SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४८ संख्यया बहुला एव भवन्ति । किन्तु तावन्मात्रेणैव सत्यस्य लोपो न कदापि भूतो भवति भविष्यत्यपि च। आग्रही जनः सदाऽशान्तिमेवाऽनुभवति । तस्याऽन्तःशून्यत्वं च तं सततं तुदति । एतादृशोऽन्तःशून्यो जनः स्वकीयां रिक्ततां शून्यता वाऽसहमानः सन् तां पूरयितुमनुयायिवर्गस्वरुपं कोलाहलमाश्रयति । किन्तु रीत्याऽनयाऽशान्तिस्तस्य कियत्कालं जलमालिन्यवत् शाम्यति परं नोन्मूल्यते । दुराग्रहो जनं जडमिवाऽसहायमिव च निर्मिमीते । तादृशश्च जनस्य मताग्रहोऽनुयायिवर्गेणैवोच्चसितुंजीवितुंवा प्रभवति। असत्यं न कदाप्यवलम्बनं विना जीवति तिष्ठति च । कदाग्रहस्तु स्वरूपमेवाऽसत्यस्य । असत्ये एवाऽऽग्रहो जायते न तु सत्ये। आग्रहिणः समग्रप्रवृत्त्या हेतुरपि स्वस्वीकृतमतं सत्यापयितुमेव भवति। तस्य साधनायां, परस्परं वार्तायामुपदेशदानेऽपि च सा एव वृत्तिदृश्यमाना भवति। __ बद्धः कोऽपि गौ रज्जूप्रमाणायामेव भूमौ पर्यटति । पुनः पुनश्च पर्यट्य यत्र कीलिका तत्रैवाऽऽगच्छति । एतेनैतावदेव जगदिति स मन्यते । यो नास्ति निर्बन्धः स न सम्पूर्णं सत्यं ज्ञातुं पारयति । कूपमण्डूकवत्तस्य जगदपि लघीय एव भवति । तस्य च स्वमान्य एव जगति आग्रहो वर्त्तते । एवमेव ज्ञानक्षेत्रेऽपि यः स्वमतिकल्पितं किञ्चित् सत्यं मत्वा तत्रैकस्मिन्मेव स्थले कीलिकाबद्ध इव निष्ठति तस्य ज्ञानदृष्टिः कुण्ठिता भवति। तदनु न स कदापि ज्ञानस्य विशालं क्षेत्रं पर्यवसितुं प्रभवति।। अत्रैकं महदन्तरं वर्त्तते गवि आग्रहिणि च जने । यदि कोऽपि तं गां ततो मोतुमुद्यतेत तर्हि स तत्स्वीकरोति । कदाचित्तु भवेदेवं यन्न यं कञ्चित् स स्वीकुर्यात् किन्तु यं स स्वीयं मन्यते यदि स तं ततो मोचयेत् तर्हि तु स्वीकरोत्येव सः । किन्त्वाग्रही जनस्तु कमपि न स्वीकरोति । अपरं चाऽत्राऽस्ति विडम्बनं यत् नास्त्येतादृशः कोऽपि यं स स्वकीयमिति कृत्वा मन्येत् यश्च स्वं सन्मार्ग दर्शयेत् । स एव तस्याऽऽत्मीयो जनो यस्तं तत्प्रवृत्तींश्च सर्वदा ओमिति कृत्वा विना तर्केण समर्थयेत्। अतः स्वीकृतधारणानां मतानां च व्यस्थापने परेषां च सत्यस्याऽपि मतस्य प्रतिकारकरणे एव प्रवृतो वर्त्तते । तस्मिन्नेव च तस्य सर्वशक्त्या व्ययोऽपि भवति। आग्रही बत निनीषति युक्तिं तत्र यत्र मतिरेस्ति निविष्टा । पक्षपातरहितस्य तु युक्ति-र्यत्र तत्र मतिरेति निवेशम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy