SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ चरित्र कथा न्यायविशारद - सिद्धान्तवाचस्पति - पूज्यपादाऽऽचार्यवर्य श्रीविजयोदयसूरीश्वराणां जीवनगानम् - मुनिधर्मकीर्तिविजयः , अस्ति जिनशासनस्याssधारो देवो गुरुः धर्मश्चैवं तत्त्वत्रिकम् । तत्राप्यस्मिन् काले विशेषेण गुरुतत्त्वस्य माहात्म्यमस्ति यत एतदेवाऽन्यस्य देव-धर्मस्वरूपतत्त्वस्य प्राप्तौ प्रधानं कारणमस्ति । साम्प्रतं देवा अपि बहवः धर्मा अपि भिन्ना भिन्नाः सन्ति; तत्र को देव आराध्यः को धर्म उपादेयश्चेति ज्ञातुं गुरुरेव समर्थोऽस्ति । अधुना श्रीजिनेश्वराणां केवलज्ञानिभगवतां च विरहेऽस्माकं सन्ति गुरव एवाऽऽधारभूताः। जिनागमस्य गूढरहस्यमगम्यतत्त्वं च ज्ञात्वा जिनेशप्ररूपिते मार्गे - ऽस्मादृशान् जीवान् स्थिरीकारकास्ते गुरव एव सन्ति । यदि न गुरुभिः जिनमार्गो रक्षितः स्यात् तर्हि वयं सर्वेऽप्यज्ञान - मोहाहङ्कारादिरूपान्धकारे एवेतस्ततोऽटन्तः स्याम । इदानीं भवाटवीमुल्लङ्घयितुं गुरव एव पथदर्शकाः सन्ति । अस्मिन् काले न संभवत्येवा-ऽस्मादृशानां वामुद्धा गुरुं विना । अतस्तेषां गुरुणां प्रतिपत्तिरेव मोक्षमार्गप्राप्तेरमोघं कारणमस्ति। गुरुः कः ? 'गु' शब्दस्त्वन्धकारे स्यात् 'रु' शब्दस्तन्निरोधकः । अन्धकारविरोधित्वात् 'गुरु' रित्यभिधीयते ॥ १९ अपाकरोति योऽविवेकमानादिदुर्गुणरूपान्धकारं स गुरुः । यः स्वयमब्धौ निमग्नः स अन्यान् समुद्रपारं कर्तुं न समर्थः । स तु स्वयं निमज्जति, अन्यानपि निमज्जयति । अत एतच्छ्लोकेन ज्ञायते यद्, यो गर्व-क्रोध- अज्ञान - दम्भ-प्रपञ्च - असूया - कदाग्रहमहत्त्वाकाङ्क्षादिदुर्गुणान्धकारविरहितः स एव गुरुत्वेन कथयितुं शक्यः । किञ्चैतादृशां गुरूणां निरतिचार - विशुद्धचारित्रपालनेन विवेकान्वितज्ञानप्रभावेण चैवाऽद्यपर्यन्तं श्रीमहावीरप्रभोः शासनं निर्बाधत्वेन निष्कलङ्कतया च प्रवर्तते । अन्य-दर्शनीयैः परधर्मिनृपतिभिश्च जिनशासनं कलङ्कयितुं नैके प्रयत्नाः कृतास्तथाप्येभिः गुरुभिः जिनशासनस्य सर्वोपरित्वं यथातथमेव रक्षित्वा शासनस्योद्योतः कृतः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy