SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २० अस्यां श्रीत्रैशलेयप्रभोः पट्टपरम्परायामस्मिन् शतके गुर्जरदेशेऽहङ्कारविरहितज्ञानवन्तो निर्मलचारित्राराधका: शास्त्रनिष्ठजीवना न्यायविशारद-सिद्धांत-वाचस्पतिपूज्यपादाचार्यमहाराजश्रीविजयोदयसूरीश्वरगुरुभगवन्तोऽवातरन्। तैः पूज्यपादैः श्री विजयोदयसूरीश्वरभगवद्भिः जिनशासनस्याऽनुपमा सेवा कृता । न कदापि विस्मर्तुं शक्यते तेषां पूज्यपादानामुपकारः । 'न्यायमार्तण्ड-महोपाध्याश्रीयशोविजयेभ्यः पश्चादद्यप्रभृति पूज्यपादश्रीविजयोदयसूरीश्वरतुल्या बहुश्रुत-गीतार्थशिरोमणिविद्वन्महापुरुषा न भूताः तथाऽऽगामिनि काले ईदृशाः प्रतिभासम्पन्नमहापुरुषा भविष्यन्ति न वा'' एवं जिनशासनाग्रणीश्रेष्ठिना कथितम् । एतत्कथनेनैव ज्ञायते, यत् ते पूज्यपादाः कीदृशा महापुरुषा आसन्। तेषां महापुरुषाणां चरित्रलेखनं मादृशां तु समुद्रतटे स्थित्वा सिन्धोः गांभीर्य मातुं प्रयत्न इव, दीपं गृहीत्वा सूर्यं मार्गयितुं प्रयत्न इव च चेष्टाऽस्ति। तथापि सज्जना उदारचित्ताः सन्ति, न कदापि बालकस्य चेष्टामवगणयन्ति ते, एवं मन्येऽहम्। कथितं च - किं बाललीलाकलितो न बालः। पित्रोः पुरो जल्पति निर्विकल्पः ? | अतोऽत्रापि 'सज्जनपुरुषा ममाऽप्येतां बालचेष्टां स्वीकुर्वन्तु' इत्यहं विज्ञपयामि। प्रान्ते - 'महापुरुषाणां गुणकीर्तनमपि कर्मक्षयस्य निदानम्'' इति परमश्रद्धयैव पूज्यपादानां श्रीविजयोदयसूरीश्वरगुरुभगवतां किञ्चित् जीवनचरित्रं लिखितुं प्रयतेऽहं बालबुद्धिः। जन्म अस्तीहैव जम्बूद्वीपे भरतखण्डे गुरुगुणगणगौरववति गूर्जरदेशे परमपुण्यसौधमेकं 'श्रीस्थंभतीर्थ' नामकं नगरम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy