SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वैयाकरणः सद्गृहस्थः वैयाकरणः सद्गृहस्थः सद्गृहस्थः तार्किकः सद्गृहस्थः तार्किकः सद्गृहस्थः सद्गृहस्थः कविः सद्गृहस्थः कविः . सद्गृहस्थः Jain Education International भोजनायाऽऽमन्त्रयितुमागतोऽहम् । (हृष्टः) एवं खलु ? कदा आगन्तव्यम् ? श्वः सायङ्काले । सुस्वादुभोजनं परिवेषयिताऽहम् । श्रेष्ठिन् ! भवत आमन्त्रणं सानन्दं स्वीकरोमि । श्वः सायङ्काले भवन्तं प्रतीक्षिष्ये । गच्छाम्यधुना । (तार्किकगृहं-) नमस्ते तर्कपञ्चानन ! नमस्ते । भवन्तं नोपलक्षयामि । अहो ! क्षन्तव्योऽहम् । अहं भवतः प्रातिवेश्मिकः भवतो ज्ञानेनाऽऽकृष्टः श्वस्तनसायङ्कालस्य भोजनार्थं आमन्त्रयितुमागतोऽस्मि । किं भवान् आगमिष्यसि ? ५९ सत्यं खलु ? अवश्यं आगमिष्यामि । भोजनार्थं तु न किमपि प्रमाणमावश्यकम। तथाऽपि न्यायसूत्रकारं सांक्षीकृत्याऽऽगमिष्यामि । उपकृतोऽस्मि । गच्छामि तावत् । ( कविगृहं - ) कविवरेण्य ! नमस्यामि । अतिथये नमः । नाऽहमतिथिः । अहं तु भवतः प्रातिवेश्मिकः । श्वः सायङ्काले मद्गृहे भोजनसमारम्भस्याऽऽयोजनमस्ति । भवांस्तु महाज्ञानी, अतो भवन्तं भोजनार्थं निमन्त्रयामि । अवश्यमेवाऽऽगन्तव्यं भवता । (लज्जां नाटयन्) अहं तु काव्यरसपाने पक्षपाती । तथाऽपि...! कविवर्य ! काव्यरसपानेन सह स्वादोः अन्नरसस्याssस्वादनमपि नितरामावश्यकम् । श्वः सांयकाले मा विस्मार्षीः । अहं गच्छामि । महती व्यवस्था कर्तव्या मया । For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy