SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३१ RAHARIAN एवं अस्माकं पूज्यपादाः ज्ञान-चारित्र-दर्शनविशुद्धाराधनया देदीप्यमानाः समर्था महापुरुषा आसन । तथापि स्वकीयं समस्तमस्तित्वं विस्मृत्य गुरुभगवतां चरणारविन्दे एवाऽल्पज्ञ-भक्तिमूढबालकवत् जीवितुं प्रयत्नवतां पूज्यपादानां समर्पण-मेतदस्मादृशेभ्यो गुरुवचने विमर्शकारिभ्यो बोधं ददाति । अस्मिन् शतवर्षे नैतादृशः समर्पिता आत्मानोऽस्मिन् शासनेऽभवन् । एवमागामिनि काले एतादृक्समर्पित आत्मा भविष्यति न वेति आशङ्का वर्तते । अधुना तु तादृशः समर्पणस्य गन्धलेशोऽपि न दृश्यते। (९) वात्सल्यम् ''अन्यं जनं दृष्ट्वा हृदये निर्व्याजानन्दस्य प्रकटनम्" इति वात्सल्यम् । यत्र वात्सल्यं तत्र भेदभावो न संभवति । 'मम-तव' इति भेदो वर्तते तत्र वात्सल्यस्य कल्पनाऽप्यशक्या। अस्माकं पूज्यपादा एतादृशस्य निर्व्याजवात्सल्यस्य निधिरासीत् । यथा-ऊषरभूमौ ग्रीष्मकालस्य प्रचण्डातपेन तप्तः पथिक जनो जलं निरीक्ष्याऽऽहलादमनुभवति तथैवाऽसारसंसारे भ्रमन्तः सन्तोऽकल्प्ययातनामनुभवन्तश्च जना अपि पूज्यपादानां सदेशमागत्य तेषां वात्सल्यामृतपानं पीत्वा स्वहृदयेऽवर्णनीयां प्रसन्नतामनुबभूवुः । अद्यपर्यन्तमनुभूतं सर्वमपि दुःखशोकसमुदीयं विस्मृत्य नवीनं चैतन्यं प्राप्नुवन्ति स्म ते जनाः । पश्चात् तत्वात्सल्यप्रभावेण जीवनं जीवितुमपूर्वसामर्थ्यमलभन्त। पूज्यपादाः साधुजनानां जननीनिभा आसन् । पूज्यपादश्रीशीलचन्द्रसूरीश्वरभगवन्मुखादनेकशः श्रुतं यद्, “यदाऽहं बालसाधुरासम् तदा केनाऽपि कारणेन गुरुदेवा अकुप्यन् तदाऽहं पूज्यपादानां निकटं गच्छामि स्म । ते पूज्यपादाः स्वकीयाङ्के मामुपावेशयन्, प्रेम्णा पृष्ठे स्वकीयं हस्तं प्रासारयन्। एवं तदके एव कियत्काल-मुपाविशम् ततो हृदयेऽनुपमा प्रसन्नतां चाऽन्वभवम्। तथैव कदाचित् न केषामपि साधूनां स्वास्थ्यं सुखाऽनुकूलं भवेत् तर्हि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy