SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १५ शासनसम्राट्स्मृतिमन्दिरप्रशस्तिः= यः - -विजयशीलचन्द्रसूरिः गतवृजिनं वीरजिनं व्रतिनामिनमद्य संस्तुवे शमिनम्। दृष्टा यं प्राथम्येऽर्यमबुद्धिीतमस्याऽभूत् ॥१॥ गौतम-सुधर्मप्रमुखान् गणधरधुर्यास्तथा नमस्यामि । यदुपज्ञो गणिपिटकः प्रवहत्यधुनाऽप्यखिलसंघे ||२|| श्रीमत्सुधर्मगणभृत्-पट्टे चतुरधिकसप्ततिप्रमिते। श्रीवृद्धिविजयशिष्यः संजातो नेमिसूरीशः ॥३॥ तपगच्छेशः शासन-सम्राडपि सूरिचक्रचक्री च। बहुबहुतीर्थोद्धर्ता, नैकग्रन्थप्रणेता च || ४ ॥ अप्रितम प्रौढप्रतिभः, संयमनिष्ठश्च सत्त्वशाली च। संघस्य च यः कृतवान्, पथदर्शनमिह महापत्सु ||५|| अतुलमनन्यमनुपमं ब्रह्मव्रतपालनं सदा यस्य । यबलतः संकल्पै-र्वचनैरपि सिद्धतां स गतः |॥६॥ हृदि कृतसत्यप्रतिष्ठो भवभीरुः प्रकृतिभद्रमूर्तिश्च । अनुकम्पाभृतचेता नेताऽपि श्रमणसंघस्य कार्तिकशुक्लप्रतिपदि नव-कर-नव-चन्द्र (१९२९)वत्सरे पुण्ये। मधुमत्यां शनिवारे, वीशाश्रीमालवंशके जातः ||८| लक्ष्मीचन्दतनूजो दीवालीबाइमातृसन्तानम्। श्रीनेमचन्दनामा समभून्निजनामधन्यः सः ||९॥ षोडशवर्षीयेण च जगृहे दीक्षा स्वयं विरागेण । तदनु च गुरुवर्यकृपा-सम्पादितहितततिः सोऽभूत् ॥ १०॥ ज्ञानोपार्जननिरत-श्चारित्राराधकस्तपस्वी च । क्रमशो योगोद्वहना-दवाप्तगणि-पण्डितादिपदः || ११॥ ॥७॥ सच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy