SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ३५ वातावरणमुदभवत्। विधिविधानेषु बाल्यकालादेव पूज्यपादानां विशेषा रुचिरासीत् । तेषां क्रियारुचिरप्यनुपमैवाऽऽसीत् । अस्माकं पूज्यपादाः बाल्यकाले प्रधानैः विधिकारकैः सह पूजनादिविधिं कारयितुं गतवन्त आसन् । तत्र स्वयमेव विधिकारकाणामनुमत्या सर्वमपि विधिमकारयन् । तदेदृशं विशुद्धं विधि निरीक्ष्य तत्रस्थिताः सर्वे जना अतीवाऽऽनन्दमनुभवन्तोऽन्वमोदयन् । अन्यच्च-गुरुभगवच्छ्रीशासनसम्राजां मार्गदर्शनानुसारेण पूज्यपादैः दीक्षाउपस्थापना-योग-अनुयोगादिविधीनां शान्तिस्नात्र-प्रतिष्ठा-अञ्जनशलाका-अर्हन्महापूजननन्द्यावर्तपूजन-सिद्धचक्रपूजनादिपूजनानां च विधानानि शुद्धस्वरूपेण व्यवस्थितत्वेन च सङ्कलितानि । अत एव सुज्ञा गुणानुरागिणश्च विधिकारकाः प्रसङ्गेषु श्रीशासनसम्राजां श्रीविजयोदयसूरीश्वराणां चोपकारं स्मरन्ति एव, तथा भविष्यति कालेऽपि जैना एनमुपकारमवश्यमेव स्मरिष्यन्ति। वैक्रमीये वसुन्धरालोचनखहस्त (२०२१) वर्षे पूज्यपादा राजनगरे विरेजुः । तदाऽऽचार्यविजयश्रीप्रेमसूरीश्वरभगवतां निश्रायां नूतनसाधोरुपस्थापनायाः प्रसङ्ग आसीत्। तेषां विज्ञप्तिमुररीकृत्य पक्षघातपीडया प्रतिकूले देहे सत्यपि अस्माकं पूज्यपादास्तत्र गतवन्तः। तस्मिन् काले पूज्यपादैः विशुद्ध-स्पष्टोच्चारपूर्वकेण सार्थं पञ्चानां महाव्रतानां पाठो भणितः। एतच्छ्रुत्वा'ईदृशी सुचारु पद्धतिः विधिशुद्धिश्च कदाप्यस्माभिः न दृष्टा न श्रुता चाऽपि, अद्याऽतीवाऽऽनन्दमनुभवामः" एवं तत्रस्थिताः सर्वेऽपि साधवोऽवदन्। अधुनाऽपि शासनसम्राजां समुदाये ईदशी विधिशुद्धिः प्रवर्तते । (१३) मुहूर्तनिपुणता आसन् ज्योतिःशिल्पशास्त्रेषु पूज्यपादा अकुण्ठितकृपाणधारावत् तीक्ष्णमति-धारकाः । प्रतिष्ठा-अञ्जनशलाका-दीक्षादीनां महोत्सवानां मङ्गलमुहूर्तार्थं देशा-न्तरेभ्योऽपि भावुकजनास्तेषा समीपमागच्छन्ति स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy