SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १२ ॥ ११॥ ॥ १२॥ ।। १३॥ ॥ १४॥ ॥ १५ ॥ ॥ १६॥ सोऽपि- धीरो विशालहृदयः समदर्शी भिन्नमतसहिष्णुश्च । वात्सल्यामृतवर्षी शासनहितचिन्तने निरतः भवभीरुर्गीतार्थः सर्वजनोपकृतिप्रकृतिकः सुकृती। दम्भाहंकारादिक-दूषणरहितः सरलचित्तः निजपरसमसमयज्ञः समयज्ञो ग्रन्थषोडशीकर्ता । गच्छाधिप ओजस्वी स सूरिरिह परमगुरुसेवी बाल्ये गृहीतदीक्षो वर्षभदशभिरेव सूरित्वम्। समवाप्य पालयित्वा पञ्चाशद्वत्सरावधि च तदपि अथ विहृतो निजवयसः सूरीशानोऽष्टसप्ततितमेऽब्दे । शत्रुञ्जयतीर्थोपरि नूतनजिनगृहप्रतिष्ठार्थम् अहम्मदाबादपुराद् विहरन् क्रमशः स आगतः ससुखम्। नेत्राग्निखपाण्यब्दे (२०३२) मार्गसितेतरचतुर्दश्याम् तत्र च सन्ध्यासमये जाता तत्स्वास्थ्यविकृतिरथ सहसा। पञ्चनमस्कृतिसंश्रुति-पूर्वं प्राप च समाधिमृतिम् अथ च- श्रीनेमिसूरिपट्टे सूरिर्विज्ञाननामकः समभूत्। तत्पट्टे कस्तूरः सूरीशस्तत्पदे यशोभद्रः । सूरिरभूत् तत्पट्टे शुभङ्करस्तस्य पट्टधरसूरिः। सूर्योदयाभिधोऽस्ति श्रीनन्दनसूरिपदसेवी तत्प्रेरणया श्रावक-वर्गस्तगडीति नाम्नि तत्क्षेत्रे। सूरीशस्वर्गभुवि गुरुभक्त्या निर्मितं रम्यम् श्रीनन्दनसरीश्वर-धर्मोद्यानं विहारयात्रायाम। गच्छन्मुनि-साध्वीनां नितरां विश्रान्तिहेतु महत् गच्छादिभेदमुक्तं श्रमण-श्रमणीगणस्य नित्यमिह । भवति हि वैयावृत्त्यं सूर्योदयसूरिप्रेरणया ॥ १७॥ ।। १८।। ॥ १९॥ ॥ २०॥ ।। २१॥ ॥ २२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy