________________
१८
-जगद्गुरु-अष्टकम्
-विजयशीलचन्द्रसूरिः
॥ १॥
॥२॥
॥३॥
||४||
श्रीहीरविजयसुगुरुं गुरुगणगुम्फितं जगन्महितम् । हितकरमतुलप्रभावं भावाङ्कितचेतसा वन्दे वन्देऽमन्दानन्दं नन्दनवनमिव प्रसन्नतानिभृतम्। भृतमपि विशुद्धसंयम - यमनियमै रसूरिवरम् वरशिष्यपरिकरान्वित-विततगणाधीश्वरं तपोनिरतम्। रतमविरतमात्महिते हिताहितज्ञं स्तुवे गुरुं हीरम् हीरकरत्नसमानम- मानमनोरमविशुद्धदीप्तिगृहम् । गृहमतिशयितविमलता-लतावितानस्य, हीरप्रभुम् प्रभुमकबरनामानं मानोन्नतमखिलदेशभूपपतिम् । पतितमपि प्राणिवधे वधतो विनिवारकं नौमि नौमि च शत्रुञ्जयगिरि-गिरिनारप्रमुखभूरितीर्थेषु । तीर्थेषु भवे भविनां भविनां यात्राप्रवृत्तिकरम् करमोचनकर्तारं कर्तारं गोवधस्य प्रतिबन्धनम् । बन्धनमुक्तेर्डाबर-वरसरसी-यादसां प्रणेतारम् नेतारं तपगच्छे गच्छानां निर्मले तथा श्रेष्ठे। श्रेष्ठं साधुसमुदये उदयन्तं स्तौमि हीरसूरीशम्
||५॥
युग्मम् ।।
॥ ६॥
|| ७
॥
॥८॥ विशेषकम् ।।
फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत्॥
हैमवचनामृतम्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org