SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५२ द्वेषः, अरुचिः वास्ति, तं प्रति कदापि प्रमोदादिभावा नोद्भवन्ति । तत एव श्रीमहावीरप्रभुणा मैत्री भावना प्रथमा वर्णिता।। किञ्च, मोक्षमार्गस्वरूपशिखरस्यैता भावनास्तु सोपानरूपाः सन्ति । आद्यसोपानस्याऽऽरोहणं विना न कदाचिदपि शिखरस्य प्राप्तिः शक्या । आद्यं सोपानमस्त्यत्र मैत्री। अत एव यदि मैत्री साधिता तर्हि मोक्षसुखं सिद्धमेवाऽस्ति। पुनः, मैत्र्यामेव जिनप्रणीतधर्माराधनायाः सकलमपि तत्त्वं समाविष्टमस्ति । मैत्री विना कृताः सर्वा अप्याराधना निष्फलाः-वन्ध्यीभूताः अकिञ्चित्कराः सन्ति । न केवलं जिनशासनेऽपि तु सर्वेष्वपि दर्शनेषु मैत्रीभावस्य परमं माहात्म्यं वर्णितमस्ति। उपनिषद्यपि प्रोक्तम् - "न हिंस्यात् सर्वभूतानि' । अत्र ग्रन्थकारेण निषेधात्मकरूपेण मैत्रीस्वरूपं कथितम्। हिंसाया निरोधद्वारेण 'सर्वेषां जीवानां प्रियं कुर्वन्तु' एवं निगदितम् । तत एवाऽऽद्ये मैत्रीभावस्याऽऽराधनैवाऽस्माकं जीवानां श्रेयस्करी। अन्यच्च-विद्यते मैत्रीभावेऽकथ्या परमा शक्तिः, सा त्वस्मादृशैः जीवैरगम्या । येन जीवेन मैत्र्याराधिता तस्य सर्वतो मैत्र्याःशुभपरमाणवः प्रसरन्ति । तैः परमाणुभिः पवित्रीभूतानां पुदगलानांमण्डलं भवति । तस्मिन् मण्डले केऽप्यशुभपुद्गलाः कृष्णपुदगलाः प्रवेष्टुं न समर्था भवन्ति । कदाचिदशुभपुद्गलाः प्रविशेयुः तर्हि ते पुद्गला अपि मण्डलस्थितशुभपुद्गलानां संयोगैः शुभ्रीभवन्ति। वयं सर्वेऽपि जानीमो यद्, क्रोधेनाऽन्धीभूता अहङ्कारेणोन्मत्तीभूताः पापिनो जीवा अपि प्रभोः महावीरस्य शरणमुररीकृत्य त्वरितमेव प्रशान्ता अभवन् । न केवलं मनुष्या अपितु विषान्विता हिंसकप्राणिनोऽपि मैत्रीभावपवित्रीभूतात्मनः प्रभोः शरण्यं संप्राप्य निर्विषा बभुवुः। प्रभुणैते सर्वेऽपि जीवा न क्रोधेन, किन्तु मैत्रीस्वरूपामृतरसधाराभि-रेवोद्धृताः। पातञ्जलयोगदर्शनेऽपि प्रोक्तम्"अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ।' अत्र नाऽन्यत् किमपि कारणं, किन्तु पूर्वकथितमेव यदशुभपुद्गला अपि मैत्रीभावाधिवासितशुभपरमाणुसंयोगैः शुभ्रीभवन्ति। गुरुगौतमस्वामी स्मर्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy