SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३३ कथयन्ति स्म । केवलं वर्षद्वयं शिबिकायाः उपयोगः कृतः तत्रापि सहवर्तिसाधूनामनुनय आग्रहश्चैव निदानं स्वयं तु तद्विषये स्वात्मानं प्रायश्चित्ताधिकारिणं निन्दनीयं चैव मन्यन्ते स्म ते । तेषां चित्ते तस्याऽप्यतीव खेद आसीत्। अधुनेदृशानां चारित्रनिष्ठात्मनां पुण्यवतां जीवानां दर्शनमपि दुर्लभं अस्ति । तेषां पुण्यदर्शनमपि चारित्रमोहनीयकर्मक्षयस्य निमित्तं भवति। किञ्च, वर्तमानकाले वीरप्रभोः शासनस्य परम्परामनुसरन्तो महापुरुषाः बहवो भवेयुः तथापि बाहयाडम्बरात् भौतिकसुखात् निर्लेपीभूयात्मनो हितस्य करणं न सरलम् । पूज्यपादसदृशा निरभिमानिनः संयमनिष्ठाश्च धीरपुरुषा एव एवंरीत्या जीवितुं समर्थाः नान्ये । अपि च पूज्यपादानां सर्वतोमुखप्रतिभासंपन्नानां जिनशासनं प्रति अनन्यं समर्पणं जिनमतधुरावहनस्य च योग्यतां ज्ञात्वा शासनसम्राभिः तेभ्यो वैक्रमीये निधि-मुनि- ग्रहकलानिधि(१९७१) वर्षे श्रीखंभातनगरे विधिपूर्वकमाचार्यपदं प्रदत्तम् । अपरं च आचार्यपदेन सह श्रावक समुदायोपस्थित्यां 'सिद्धांतवाचस्पति - न्यायविशारद'' एवं बिरुदद्वयमपि प्रदत्तम् । आचार्यपदप्राप्तेः पूज्यापादानामान्तरिकजीवने किमपि परिवर्तनं नाऽभूत् , यतः सरलता निर्दभता-पावित्र्येत्यादिगुणा यथावदेव स्थिताः । एतेन ज्ञायते यद्, पूज्यपादानां जीवनं साधनामयं शास्त्रपूतं चासीत्। (११) तपोदाय॑म् 'तप्यते आत्मा येन' इति तपः। तपसा निकाचितानि कर्माण्यपि नश्यन्ति । न केवलं पूज्यपादा ज्ञानिनः अपि तु तपस्विनोऽप्यासन् । तैः स्वजीवने ज्ञानेन सह तपोवृत्तिरपि दृढीकृताऽऽसीत्। साम्प्रतं बाह्यतपसो माहात्म्यं बाढं प्रसृतमस्ति । ततो यो बाह्यतपो विशेषं करोति स तपस्वी कथ्यते । परंतु आगमानुसारेण स एव तपस्वी उच्यते- यः कायदमनेन सहाऽन्तश्चित्ते वर्तमानानां दुष्टवृत्तीनां दमनमपि करोति । अन्यथा तपसा सह मनसि स्थिताः अहङ्कार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy