमातृवर्त्तनं कुर्मः । अहो ! कीदृशमिदमस्माकं धाष्टर्यम् ?
वैज्ञानिकीं नित्यनूतनसर्जनरूपां स्वकीयां भौतिकवृद्धिं संलक्ष्य तज्जन्ये कृत्रिमे सुखे निःशङ्कं लुठन्तो वयं कदाऽस्मदीयामीदृशीमुपेक्षां सङ्कोच्य लुप्तप्रायं सत्यं सत्त्वं वा मार्गयिष्यामः ? कदा चेदृशीभिर्दारिद्यपीडाभिर्मुक्ता भविष्यामः ? विचारणीयमेतत् । अस्मिन्नेवाऽस्माकं सर्वप्रश्नानां निराकरणमस्ति ।
सर्वेषां कुशलं प्रार्थये । इति शम् ।
स्पर्धा सिंहेन का शुनः ?
हैमवचनामृतम् ॥
Page #72
--------------------------------------------------------------------------
________________
५७
रङमञ्चः
-मुनिकल्याणकीर्तिविजय :
भिक्षुकः
पूर्वाङ्कतोऽनुवर्तते।
| चतुर्थं दृश्यम् (अथ त्रिष्वपि गृहेषु अलब्धभिक्षस्ततश्चाऽतीव निराशो भिक्षुकस्ततोऽग्रे गच्छन् कस्यचिद् सद्गृहस्थस्य गृहं दृष्ट्वा तत्समीपमागतः । द्वारि स्थित्वा भीतभीतेन तेन पूत्कृतम्-)
श्रेष्ठिवर्य ! भोः श्रेष्ठिवर्य ! दिनत्रयेणाऽप्राप्तान्नकणो नूनं बुभुक्षया मरिष्यामि ।
कृपया किञ्चिदपि खादितुं देहि। सदगृहस्थः (स्नानादिकं कृत्वा देवस्थानं जिगमिषुर्बहिर्निर्गच्छन्) अहो ! अतिथिः?
अतिथिस्तु देवः । मम भागधेयैरागतोऽसि । उपविशाऽत्राऽङ्गणे । तव क्षुधं निवारयितुं भोजनमानयामि अहम्।। (इति मृदुस्वरेणोक्त्वा स गृहान्तर्गतः । कतिभिः क्षणैः भोजनपूर्ण-स्थालं
गृहीत्वा बहिरागतः।) सद्गृहस्थः बन्धो ! गृहाणेदं भोजनम् । शमय स्वकीयां बुभुक्षाम्। भिक्षुकः (भोजनं दृष्ट्वा लब्धचेतनो हृष्टः सन्) प्रभो ! प्रभो ! महती कृपा कृता।
(गृहस्थपादयोः पतित्वा) त्वमेव मे भगवान् । प्रभो ! त्वमेव मे भगवान् । सद्गृहस्थः मा मैवं कुरु बन्धो ! । निश्चितं भुव । (भिक्षुक उच्चै रोदिति।) सद्गृहस्थः
मा रोदीः बन्धो ! सुखदुःखयोश्चक्रं त्वस्मिन् जगति सदैव चलति । अद्य सुखं, श्वो दुःखम् । अद्य दुःखं श्वः सुखम् । शान्तो भूत्वा शनैः शनैः खाद ।
(तन्मस्तके हस्तं प्रसारयति ।) भिक्षुकः (रुदन्) प्रभो ! मनुष्य ईदृशो निर्दयः कथं भवितुमर्हति ?। सद्गृहस्थः किमिति त्वमेवं वदसि ? भिक्षुकः प्रभो ! अद्याऽहं दिनत्रयेणोपोषितो कस्यचिदेकस्य गृहं गत्वा यदा
भोजनमयाचत तदा स मां व्याकरणं शिक्षयन् शब्दब्रह्मसेवन-मुपदिष्टवान् ।
Page #73
--------------------------------------------------------------------------
________________
५८
सद्गृहस्थः
भिक्षुकः सद्गृहस्थः
सद्गृहस्थः
अन्यस्तु मम बुभुक्षितत्वे प्रमाणं साक्षिणं चाऽमार्गयत् । अपरश्च 'काव्यरसपानमेव सर्वसौख्यकारकमतस्तदेव सेवस्वे ति कथयति स्म । कोऽपि मे एकमन्नकणमपि नाऽदात्। हुम् । बुध्ये तव दुःखकारणम् । त्वं भुञ्जानः सन् विस्तरेण निजवृत्तान्तं कथय। किन्तु प्रभो ! भवतो मन्दिरगमने विलम्बो भविष्यति। अरे ! किं वदसि ? अहं मन्दिरमध्ये एवाऽस्मि अधुना। अद्य त्वद्रूपेण प्रभुरेव सदेहो मम गेहमागतः । तं विहाय किमहमन्यत्र गमिष्यामि ? त्वं शान्त्या निजवृत्तान्तं कथय। (भिक्षुकस्तं सर्वमपि अद्यतनमितिवृत्तं कथयति। भोजनसमाप्तौ-) बन्धो ! सम्यगवगतो तव वृत्तान्तः। तेभ्यो बोधदानमवश्यं कर्तव्यम्। (किञ्चिद् विचार्य-) त्वमत्रैव विश्रामं कुरु।अहं देवदर्शनादिकं कार्य समाप्य आगच्छामि तावत्। उपकृतोऽस्मि प्रभो !।
पञ्चमं दृश्यम् (स श्रेष्ठी देवदर्शनादिकं कार्यं कृत्वा गृहं प्रतिनिवर्तमानः क्रमेण पण्डितानां गृहेषु गच्छति । प्रथमं वैयाकरणगृहं-) नमस्ते पण्डितवर्य ! (सगर्व) नमस्ते । को भवान् ? अहं भवतः प्रातिवेश्मिकः। किमर्थमत्राऽऽगमनम् ? भवादृशं ज्ञानिनं दृष्ट्वा मया चिन्तितं यद्-यदि भवान् मम गृहं भोजनार्थ आगच्छेत् तर्हि मे महान् लाभो भवेत् । अतो भवन्तं
भिक्षुकः
सद्गृहस्थः वैयाकरणः सद्गृहस्थः वैयाकरणः सद्गृहस्थः
Page #74
--------------------------------------------------------------------------
________________
वैयाकरणः
सद्गृहस्थः
वैयाकरणः
सद्गृहस्थः
सद्गृहस्थः
तार्किकः
सद्गृहस्थः
तार्किकः
सद्गृहस्थः
सद्गृहस्थः
कविः
सद्गृहस्थः
कविः . सद्गृहस्थः
भोजनायाऽऽमन्त्रयितुमागतोऽहम् ।
(हृष्टः) एवं खलु ? कदा आगन्तव्यम् ?
श्वः सायङ्काले । सुस्वादुभोजनं परिवेषयिताऽहम् ।
श्रेष्ठिन् ! भवत आमन्त्रणं सानन्दं स्वीकरोमि ।
श्वः सायङ्काले भवन्तं प्रतीक्षिष्ये । गच्छाम्यधुना । (तार्किकगृहं-)
नमस्ते तर्कपञ्चानन !
नमस्ते । भवन्तं नोपलक्षयामि ।
अहो ! क्षन्तव्योऽहम् । अहं भवतः प्रातिवेश्मिकः भवतो ज्ञानेनाऽऽकृष्टः श्वस्तनसायङ्कालस्य भोजनार्थं आमन्त्रयितुमागतोऽस्मि । किं भवान् आगमिष्यसि ?
५९
सत्यं खलु ? अवश्यं आगमिष्यामि । भोजनार्थं तु न किमपि प्रमाणमावश्यकम। तथाऽपि न्यायसूत्रकारं सांक्षीकृत्याऽऽगमिष्यामि । उपकृतोऽस्मि । गच्छामि तावत् ।
( कविगृहं - )
कविवरेण्य ! नमस्यामि ।
अतिथये नमः ।
नाऽहमतिथिः । अहं तु भवतः प्रातिवेश्मिकः । श्वः सायङ्काले मद्गृहे भोजनसमारम्भस्याऽऽयोजनमस्ति । भवांस्तु महाज्ञानी, अतो भवन्तं भोजनार्थं निमन्त्रयामि । अवश्यमेवाऽऽगन्तव्यं भवता । (लज्जां नाटयन्) अहं तु काव्यरसपाने पक्षपाती । तथाऽपि...!
कविवर्य ! काव्यरसपानेन सह स्वादोः अन्नरसस्याssस्वादनमपि नितरामावश्यकम् । श्वः सांयकाले मा विस्मार्षीः । अहं गच्छामि । महती व्यवस्था कर्तव्या मया ।
Page #75
--------------------------------------------------------------------------
________________
૬૦
| षष्ठं दृश्यम्। (अथ द्वितीयदिने प्रातःकाले त्रयोऽपि पण्डिता मिलिताः।) वैयाकरणः अये तार्किक! अद्य प्रातिवेश्मिकश्रेष्ठिना सांयभोजनार्थमामन्त्रितो-ऽहम् ।
मयाऽपि तदामन्त्रणं स्वीकृतम्। सांयकाले तद्गृहे सुतरां भोक्ष्येऽहम्। तार्किकः अरे शाब्दिक ! मामपि स मिष्टभोजनार्थं न्यमन्त्रयत् । अहमपि तदामन्त्रणं
स्वीकृतवान्। कविः किं वदतो युवाम् ? मामपि स स्वादुभोजनार्थं निमन्त्रितवान् । मयाऽपि
तन्निमन्त्रणं स्वीकृतम्। ततश्चाऽहं ह्यः सांयकालेऽपि न भुक्तवान्। तार्किकः अहमपि नाऽभुक्त किञ्चित् । वैयाकरणः
भो ! मयाऽपि न भुक्तम् । अपि चाऽद्य मध्याह्नेऽपि न किञ्चिद् भोक्ता-ऽहम् । तार्किकः अहमपि खलु। कविः
अहमपि । ततश्च सांयकाले सर्वाण्यपि मण्डक-मोदक-वटक-जलेबिकारसगोलकादीनि सुस्वादूनि भोज्यानि आकण्ठं भोक्ष्ये । आ...हा...हा
!ग्लप्...ग्लप्...। तञ्चिन्तनेनाऽपि मुखे पानीयं स्रवति जिह्वा च लपलपायते। वैयाकरणः भो !...ममाऽपि एवमेव । मन्ये स श्रेष्ठी श्रद्धालुर्ज्ञानिनां भक्तश्च।। तार्किकः किन्तु अस्माकं ज्ञानमपि तादृगुच्चकोटिकमस्ति । अन्यथा स कथमस्मासु
श्रद्धालुर्भवेत् ? कविः कोऽत्र सन्देहः? अस्माकं त्रयाणां पुरतः कः स्थातुमपि शक्नोति? (त्रयोऽपि मिथस्तालिकां ददाना उचैर्हसन्ति ।) हा...हा...हा...।
सप्तमं दृश्यम् (मध्याह्ने त्रिभिरपि पण्डितैः किमपि न भुक्तम् । अपराह्णान्ते तु ते त्रयोऽपि अत्यर्थं बुभुक्षिता झटिति नूतनपीताम्बराणि परिधाय कृतत्रिपुण्ड्रा धृतोत्तरासङ्गाश्च श्रेष्ठिगृहं प्राप्ताः।) वैयाकरणः कल्याणमस्तु श्रेष्ठिन् !
Page #76
--------------------------------------------------------------------------
________________
तार्किका
कविः सद्गृहस्थः
वैयाकरणः सद्गृहस्थः
तार्किकः
वैयाकरणः तार्किकः कविः
शिवमस्तु श्रेष्ठिन् ! धनागमोऽस्तु श्रेष्ठिन् ! (बहिर्धावन्) सुस्वागतम् पण्डितवर्याः! सुस्वागतम् । अहो ! अद्य सौभाग्यभाजां शेखरोऽहं यन्मम गृहाङ्गण एव ज्ञानिनां त्रिवेणीसङ्गमः प्रकटितः। भवतां पवित्रैश्चरणरजोभिर्मम गृहमद्य पवित्रीभूतम् । (गृहान्तर्नयति) इत आगम्यन्ताम् । अत्र पर्यङ्क उपविशन्तु महाभागाः ! श्रेष्ठिन् ! भवानपि उपविशतु। पूज्या ! भवादृशां ज्ञानिनां महापुरुषाणां भोजनव्यवस्था कर्तव्या अतोऽहं अन्तर्गच्छामि...क्षन्तव्योऽहं..किन्तु...भवन्तः!... अरे ! न काऽपि चिन्ता कार्या । वयमत्रैव उपविष्टाः स्मः। (तद्गमनान्तरं-) भोः तर्कशास्त्रिन् ! मन्ये सुमहती व्यवस्था कृता भवेदनेन । भोः ! प्राघूर्णका अपि न पृथग्जनाः। हुम् । अतस्तादृशी रसवती अपि प्रगुणीकर्तव्या न वा ? (इत्यादिसंलापैर्मुहूर्तद्वयं व्यतीतम्। तदा-) पूज्याः! किञ्चित् प्रतीक्षा कर्तव्या । अथ तावत् ज्ञानचर्चा कुर्मः ? भवन्मुखनिःसृतेन ज्ञानामृतेन अहमपि कर्णयुगलं पुनामि । श्रेष्ठिवर्य ! भोजनानन्तरमेव चर्चा कुर्मस्तावत्। प्रथमं तु भोजनमेव। उक्तमपिशतं विहाय भोक्तव्यमिति। सत्यं वदत्ययम् । भोजनानन्तरमेव चर्चा रसप्रदा भविष्यति। अवश्यम् । प्रथमं रसपूर्ण भोजनं तदनु रसप्रदा चर्चा। भवतु। किन्तु अद्य युष्माकं पाण्डित्यस्याऽगाधसरसि स्नपयितव्य एवाऽहम्। अवश्यम्...अवश्यम्...कोऽत्र सन्देहः ? (एवमन्यदपि मुहूर्तं गमितं तैः । तदा-)
सद्गृहस्थः
वैयाकरणः
तार्किकः कविः सद्गृहस्थः पण्डिताः
Page #77
--------------------------------------------------------------------------
________________
सद्गृहस्थः अरे ! मुख्यं कर्तव्यं तु विस्मृतमेव । किमिति इयती वेला जाता? अन्वेषयामि
तावत्। (इत्युक्त्वा गृहान्तर्गतः स प्रहरार्धेनाऽऽगतः । इतस्त्रयोऽपि ते अतीव
क्षुधाव्याकुला अभवन् ।) वैयाकरणः भोः श्रेष्ठिन् ! भोजनं प्रगुणीकृतं न वा ? मध्यरात्रमभवदिति मन्ये। सद्गृहस्थः क्षन्तव्योऽहं पूज्यैः । किञ्चिद् विलम्बो जातः । अधुना सर्वमपि प्रगुणीभूतमस्ति । आगच्छन्तु भोजनखण्डे । (सर्वेऽपि गच्छन्ति।)
| अष्टमं दृश्यम् (तोरणैरलङ्कृते धूपामोदेन च सुगन्धिते भोजनखण्डे नयति तान् ।) सद्गृहस्थः इत इत आगच्छन्तु । अत्राऽऽसनेषु उपविशन्तु।
(तेषां पुरतः पीठानि स्थायित्वा तेषु चीनांशुकाच्छादिताः तिस्रः स्थालीः
स्थापयति।) पण्डिताः अहो..हो..हो.. ! श्रेष्ठिन् ! महती व्यवस्था कृता भवता? सदगृहस्थः पूज्यवर्याः ! यथाशक्ति कृता । अथैतेषु स्थालेषु सुस्वादूनि भोज्यानि
परिवेषितानि सन्ति । भवन्तः सानन्दं भुञ्जन्ताम् । मा लज्जन्ताम्। (सलालसं विहसद्भिस्तैझटिति आच्छादनवस्त्रमपावृतम्। स्थालमध्ये दृष्ट्वा
विस्फारितनेत्राः-) पण्डिताः श्रेष्ठिन ! काऽस्ति भोजनम् ? क च वटक-रसगोल- जलेबिका
मण्डक-मोदकादीनि ? स्थालमध्ये तु पुस्तकानि सन्ति। सद्गृहस्थः (अपरावृत्तमुखभावः) भुञ्जन्ताम्...भुञ्जन्ताम् । भवदभिलषितानि
भोज्यान्येतानि । निःशङ्कं भुञ्जन्ताम् । नाऽत्र लज्जितव्यम्। पण्डिताः (क्रुद्धाः सन्तः) किं भवान् उपहसति अस्मान् ? किं कोऽपि कदाऽपि पुस्तकं
खादति ? सद्गृहस्थः मा मैवं कुपत । भवद्रुचिमनुसृत्यैव मयेदं भोजनं प्रगुणीकृतम्। (वैयाकरणं
प्रति-) पण्डितवर्य ! भवांस्तु महान् वैयाकरणः । व्याकरणे तु भवतो उर्वी
Page #78
--------------------------------------------------------------------------
________________
पण्डिताः
सद्गृहस्थः
पण्डिताः
सद्गृहस्थः
पण्डिताः
सद्गृहस्थः
वैयाकरणः
सद्गृहस्थः
६३
प्रीतिरस्ति । नित्रयबुभुक्षितस्य क्षुधं वारयितुं भवांस्तं व्याकरणं शिक्षयति शब्दब्रह्म सेवितुं चोपदिशति । अतो भवतो व्याकरणपक्षपातं दृष्ट्वैव मया भवत्स्थाले ‘“पाणिनीयव्याकरणं" परिवेषितम् । 'अमरकोशो निघण्टु ' र्वा चटणिकारूपेण उचितः प्रतिभातीति मन्ये ।
( तार्किकं प्रति - ) पण्डितराज ! भवांस्तु नैयायिकप्रकाण्डम् । केनाऽपि न वञ्च्यसे । दिनत्रयबुभुक्षितस्याऽपि कथनं प्रमाणं विना न मन्यसे । अतो भवदुच्चरुचिं ज्ञात्वैव मया भवदर्थं "न्यायसूत्रं" परिवेषितम् । चटणिकात्वेन 'तर्कभाषा - तर्कसङ्ग्रहयोः ' कतरं ददामि ?
(कविं प्रति ) - कविवर्य ! भवन्मते सर्वरसेभ्यः काव्यरस एव अधिकः । तेन दिनत्रयबुभुक्षितमपि काव्यरसास्वादनं कर्तुं तेन च दिव्यसुखान्यनुभवितुमुपदिशसि । भवत ईदृशीं काव्यभक्तिं विलोक्य मया भवतः स्थाले "कादम्बरी' परिवेषिता । चटणिकारूपेण 'गीतगोविन्दं' 'मेघदूतं च स्तः । किं भवते रोचते ?
(अधिकं क्रुद्धाः) श्रेष्ठिन् ! त्वं भोजनार्थमाकार्यमस्माकं अपमानं कुरुषे ? ( शान्त्या) पूज्यवर्याः अत्राऽपमानस्य प्रश्न एव न उत्तिष्ठते । भवद्भ्यो रुचितान्येव भोज्यानि परिवेषितानि मया । यथारुचि तानि भुङ्क्त्वा सन्तृप्यन्तु ।
भोः श्रेष्ठिन् ! पुस्तकानि तु कदापि भोजनार्थ नैवोपयुज्यन्ते । (विस्मयं नाटयन्) सत्यं नोपयुज्यन्ते किल ?
नैवोपयुज्यन्ते ।
किन्तु ह्यः प्रातर्भवतां गृहेषु एको बुभुक्षितो भिक्षुकोऽन्नयाचनार्थ-मागतस्तदा भवद्भिः किञ्चिदन्यदेव प्रोक्तं तस्य । अतो मया चिन्तितं यद् भवादृशो महापुरुषाः पुस्तकान्येव भोजनार्थमुपयुञ्जन्तीति ।
(आकुलीभूतः) भो श्रेष्ठिन् ! बुभुक्षयाऽत्यन्तं पीडिता वयमधुना । पुस्तकचर्चा पुनः कदाचित् करिष्यामः । कृपया भोजनं परिवेषया ।
ममैवं वदतु पण्डितवर्य ! शब्दब्रह्मणः पार्श्वे बुभुक्षायाः का गणना ? शब्देष्वेव प्राणाः विद्यन्ते । शब्दा एव जीवनम् । तत्सेवनेनैव भवान् बुभुक्षां शमयतु ।
Page #79
--------------------------------------------------------------------------
________________
६४
तार्किकः
सद्गृहस्थः
कविः
सद्गृहस्थः
वैयाकरणः
सद्गृहस्थः
भिक्षुकः
सद्गृहस्थः
तार्किकः
भिक्षुकः
कविः
(दीन इव माऽस्माकमुपहासं कुरु भोः ! झटिति भोजनं देहि । बुभुक्षया मे प्राणाः निर्गच्छन्ति ।
किं किमिति एवं वदसि ? भवांस्तु प्रत्यक्षमेव हृष्टःपुष्टश्च दृश्यते । तत् कथं भवतः प्राणा निर्गच्छन्तीति मन्येऽहम् ? तथाऽपि यदि भवान् वदति यत् 'मम प्राणा निर्गच्छन्ती 'ति तर्हि भवत्प्राणाः- कथं निर्गच्छन्ति ? किमर्थं निर्गच्छन्ति ? कुतो निर्गच्छन्ति ? निर्गत्य कुत्र गच्छन्ति ? इत्यादयः प्रश्नाः समाधेयाः । तदनु विविधैः प्रमाणैः साक्षिभिश्च भवता साधयितव्यं यत् 'मम प्राणा निर्गच्छन्ती 'ति । भवतः कथनमात्रेणाऽहं कथं विश्वसिमि ?
( रुदन्निव - ) श्रेष्ठिन् ! काऽत्र प्रमाणस्याऽऽवश्यकता ? साक्षिभिश्च किं कर्तव्यम् ? प्रत्यक्षमेवेदं यद् वयं ह्यः सायङ्कालाद् बुभुक्षिताः स्मः । यदि मिष्टान्नं न ददासि तदा रूक्षं शुष्कं भुक्तशेषं वाऽपि देहि ।
शान्तं पापं कविवर्य ! शान्त पापम् । भवांस्तु सदैव रसपानेन जीवसि दिव्यसुखानि चाऽनुभवसि । भवते रूक्षं शुष्कं वा कथं ददामि ?
तर्ह्यस्माकं गृहं प्रतिगन्तुमनुमन्यस्व ।
यथासुखं गच्छन्तु महाभागाः ! |
(यावत् ते उत्तिष्ठन्ति तावद् द्वारि लकुटहस्तो भिक्षुको दृष्टः )
(गर्जति) रे ब्राह्मणाः कुत्र गच्छथ ? श्रेष्ठिना परिवेषितं भोजनं खादत । अन्यथा...दृष्टोऽयम् ? ( लकुटं दर्शयति ।)
( त्रयोऽपि भीतभीताः उपविष्टाः । )
(विहस्य) भुञ्जन्तां महानुभावाः ! भुञ्जन्ताम् । स्थालेषु परिवेषितानि भोज्यानि निःशङ्कं भुञ्जन्ताम् ।
परन्तु पुस्तकानि कथं खादितव्यानि ?
( कुपितः) तर्हि ह्यस्तं बुभुक्षितं भिक्षुकं किमशिक्षयन् भवन्तः ? तदा तस्य बुभुक्षादुःखं न ज्ञातं युष्माभिः ।
(एतच्छ्रुत्वा तैः स भिक्षुक उपलक्षितः ।)
भोः ! क्षमस्वाऽस्मान् । अद्यैवाऽस्माभिर्बुभुक्षादुःखं ज्ञातम् । ततश्च ज्ञातमपि
Page #80
--------------------------------------------------------------------------
________________
सद्गृहस्थः
वैयाकरणः
सद्गृहस्थः
सद्गृहस्थः
पण्डिताः
सद्गृहस्थः
पण्डिताः
यत् तद्दुःखाग्रे शास्त्र - काव्यादीनां चर्चा नितरामसारैव ।
सम्यक्तयाऽनुभूतं तद्दुःखं भवद्भिः ?
आम् ! सम्यक्तयाऽनुभूतम् । अद्यप्रभृति अस्मदङ्गणात् कदाऽपि कोऽपि बुभुक्षितो न निर्गमिष्यति ।
साधु पण्डिताः ! साधु । ( उच्चैरादिशति - ) भोः ! द्रुतं भोज्यानि पेयानि
चाऽऽनय ।
६५
( तत्क्षणमेव मोदक - मण्डक- वटक - रसगोल- पूरिका - जले बिकादीनि भोज्यानि द्राक्षापानादीनि पेयानि चाऽऽनीतानि ।)
आकण्ठं भुञ्जन्तां पण्डिताः ! निःसङ्कोचं भुञ्जन्ताम् । (विस्मिता विस्फारितनेत्राश्च) सत्यं खलु ? आ..हा..हा... (भुञ्जन्ते । भोजनानन्तरम्... ) ओहिया... ओहिया..... पण्डिताः ! गृह्णन्तु दक्षिणामिमाम् । (दक्षिणां ददाति ।) ओ..हो..हो.. आकण्ठं भोजनानन्तरं दक्षिणाऽपि ? धन्यवादाः श्रेष्ठिन् ! धन्यवादाः ।
( त्रयोऽपि गच्छन्ति ।)
(नाटकमिदं गूर्जरभाषायाः सुविश्रुतबालसाहित्यकारेण श्रीरमणलाल सोनी - इत्यनेन लिखितायाः 'त्रण पोथी - पण्डितो' इति कथाया आधारेण सङ्कलितम् ।
व्यालोऽपि गरलं मुक्त्वा शाम्येन्न पुनरन्यथा ॥
हैमवचनामृतम् ॥
Page #81
--------------------------------------------------------------------------
________________
सिद्धनामकप्रभावकाः पूज्यपादाः श्रीआर्यसमितसूरयः-कथा
- मुनिविमलकीर्तिविजयः सिद्धचूर्ण - अञ्जन - पादलेप - तिलक - गुटिका - वैक्रियादिसिद्धिलब्धात्मा सिद्धनामकः सप्तमः प्रभावकः कथ्यते। स सिद्धात्मा विविधसंघादिकार्याणि सार्द्ध चमत्कारैः शासनोन्नत्यै यथावसरं चूर्ण-अञ्जनादियोजने कौशल्यं दर्शयति । तादृशेषु सिद्धात्मसु श्रीआर्यसमिताचार्याणां उदन्तः प्रथितोऽस्ति।
आभीरदेशे अचलपुरनाम एकं नगरमासीत्। तस्मिन् पुरे समृद्धिमन्तो बहवो जना वसन्ति स्म । अन्वचलपुरं कन्या-वेणानाम्नी द्वे नद्यौ आस्ताम् । तयोः मध्यभागे एकं ब्रह्मद्वीपनाम द्वीपासीत् । तस्मिन् ब्रह्मद्वीपे बहवः तापसा न्यवसन् । तेषु तापसेषु एकः पारिकाङ्क्षी पादलेपक्रियायां कुशल आसीत् । स तपस्वी प्रतिदिनं चरणयोर्लेपं लिप्त्वा स्थलपद्धतेरिव जलोपर्यपि अचलत् । तत्क्रियया जनान् रञ्जयन् स तपस्वी वेणास्त्रवन्तीमुल्लङ्घ्य भिक्षार्थमचलपुरं आगच्छति स्म । तद् दृष्ट्वा ऋजवः पृथग्जनाः तद्दर्शनं प्रति आकृष्टाः । ते जैनान् निन्दन्तो बभाषिरे 'हे श्रावकाः ! पश्यत, अस्मच्छासने गुरूणां यादृक्षः प्रत्यक्षः प्रभावो वर्तते तादृशः प्रभावो युष्मच्छासने न दृश्यते, ततोऽस्मदीयधर्मसाधारणो नान्यो धर्मोऽस्ति' ।
पृथगजनानामेताशि वचनान्याकर्ण्य श्रावकाः तदुपर्यपि दयाभावमानीय ते भद्रिकजना कुमार्गे न स्थिरीभवन्तु' इति विचिन्त्य ते श्रावका भद्रिकजनानां वचनानि नैकतर्कयुक्तिभिः प्रतिहत्य तत्तापसं दृग्भ्यामपि न पश्यन्ति।
एकदा तत्र आचार्यत्वसंपूर्णगुणालङ्कृतः जिनशानधौरेयः प्रवचनप्रभावकः नैक सिद्धिसंपन्नः सकलशास्त्ररहस्यवित् उत्सर्गापवादमार्गज्ञः श्रीवज्र स्वामिमातुलः श्रीआर्यसमितिसूरिः आगतवान्। श्रीआर्यसमितसूरीणामागमनोदन्तं श्रुत्वा पत्तनवासिन: सर्वे श्रावका महर्द्धया समागत्य चरणयुगयोर्वन्दित्वा तापसकृतजिनशासनावहेलनाप्रवृत्तिं दीनवचनैर्निवेदितवन्तः। तच्छुत्वा श्रीआर्यसमितसूरिः उवाचः स धूर्ततापसःचरणलेपक्रियया मुग्धजनान् वञ्चति, तस्मिन् अन्या कापि तपःशक्तिर्नास्ति' ।
श्रीआर्यसमितसूरीश्वराणां मुखारविन्दनिर्गच्छदमृतसममधुरवचनमाकर्ण्य श्रावका गुरुन् प्रणम्य स्वस्थानं प्रत्यागताः । तदनु वञ्चकतापसपरीक्षार्थमेकेन श्रावकेण स तापसः निजगेहे भोजनार्थमामन्त्रितः । बहुभक्तजनपरिवृतः स तापसः श्रावकस्य गृहं भोजनार्थ-मागतः । आगच्छन्तं तापसं दृष्ट्वा अवसरज्ञेन श्रावकेण तस्य माननं कृतम् । श्रावकस्य अत्याग्रहात्
Page #82
--------------------------------------------------------------------------
________________
६७
तापसेन स्वासनमलङ्कृतम् । पश्चात् तेन श्रावके ण उष्णजलेन तत्तापसचरणयुगलप्रक्षालनमारेभे । स्वपादलेपनाशदरात् चरणप्रक्षालनमनिच्छतोऽपि तापसस्य, अत्याग्रहात् तेन श्रावकेण तस्य पादौ प्रक्षालितौ । पादप्रक्षालनाल्लेपांशोऽपि चरणयुगले नावशिष्टः । भोजनान्तरं तापसो वेणापगाप्रतीरे आगतः । तापसस्य जनमनोहारिचमत्कारक्रियां द्रष्टु बहवो जनाः समूहिताः। संमीलितेषु जनेषु श्रावका अपिमहत्यां संख्यायामुपस्थिताः। तदा 'तेन श्रावकेण चरणलग्नलेपः प्रधौतः, तथापि लेपस्य किञ्चिदंशो भविष्यति, ततो सलिलमार्गे चलने हानिर्न भविष्यति इति विचिन्त्य तापसो वेणानिम्नगायां प्राविशत् । वेणानद्यां यावत् प्रविष्टः तावत् निमज्जितुमारब्धः । तदा स 'अहं निमज्जामि रक्ष माम्' इति निस्वनं चकार । तदा कतिपयैर्दयालुश्रावकैरनुधावित्वा स तोयाद् बहिरुद्धृतः। तदा तापस्य वञ्चकत्वं प्रकटीभूतम्। तद्दृष्ट्वा जना ऊचुः ‘भो! अनेन मायावितापसेन वयं चिरकालं वञ्चिताः' । पश्चाद् कुमार्गवासितास्ते जैनधर्मानुरागिणो भूताः।
तदा श्रीजिनशासनोद्योतकराः युगप्रधानाः प्रवचनदेशनादक्षाः पूज्यपादाः श्रीआर्यसमितसूरयस्तत्रागताः। आगत्य तस्यां वेणाद्वीपवत्यामेकं चूर्ण प्रक्षिप्त्वा सर्वजनसमक्षं 'हे वेणासरित् एतत्तीराद् दूरवर्तिनि रोधे गन्तुमस्माकं सर्वेषामिच्छाऽस्ति' इति कथितं, कथनमात्रे नद्या द्वौ रोधौ संमीलितौ । तद् दृष्ट्वा सर्वे जना विस्मिताः पश्चाद् आर्यसमितसूरय आनन्दपरिपूर्णसंघेन सह ब्रह्मद्वीपमागताः। आगत्य तत्र धर्मस्य सत्यस्वरूपमुपदिष्टवन्तः । धर्मस्य सत्यस्वरूपं श्रुत्वा सर्वे तापसाः प्रतिबोधिताः । प्रतिबोधितैः तापसैराचार्यपार्श्वे दीक्षा अङ्गीकृता। तेभ्यः साधुभ्यो ब्रह्मद्वीपिकाख्या एका शाखा निर्गता। सा शाखा आगमे प्रसिद्धास्ति।
तमांसि हन्ति प्रौढानि बालोऽपि हि दिवाकरः ।।
हैमवचनामृतम् ।।
Page #83
--------------------------------------------------------------------------
________________
न्कार
एतावदेव !
___- मुनिरत्नकीर्तिविजयः ग्रामानुग्रामं परिभ्रमन् सन् कोऽपि विरक्तः सत्पुरुषः कस्मिंश्चिन्नगरे प्रविवेश । स सत्पुरुषस्त्वत्यन्तं प्रभावको ज्ञानी चाऽऽसीत्। जीवनमपि तस्य परममृजु भगवन्मयं चाऽऽसीत् । भगवन्नामस्मरणलीनस्य तस्य पार्वे यद्यागच्छेत् कोऽपि तर्हि तस्य तु सद्वार्त्ताभिश्चैतसिकी प्रसन्नतां जनयति स्म सः । हास्यमपि तस्यैतादृशं मधुरं निर्मलं प्रसन्नकरं चाऽऽसीद् यदागन्तुकाः सर्वेऽप्याह्लादकतामेवाऽनुभवन्ति स्म ।
शनैः शनैस्तस्यैतादृशः सद्वर्तनस्य परिमलः सर्वत्र प्रसरन् राजमहालयमपि प्राप्तः । राज्ञाऽपि 'एतादृशस्योत्तमपुरुषस्य मेलापः कर्त्तव्य एव मये'ति चिन्तितम्।।
गत एकदा राजा तस्य पार्थे । सत्पुरुषस्तु नगरस्य प्रान्तभागे लघीयसो देवालयस्य परिसरे स्थित आसीत्। स च प्रणनाम राजा तं सद्भावेन । सत्पुरुषेणाऽपि तस्मै प्रदत्तमासनम्। घटिकाद्वयपर्यन्तमभूत् सत्सङ्गो द्वयोर्मध्ये। दर्शनमपि तस्य तृप्तिकरमासीत् तर्हि वार्तालापस्तु तेन कीदग्रूपः स्यात् ? राजाऽतीवप्रसन्नो बभूव । मनसि च 'सत्यमेवैष सत्पुरुषः । एषामर्थे तु कुत्राऽपि सुघटितां व्यवस्थां कृत्वाऽस्मिन्नेव नगरे दीर्धकालं यावदेतेषां स्थैर्यार्थं प्रयत्नः कर्त्तव्य' इत्यवधारितं तेन।
तद्दिने तु न तेन किमप्युचारितम् । पश्चादपि बहूनि दिनानि व्यतीतानि । स सत्पुरुषस्तु तत्रैव प्रसन्नमस्थात्। राज्ञा चैकं सुन्दरं हर्म्य निर्मापितं तदर्थम्। तत्परितश्च मनोहरस्यो-द्यानस्य रचनाऽपि तेन कारिता। स्वयं च राजप्रसादे यां यां सामग्रीमुपयुङ्क्ते सा सर्वैव तत्राऽप्युपस्थिता तेन। पश्चादाऽऽगत्य तं सत्पुरुषं तत्र हर्ये वासार्थं व्यजिज्ञपयत् सः । सत्पुरुषेणाऽप्योमित्युक्तम् | कथितं च यद्यस्ति तवेदृशीच्छा तमुहं तत्र निवत्स्यामि । तचित्ते तु सर्वत्र तुल्यत्वमेव वर्त्तते स्म । अतो राज्ञः कथनानुसारेण तेन तत्र निवास आरब्धः।
एवमेव मासद्वयं व्यतीतम्। सत्पुरुषस्तु नगरबहिःस्थदेवालयपरिसरे इवाऽत्राऽपिध्याने भगवन्नामस्मरणे च लीनः सन् कालं गमयति।
एकदा राजा तेन सार्द्ध पर्यटितुं गत आसीत् । मार्गे चिन्तयति राजा यद् - अहं यावता वैभवेन वसामि तावन्तं वैभवं त्वेष सत्पुरुषोऽप्युपभुङ्क्ते एव । ततः किमन्तरं मय्यस्मिंश्च ?' विचार एष इयान् प्रबलोऽभूद्यत् स तं सत्पुरुषं प्रष्टुमप्युत्सुकोऽभवत्। पृष्टोऽपि च सत्पुरुषस्तेन ।
Page #84
--------------------------------------------------------------------------
________________
श्रुत्वैतद् राज्ञश्चिन्तितं सोऽवक् - 'आवां किञ्चिदग्रं गच्छावः । पश्चाद् भवतः प्रश्नस्य प्रत्युत्तरं दास्यामि ।' गत्वा च कियडूरं सत्पुरुषः स राजानं प्रत्यवोचन् - 'राजन् ! इदानीमित आवामग्रमेव गच्छावः । अलं राज्येनतेन । वयं सर्वे हि भगवत्तत्त्वमेव साक्षात्कर्तुं इच्छामः न वा ? अहं तु तदर्थं त्वां मार्गमपि दर्शयिष्यामि।'
__ आकण्र्यैतद्वचनं सत्पुरुषस्य राजा विक्षिप्त इव बभूव । सहसैव सोऽचीकथत् - 'मया कथमागन्तव्यं भवद्भिः सह ? यद्यहमागमिष्यामि तर्खेतस्य राज्यस्य मम स्त्रीपुत्रादिपरिवारस्य च किं भविष्यति । मद्विना तु न ते किमपि कर्तुं समर्थीभविष्यन्ति । अतो नास्ति मेऽभिलाष इतोऽग्रे गमनार्थम् ।'
शीघ्रमेव सत्पुरुषो व्याजहार - 'मयि भवति चैतावदेवाऽन्तरं राजन् ! यद् - निर्बन्धमेवाऽहमितोऽग्रे गमिष्यामि परं त्वं तु पश्चाद्वलिष्यसि !
दन्तिनां दन्तघातस्य स्थानं नैरण्डपादपः॥
हेमवचनामृतम् ।।
Page #85
--------------------------------------------------------------------------
________________
७०
समर्पणम्
- मुनिरत्नकीर्तिविजयः प्राचीनेयं घटना।
तुर्क-ईरान' इत्यभिधानौ द्वौ देशौ । उभयोर्मध्ये कदाचित् किमपि निमित्तं प्राप्यं विग्रहो जातः । स चाऽन्तरविग्रहः कालान्तरेण युद्धरूपेण परिवर्तितः। भयानकं युद्धमपि सञ्जातम्।। परस्परमनेकशतजनानां मृत्युरपि बभूव । उभयोर्मध्ये ईरानदेशो बलवत्तर आसीत् । अतः स्वल्पेनैव कालेन स्वपराजयं मुखाग्रे एव प्रेक्षमाणाः तुर्कदेशीयाः खिन्नाः चिन्ताक्रान्ता इवाऽभवन् । तदैव सहसा...
ईरानदेशे एको महात्माऽऽसीत् । 'फरीदुद्दीन अत्तार' नामा स महात्मा तद्देशेऽत्यन्तं लोकप्रियः श्रद्धेयश्चाऽऽसीत् । सर्वत्र विहृत्य निर्निमित्तवात्सल्येन जनान् सन्मार्ग-मुपदिशति स्म स सदा। जना अपि तं स्वप्राणेभ्योऽप्यधिकं मन्यन्ते स्म।
एतादृशं तं महात्मानं युद्धकाले एव सहसा हस्तगतं कृत्वा कारागृहं नीतवन्तः तुर्कदेशीयाः सत्ताधीशाः । निरपराधिनेऽपि तस्मै महात्मनेः 'गुप्तचर' इति कृत्वा मृत्युदण्ड आदिष्टस्तैः।। वैरभावेन प्रज्जवलदन्तःकरणास्ते सदसद्विवेकादपि च्युता इव बभूव ।
वृत्तान्त एष प्रसृतो वायुवेगेन ईरानदेशे सर्वत्र यद् - 'अस्माकं महात्मानं तुर्कसत्ताधीशाः प्राणदण्डेन दण्डयिष्यन्ति इति । सर्वा अपि प्रजा दुःखपीडिताः शोकाकुला इव बभूवुः।
धनाढ्येनैकेन सन्देशः प्रेषितः तुर्कदेशे यद् - 'अहं युष्मभ्यं तन्महात्मनो भारेण तुल्यानि रत्नमौक्तिकादिधनानि दास्यामि, किन्तु कृपया तं महात्मानं मुञ्चत । सन्देशस्यैतस्य न कोऽपि सन्तोषकारकः प्रत्युत्तरः प्राप्तः। अतः पुनःप्रयासार्थं समस्ताभिः ईरानप्रजाभिरेवमभ्यर्थिताः तुर्काधीशाः यद् 'यथेच्छं गृह्णीताऽस्माकं प्राणान् किन्तु माऽस्माकं महात्मानः किञ्चिदप्यघटितं कुरुध्वम् ।'
किन्तु नैतादृशमपि तेषां सद्भावं दृष्ट्वा ते लेशमपि द्रवीभूताः । अतोऽन्ततोगत्वा ईरानदेशाधिपतिना स्वकीयं दूतं प्रेषयित्वा एवं सन्देशः कथितः ''यद्यस्त्यस्मद्राज्ये तव वाञ्छा तर्हि सुखं गृहाणेदं समग्रमपि ईरानराज्यम् । किन्त्वस्माकं तं सत्पुरुषं त्वं बन्धनाद् मुञ्च ।" अनेन च कथने विस्मयं प्राप्तः तुर्काधीशः। किमप्यगृहीत्वैव तत्क्षणं तं सत्पुरुष सादरं मुक्तवान्।
A
maharastraginiNIRAHARMAAN
Page #86
--------------------------------------------------------------------------
________________
७१
सर्वत्र ईरानदेशे उत्सववद्वातावरणं सञ्जातम्।
पश्चाद् यदा स तुर्काधीशः ईरानस्याधिपतिममिलत् तदा तमपृच्छत् 'युद्धेनाऽप्यस्माभिर्यद् राज्यं न प्राप्तं तद्राज्यं तु त्वमस्य महात्मनोऽर्थे त्यक्तुं निर्णीतवान् खलु ! कीदृशमेतत् ?
तदा सगौरेवं तेन प्रत्युत्तरः प्रदत्तः ''भो ! राज्यादिकं तु सन्ध्यामेघस्य रागवत् चञ्चलं नश्वरं चाऽस्ति । किन्त्वेष सत्पुरुषस्त्वस्माकं गुरुजीर्वनाधारश्चाऽस्ति । तदर्थे तु वयं सर्वस्वमप्यस्मत्प्राणपर्यन्तं समर्पयितुं समर्था एव । किमेतेन तुच्छप्रायेण राज्येन ?'
श्रुत्वैतत् श्रद्धावचनं तस्य स तुर्काधीशः साश्चर्यं सादरं तमभ्यनन्दत् ।।
| गोपुच्छलग्नो हि तरेन्नदीं गोपालबालकः ॥ |
हैमवचनामृतम् ।।
Page #87
--------------------------------------------------------------------------
________________
७२
र काव्यानुवादः
- मुनिधर्मकीर्तिविजयः
है।वर,
on તો મને છાત્રીજ બનાવ
ૐ ન તો મરે શ્રીમંત બનાવ 3મ છે,
જ હું થાવરીબ હીરા तो, मन योरी Seald मन थरी,
तनं माथ्वी 64R Haasaai Hiz __ अपमान Clu0. अने,
vid as laid Gloliday तो, श्रीनl deal & not a quit F8A.
विभो!
न मां दुर्गतं कुरु
न श्रीमन्तमपि मां कुरु यतः
यद्यहं दुर्विधो भवेयम्
तर्हि चोरयितुं मे मानसं प्रयतिष्यते। বুবুথু
अस्यां पृथिव्यां मम जन्मदातृरूपेण त्वं
कलङ्कमनुभविष्यसि। तथा
भवेयं श्रीमान् यद्यहं तर्हि लक्ष्मीमदेन उन्मत्तोऽहं त्वामेव विस्मरिष्यामि।
Page #88
--------------------------------------------------------------------------
________________
७३
। मर्म-नर्म
=
पारितोषिकम् पितः ! स्मरति भवान् यद् गते वर्षे भवता उक्तं 'यदि त्वं दशमकक्षायां उत्तीर्णो भविष्यसि तर्हि यथाकामं पारितोषिकं ते ददामि' इति ?
'बाढं स्मरामि भोः!'
तर्हि अस्मिन् वर्षे दशमकक्षायामहमुत्तीर्णो भवेयं तदा भवानं किं दापयिष्यति मह्यम् ?
'द्विचक्रं यानम्। अथ केनचितं कारणेनाऽनुत्तीर्णः स्यां तदा ? 'तदा तु त्रिचक्रं वाहनम्।
वयं असाम्प्रदायिका ननु ! ननु पूर्वमस्माकं शालासु शिक्षका पाठ्यन्ति स्म यद् 'ग गणपतेः ग' इति। अधुना तु किमर्थमित्थं पाठ्यते - ‘ग गर्दभस्य ग' इति ?
भो ! इयदपि न बोधसि ? । अरे ! अस्माकं राष्ट्रं असाम्प्रदायिकतानीति वृतमस्ति । अतोऽत्र राष्ट्रे गणपतिर्हि देवत्वेन साम्प्रदायिकः पदार्थोऽस्ति । गर्दभस्तु नितरामसाम्प्रदायिकः, पशुत्वात् । अतः कारणादेवेत्थं परिवर्तनं दरीदृश्यते खलु ।
-विजयशीलचन्द्रसूरिः
Page #89
--------------------------------------------------------------------------
________________
७४
-
- मुनि रत्नकीर्तिविजयः __ वायुयाने पञ्च प्रवासिनः प्रवसन्ति स्म । एको वैज्ञानिकः द्वितीयः साहित्यकारः, तृतीयः सरदारः, चतुर्थोऽध्यापकः, पञ्चमश्च विद्यार्थी । षष्ठस्तु यानचालक आसीत्। - याने सहसैव काचित् क्षतिः सम्भूताः । न कोऽप्यवकाशोऽवशिष्टस्तस्य रक्षणे । अतो वायुच्छत्र(पेराशुट)द्वाराऽधउत्तरणमेवोपाय आसीत् । किन्तु षण्णां मध्ये पञ्च एव वायुछत्राण्यासन्। अधुना किं कर्त्तव्यम् ?
किञ्चिद् विचार्य निजकार्यस्य महत्त्वं प्रस्थाप्य वैज्ञानिक एकं वायुछत्रं गृहीत्वाऽधोऽवातरत् । तत्पश्चाद् झटित्येव साहित्यसेवार्थं बहुमूल्यं स्वकीयं जीवनप्रिति प्रस्तुत्य साहित्यकारोऽप्यवतीर्णवान् । यानचालकस्तु मृत्युभयादेव वायुछत्रं गृहीत्वा निर्गतः सरदारस्तु कस्मैचिदपि किञ्चिदप्यनुक्त्वैवाऽवतीर्णः ।
अथतत्र द्वावेव विद्यार्थी अध्यापकश्चेति स्थितौ । इदानीमेकमेव वायुच्छत्र-मवशिष्टमिति विचार्य विद्यार्थिनेऽध्यापकोऽकथयत् - अध्यापकः वत्सं ! अहं वृद्धोऽस्मि । अतो नास्ति मे जिजीविषा । त्वं तु बालः, दीर्घ
च जीवितं तव । अतस्तमेवाऽशिष्टं वायुच्छत्रं गृहीत्वाऽवतर।
(श्रुत्वैतत् स्नेहपूर्वकं कथनमध्यापकस्य) विद्यार्थी ___ अवदत्- पूज्य ! मत्पार्श्वे द्वे वायुच्छत्रे स्तः। अध्यापकः (साश्चर्यम्) किं किं ? केन प्रकारेण ? पञ्चैवाऽऽसन्, चत्वारो जनास्तु
गता अपि!। विद्यार्थी एवं न । अस्माभिः सार्धं यः सरदार आसीत् स मम विद्यालयस्य स्यूतं गृहीत्वा गतवानस्ति !।
| शिक्षक : कथयैकं मरुप्रदेशीयप्राणिनो
नाम। विद्यार्थी : उष्ट्रः। शिक्षक : अन्यत्कथय।। विद्यार्थी : अन्य उष्ट्रः।
V
51
Page #90
--------------------------------------------------------------------------
________________
७५
. . . . . . . . .(१)...
समीरः मया धावनस्पर्धायां घटिका प्राप्ता। चेतनः चारु चारु, किन्तु कियन्तः स्पर्धकाः तत्राऽऽसन् ? समीरः चत्वारः। चेतनः कः कः ? समीरः घटिकास्वामी, तस्य किङ्करः,
आरक्षकस्तथाऽहम् । . . . . . . . . . . . . . .(२). . . . . . . . निशान्तः किं भवितुमिच्छुकस्त्वम् ? श्रेयसः वायुयानचालकः। निशान्तः कथम् ? श्रेयसः मम शिक्षकः कथयन्नासीत् यद्,
त्वं भूमौ भाररूपोऽसि ।
. (३) राष्ट्रनेताः कथं स्थिरीभूतं यानम् ? चालक:
भो ! यानचक्राद्वायुर्निगतः । राष्ट्रनेताः विरोधपक्षस्य हस्तक्षेपोऽस्तीति मन्येऽहम् । चालकः न हस्तक्षेपः, अपि तु विरोधपक्षस्य
कीलिकाक्षेपोऽस्ति।
...(४).. रमेशः प्रभो ! सर्वेभ्यः सबुद्धिं प्रदेहि। मिहिरः ''ते विना'' |
रीतेशः श्रेयसः
किं पशूनां चिकित्सकस्त्वम् ? आम्, आम् कथय को रोगोऽस्ति तव ?
- मुनि धर्मकीर्तिविजयः
Page #91
--------------------------------------------------------------------------
________________
७६
हास्यं निषिद्धम् वृद्धा
वैद्यराज ! ममाऽयं अधस्तनस्तृतीयो दन्तो मुंश पीडयति ।
कमप्युपायं कुरु। दन्तचिकित्सक : मातः! मुखमुद्घाटय; पश्यामितावत्। (पश्यति) हुम्...शटितोऽयं
दन्तः निष्कासयितव्यः । मुखमुद्घाटय मातः !
(मुखमुद्घाटयति सा) दन्तचिकित्सक : अम्ब ! किञ्चिदधिकं विस्तारय । आऽऽऽ..इति। वृद्धा
(विस्तारयति ।) आऽऽऽऽ...। दन्तचिकित्सक : मातः ! इतोऽप्यधिकम्।।
(पुनर्विस्तारयति सा।) दन्तचिकित्सक : मातः ! इतोऽप्यधिकं किञ्चित्... वृद्धा
(क्रुद्धा) रे रे पुत्रक ! किं मम मुखमध्ये उपविश्य दन्तं निष्कासयिष्यसि ?
वेगड : पाण्डे ! अरण्यमध्ये गच्छन्तं त्वां यदि व्याघ्रो मिलेत् तर्हि त्वं किं
कुर्याः? पाण्डे
भोः! तदा नाऽस्ति मया किमपि कर्तव्यं ! यत् कर्तव्यं तत् स एव करिष्यति !!
पुत्र : (गायकं पितरं) पितः ! अद्य एतौ द्वौ चन्द्रको भवता किमर्थं
प्राप्तौ ? . पिता पुत्र ! श्रृणु । एष लघुचन्द्रकस्तावद् गानार्थं प्राप्तः । अयं च
बृहचन्द्रको झटिति गानस्य स्थगनार्थम्।
- मुनि कल्याणकीर्तिविजयः
Page #92
--------------------------------------------------------------------------
________________
१. प्रबन्धसौधः
संस्कृतेन निबन्धान् लिखितुं ये जना इच्छन्ति तेषां सर्वेषां कृते मार्गदर्शिनः पञ्चाशदादर्शप्रबन्धाः परिशुद्धया
सरलया च संस्कृतभाषया प्रसन्नया च शैल्याऽस्मिन् ग्रन्थे आलेखिताः सन्ति ।
ग्रन्थपरिचयः
२. पत्रसौधः
अस्मिन् ग्रन्थे संस्कृतभाषया पत्रव्यवहारं चिकीर्षूणां सर्वेषामपि जनानां कृते त्रिपञ्चाशद् वैयक्तिकानि पत्राणि, चतुस्त्रिशद् व्यावहारिकाणि च पत्राणि शैथिल्यरहितया दृढया वाक्यशैल्या, प्रसन्नया शुद्धया च संस्कृतभाषया आलेखितानि सन्ति ।
एतादृशो ग्रन्थद्वयस्य रचयित्रे अभिनन्दनसहस्रावलिः ।
ग्रन्थद्वयस्याऽपि -
लेखक : विद्वान् एस्. जगन्नाथमहोदयः प्रकाशक : सुरभारती प्रकाशनम्
115/17 KATTARIGUPPE B.S.K.III Stage, Banglore 560085 मूल्यम् - ३०/- रू.
७७
Page #93
--------------------------------------------------------------------------
________________
७८८
Home
प्राकृत विभागः
Page #94
--------------------------------------------------------------------------
________________
प्राकृत विभाग:
संवेगमंजरीकुलयं
AND
- मुनि कल्याणकीर्तिविजयः
अह विसयाण तुच्छत्तणं तप्पडिबद्धस्स य नियजीवस्स मूढत्तणं विचिंतेइ -
कोडिं वराडिअकाए हारेसि दहेसि चंदणतरुं पि। छारकए विक्किणसि अ तणेण कप्पतरूं मूढ ! || ५॥ जं विसमविससरिच्छेसु तुच्छविसएसु लालसो होउं । न करेसि सिववहू-संगमिक्कदूअं तवं विउलं ।। ६ ।।
अन्वयः
भावार्थः
रे मूढ ! जं(तं) विसमविससरिच्छेसु तुच्छविसएसु लालसो होउं सिववहूसंगमिक्कदूअं विउलं तवं न करेसि, (ता) वराडिअकए कोडिं हारेसि, छारकए चंदणतरुं पि दहेसि, तणेण अ कप्पतरुं विक्किणसि। रे मूढ ! जं तं आवायमहुरेसु परिणामदारुणेसु दुरंतविसतुल्लेसु तुच्छेसु इंदिअविसएसु लालसावंतो होऊण सिववहुए सह संगमकरणे यसरिसं - मुक्खगमणे मग्गसरिसं विउलं बज्झं अभिंतरं च तवं न आचरेसि; ता कोडिसुवण्णसरिसं मुक्खसाहगं मणुस्सभवं वराडियतुल्ल-तुच्छविसयाण कए हारेसि, अवि य नाण-झाणाइसुगंध-उवसमसीयलयाजुत्तं चंदणतरुसारिच्छं मणुस्सभवं भास-छारतुल्लाण तुच्छविसयाण कए दहंतो सि, तहा विसालसग्गापवग्गसुहलक्खणफलदायगं कप्पतरुसमं मणुस्सभवं तिणतुसतुल्ले हिं तुच्छेविसएहिं विक्किणंतो मुरुक्खाण सेहरो व्व लोयम्मि हसणिज्जो भवसि।
विसयसेवणस्स निप्फलत्तणं दरिसेइ - जलपडिबिंबिअतरुअरफलेहिं को णाम पाविओ तित्तिं ? | सुमिणोवलद्धअत्थेण ईसरो को व संजाओ ?।। ७ ।।
Page #95
--------------------------------------------------------------------------
________________
८०
अन्वयः
भावार्थः
अन्वयः
जलपडिबिंबअतरुअरफलेहिं को णाम तित्तिं पाविओ ? सुमिणोवलद्धअत्थेण वा को ईसरो संजाओ ? | तलायजले पडिबिंबआई तीरठियरुक्खाण फलाइं आसाएउं किं को वि तित्तिं पावेइ? ण पावेइ। सुमिणे पत्तेण विसालधणनिहिणा वि किं को वि महड्डिओ हवइ ? ण चिय हवइ । एमेव एएहिं मियजलतुल्लेहिं निप्फलेहिं विसएहिं सेविएहिं न को वि संतुहिँ अणुहवइ णावि य किंचि अत्थं पसाहेइ, किं तु तस्स तण्हा चिअ वड्ढइ। जह विसयसेवणं निप्फलं ता केण कएण सेविएण वा जीवो सुहं पावेइ ? किं वा सुहाण बीअभूयं कारणं ? इइ पुच्छिए धम्मस्स चिय सयलाण सग्गापवग्गसुहफलाणं मूलकारणत्तणं इइ वइरेगमुहेण उवइसइ - कस्स वि निब्बीआई सित्ते रोहंति सयलसस्साइं?। को वा धम्मेण विणा वि भायणं होइ सुक्खाणं? ॥८॥ निब्बीआई सयलसस्साइं सित्ते कस्स वि रोहंति ? धम्मेण विणा वा को वि सुक्खाण भायणं होइ? बीयं अवविऊण च्चिय जलसिंचणेण किं को वि सस्साई पावेइ ? न चिय पावेइ । एवं धम्मबीए अवविए किं को वि कहमवि सुहाई पावेइ। न चेव पावेइ। जो धम्मस्स आराहणं करेइ सो चिय सुहाण भायणं होइ । अओ सयलसुहत्थिणा धम्मो चेव कायव्वो। सुहत्थिणा धम्मो च्चिय कायव्वो। किंतु धम्माणुठाणेसु सुहजोगाण य आसेवणे जीवस्स अलसत्तणं सुपसिद्धमेव । किं तु भावणाभावणं तु सुहकरणिज्जं । अओ जीवं निब्भच्छिउण भावणं भावेउं पेल्लेइ।। सत्तो वि तवं तविउं सुअंच पढिउं चरित्तमवि चरिउं । जइ न तवसि न पढसि नेव चरसि सुहलालसो संतो
॥ ९॥ ता किं थिरचित्तो सत्तुमित्तमयं विहाय खणमेगं । भावेसि भावणं नेव जीव ! निल्लज्ज ! कइया वि?
॥१०॥
भावार्थः
Page #96
--------------------------------------------------------------------------
________________
८१
अन्वयः
भावार्थः
(रे जीव ! तं) तवं तविउं, सुअं पढिउं, चरित्तमवि चरिउं च सत्तो वि सुहलालसो संतो जइ न तवसि, न पढसि नेव (य) चरसि ता (रे) निल्लज्ज! खणमेगं सत्तुमित्तमयं विहाय थिरचित्तो (होऊण) किं कइया वि भावणं नेव भावेसि ? रेजीव ! असुहजोगेसु दिट्ठपरक्कमो वितं विसयसुहलोलुओ संतो अलसत्तणेण गुरुवदिढे सुअज्झयण-तव-चरित्ताइसुहजोगे नेव आयरसि तं तु कामं, किं तु सुहभावणाण चिंतणं तु सुकरं चेव। तत्थ न को विपरिस्समो कायव्वो। ता रे निल्लज्ज ! कइया वि एसो मे सत्तू एसो य मित्तो, अहं एयस्स सत्तू मित्तो वा, इदंमज्झ इदंचन मज्झ इचाइयं अहिमाणपूरिअं असुहचिंतण निरंभेऊण एगं खणं थिर-सत्थचित्तोहोऊण अणिचाइभावणाहिणियचित्तवित्तिं किमत्थं निम्मलं न करेसि ? ||
जस्स धिई तस्स तवो जस्स तवो तस्स सोग्गई सुलहा। जे अधितिमंतपुरिसा तवो वि खलु दुल्लहो तेसिं ।
श्रीदशवैकालिकवृत्तौ।
Page #97
--------------------------------------------------------------------------
________________
८२
-
-
-
--- मुनि कल्याणकीर्तिविजयः
HATH
सोत्थिसिरि णवखंडपासणाहं हिअयंमि पणिहाय
परमगुरुसिरिविजयणेमिसूरीसरं च वंदिऊण आणंदो धम्मलाहेण TM संभाविज्जइ मुणिकल्लाणकित्तिणा। सिरि आणंद !
पुज्जगगुरुभगवंताण पुण्णनिस्साए अम्हे सव्वे वि सुहं ठिआ णिरामया वट्टामो । तं पि कुसली हवेज्ज।
पुव्वपत्तंमि मए किं चि देवसरूवं लिहि, तहा तस्साणाए पालणमेव तस्साराहणं, तप्फलं च संसारक्खओ इइ वण्णिअं। अह तस्स देवस्स आणा का ? इइ पण्हो उठेइ । तस्समाहाणमेवं
एत्थ किर लोयम्मि पयत्था तिविहा हवंति । केइ णेया, केइ हेया केइ य उवाएया। तत्थ लोगसरूवं णेयं आसवो हेयो संवरो य उवाएयो इइ भगवंतस्स आणा। तत्थ लोग-सरूवं अण्णया कयाइ जाणाविस्सं।
आसवसरूवं एयं - जहा सव्वओ दारेहिं आगच्छंतेण जलेण तलायं भरिज्जइ एवं जीवो वि पइसमयं विविहेहिं दारेहिं आगच्छंतेण कम्मजलेण पूरिज्जइ । एत्थ जाइं दाराइं ताई चिय आसवसद्दवच्चाई। मिच्छत्तं, अविरई, कसाया, जोगा य आसवस्स भेया। अण्णहा वि आसवस्स भेया एवं कहिआ - इंदियाइं, अव्वयाई, कसाया, जोगा, असंतकिरिया य। अहवा जाए कयाए कम्मबंधो हवइ सा सव्वा वि किरिया आसवो । सो य भवहेऊ। एसो आसवो सव्वहा चएअव्वो इइ सिरिजिणिंदाण आणा। किंतु अम्हारिसेहिं हीणसत्तेहिं सो सव्वहा चइउं न सक्को । अओ जेण जेण पयारेण सो चइज्जइ तेण तेण पयारेण जिणिदाणं आणा पालिया चिय हवइ। तहा य ताए पालियाए तेण पयारेण संसारस्स-कम्मस्स य खओ वि हवइ।
संवरसरूवं एयं - जाए किरियाए आसवदाराण रोधो हवइ, तहा य कम्मबंधो वि निलंभिज्जइ सो संवरो कहिज्जइ । तस्स वि समिइ-गुत्ति-परीसह-जइधम्म-भावणाचरित्तरूवा छ भेया। एसो संवरो सव्वहा उवाएयो इइ जिणेसराण आणा । संवरो य एसो जहा जहा आयरिज्जइ तहा तहा जिणेसराण आणा पालिया हवइ । ताएय पालियाए कम्मक्खयकमेण संसारो वि लहूहवइ।
Page #98
--------------------------------------------------------------------------
________________
एयं आणं सम्म पालेता अणंता जीवा कम्माणि खविऊण मोक्खं पाविया, अन्ने के वि अज्ज वि पावेतिं, अवरे वि य अणंता पाविस्संति।
अह जिणिदेहिं धम्मस्स अणेगे भेया कहिआ। किंतु तत्थ अहिंसा दया च्चिय पहाणो धम्मो । अण्णे सव्वे वि वय-नियमा अहिंसाव्वयस्स संरकख्णत्थमेव भणिआ । तह वि केइ भेए भणामि। तत्थ दुविहो धम्मो सुयधम्म-चरित्तधम्मभेएण हवइ। तिविहो धम्मो अहिंसा-संजमतवभेएहिं हवइ । चउव्विहो धम्मो दाण-सील-तव-भावभेएहिं हवइ । एवं जइधम्मो दसविहो हवइ । इच्चाईया अणेगे भेया धम्मस्स संति । किं तु सव्वे वि अहिंसाए साहगा।
(आसव-संवराण अहिंसाए य विसेसं सरूवं अवसरे लेहिस्सं।)
अह सिरिजिणेसरभगवंतोहिं अम्हाण उवरि अणेगे उवगारा कया । अओ तेसिं बहुमाणनिमित्तं अम्ह कयन्नुयं च दरिसेउं तेसिं पूया कायव्वा चेव । पूया य दुविहा हवइदव्वपूया भावपूया य । तत्थ गिहत्थाणं दोसु वि पूयासु अहिगारो, साहूणं तु भावपूया चेव अहिगया।
एसो लोयपसिद्धो नियमो जं ण्हाणं काऊण च्चिय देवाणं पूया कायव्वा । अओ एत्थ वि पहाणं काऊण भगवंताण पूया कायव्वा । एत्थ पण्हो हवइ णणु गिहत्था पहाणं काउं अरिहंति, साहूणं तुं पहाणं निसिद्धं, तया तेहिं कहं पूया कायव्वा ?
अस्स समाहाणं, पूयापयारे, पूयाविहिं च अण्णम्मि पत्ते लेहिस्स ति सं।
| गुणसुट्ठिअस्स वयणं घयमहुसित्तो व्व पावओ भाइ। गुणविहीणस्स न सोहइ णेहविहीणो जह पईवो ॥
श्रीदशवैकालिकवृत्तौ।
Page #99
--------------------------------------------------------------------------
________________
वंचणानिउणो सप्पो
मुनिधर्मकीर्तिविजयः आसि वरुणायलनियंबम्मि एगम्मि पयेसे परिणयवयो मंदविसो नामगो किण्हसप्पो ।
कहं ममए सुहोपायवित्तीइ वट्टणीयं इइ चिंतयन्तो सो एगया बहुमंडूअस्स दहस्स समीवं गओ । तया उदगंतगयेण एगेण मंडूकेण सो सप्पो पुच्छिओ।
किं अज्ज यथापुव्वं आहारत्थं मं बोल्लावेइ ? |
तया सो सप्पो आह - भद्द ! कदो आहाराहिलासो मम मंददइवस्स । जदो कारणत्तो गयाअ रत्तीइ पओसे मे भोयणत्थं विहरन्तेण अवेक्खिओ एगो मंडूओ। तग्गहणत्थं मे पाओ सज्जिओ। तया मं देक्खिऊण संझापूआपराण बंभणाणं मज्झे सो मंडूओ मच्चुभयेण पविट्ठो । सो कुत्थ गओ, इइ ममाइ ण विभाविओ।
एत्थंतरे च्चिअ कस्स वि बंभणस्स पुत्तस्स अंगुट्ठो मे दंसिओ, जओ सरिच्छत्तणस्स विमोहिअचित्तेणं । झगिति सो बंभणबालो पंचत्तणं उवागओ।
तदो तस्स दुहियेण जणगेण सपिओ हं जं, 'दुट्ठ ! ते मे निरवराही सुओ दंसिओ, एअण दोसेणं तुमं मंडूआण वाहणं हविस्ससि, तप्पसाओणं लब्भेणं आहारेण तुमं जीविस्ससि
इइ।"
अओ परं तुमाण वाहणत्थं आगओ म्हि हं । मंदविसेण सप्पेण भासिअं एअं वयणं निसमिऊण तव्वयणं सद्दहन्तो सो मंडूओ अप्पणीये णेहिजणे परिगहितूण गओ । तदो पहरिट्ठचित्तेहिं सव्वेहिं । 'जलपाओ' नामओ ददुरराया विन्नविओ।
___ अह 'सुठु सुटु' एवं वदन्तो सो राया वि अप्पणीयपरिवारवेडिओ ससंभमं दहत्तो बाहिरं आगमिअ मंदविसस्स सप्पस्स सिसोवरि आचडिओ। एवं अन्ने सव्वे वि मंडूआ तस्स पिट्ठस्स उवरि विलग्गिआ । किं बहुणा वयणेण? ठाणं अपावन्ता सव्वे मंडूआ वि तस्स सप्पस्स अनुपहं चलिआ। तेसिं तोसणटुं विविहगईपुव्वगेण सो मंदविसो सप्पो चलिओ।
अह एगया कवडेन मंदविसो मंद मंद विसरिओ। तं देक्खिऊण जलपाओण' बोल्लिअं
Page #100
--------------------------------------------------------------------------
________________
८५
- भद्द ! कहं यथापुव्वं अज्ज न वहेसि मं।
मंदविसेण जंपिअं-देव ! अज्ज भोयणाभावत्तणेण तुम्हे वहणकरणस्स नत्थि सत्ती। जलपाअण कहिएं-भद्दा ! किं चिंतेसि, भक्खिसु बालमंडूगे।
तव्वयणं सुणिअ आणंदिअमणसो पुलकिअतणू सो मंदविसो ते भक्खिउं पवट्टिओ। एवं पइदिणं मंडूगे भक्खयन्तो समंदविसो कइपयेहिं दिणेहिं च्चिअसारवन्तो हविओ। मंदविस्स महुरवयणेण विमोहिअचित्तो किमवि न अवबोहिओ जलपाओ वि ।
अन्ते, कमेण सव्वे मंड्रगे भक्खयन्तो सो सप्पो एगया 'जलपाअं' वि गलइ। किं बहुणा? तह तेणं सप्पेण दद्दुरा भक्खिआ जह ताण बीयमत्तं वि न अवसिटुं।
| जे चेव रक्खगा ते चेव लोलगा कत्थ कुविउं सक्का? | उदगाउ समुज्जलिओ अग्गी किह विज्झवेयव्वो ? |
श्रीदशवैकालिकवृत्तौ।
Page #101
--------------------------------------------------------------------------
________________
Page #102
--------------------------------------------------------------------------
________________