SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५१ -मुनिधर्मकीर्तिविजय : - प्रेम्णैव प्रेम वर्द्धते विषमपञ्चमकालेऽस्मिन् मनुष्यजन्म जिनशासनं जिनकथितधर्माराधना चेत्येवं वस्तुत्रिकं दुर्लभमस्ति । तत्राऽपि जिनकथितधर्माराधना तु सुदुर्लभा। धर्ममाराधयितुं नैके मार्गाः प्रदर्शिता भगवता। सा धर्माराधना सर्वैः जीवैः एकेनैव मार्गेण साधितुमशक्या, यतो जीवा विभिन्ना विविधपरिणामवन्तो भिन्नवीर्यवन्तश्च सन्ति । तत एव सर्वान् जीवानाश्रित्य भिन्ना भिन्ना धर्माराधनाया मार्गाः कथिताः। तत्र प्रवर्तते मैत्रीभावनामक एको मार्गोऽपि। का सा मैत्री ? सर्वेषां जीवानां शुभचिन्तनमेव मैत्री। सूक्ष्मेभ्योऽपि सूक्ष्मान् जीवान् प्रति प्रेम्णो वात्सल्स्य वा निर्झरणं मैत्री। "सर्वे जीवाः सुखिनो भवन्तु'' इत्येवं शुभभावनाऽपि मैत्री। अज्ञातमनस्यपि कांश्चिदपि जीवान् प्रति न द्वेषः, नाऽरुचिः, नोद्वेगः, सा मैत्री। श्रीहरिभद्रसूरिभगवता षोडशकप्रकरणे कथितम् - "परहितचिन्ता मैत्री।" श्रीमुनिसुन्दरसूरिणाऽपि अध्यात्मकल्पद्रुमे कथितम् - मा कार्षीत्कोऽपि पापानि मा च भूत्कोऽपि दुःखितः । मुच्यतां जगदप्येषा मतिमैत्री निगद्यते॥ सर्वदर्शिप्रभुणा मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यरूपाश्च चतस्रो भावनाः प्ररूपिताः। कथमत्र मैत्र्येव प्रथमा वर्णिता ? नाऽन्या ? इति प्रश्नो भवति। तदा ज्ञानिभिः समाधानं कृतं; यदस्ति प्रमुखद्वारं मैत्र्येव शेषभावनात्रिकस्य । एतां मैत्री विना न कदापि प्रमोद-कारुण्य-माध्यस्थ्यभावाः संभवेयुः। यत्र मैत्री तत्रैव प्रमोदादिभावनाः सन्ति । यं प्रति मैत्र्युद्भवति तं प्रत्येव प्रमोदः कारुण्यं माध्यस्थ्यं वा जागर्ति, किन्तु यं प्रति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy