SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सिद्धनामकप्रभावकाः पूज्यपादाः श्रीआर्यसमितसूरयः-कथा - मुनिविमलकीर्तिविजयः सिद्धचूर्ण - अञ्जन - पादलेप - तिलक - गुटिका - वैक्रियादिसिद्धिलब्धात्मा सिद्धनामकः सप्तमः प्रभावकः कथ्यते। स सिद्धात्मा विविधसंघादिकार्याणि सार्द्ध चमत्कारैः शासनोन्नत्यै यथावसरं चूर्ण-अञ्जनादियोजने कौशल्यं दर्शयति । तादृशेषु सिद्धात्मसु श्रीआर्यसमिताचार्याणां उदन्तः प्रथितोऽस्ति। आभीरदेशे अचलपुरनाम एकं नगरमासीत्। तस्मिन् पुरे समृद्धिमन्तो बहवो जना वसन्ति स्म । अन्वचलपुरं कन्या-वेणानाम्नी द्वे नद्यौ आस्ताम् । तयोः मध्यभागे एकं ब्रह्मद्वीपनाम द्वीपासीत् । तस्मिन् ब्रह्मद्वीपे बहवः तापसा न्यवसन् । तेषु तापसेषु एकः पारिकाङ्क्षी पादलेपक्रियायां कुशल आसीत् । स तपस्वी प्रतिदिनं चरणयोर्लेपं लिप्त्वा स्थलपद्धतेरिव जलोपर्यपि अचलत् । तत्क्रियया जनान् रञ्जयन् स तपस्वी वेणास्त्रवन्तीमुल्लङ्घ्य भिक्षार्थमचलपुरं आगच्छति स्म । तद् दृष्ट्वा ऋजवः पृथग्जनाः तद्दर्शनं प्रति आकृष्टाः । ते जैनान् निन्दन्तो बभाषिरे 'हे श्रावकाः ! पश्यत, अस्मच्छासने गुरूणां यादृक्षः प्रत्यक्षः प्रभावो वर्तते तादृशः प्रभावो युष्मच्छासने न दृश्यते, ततोऽस्मदीयधर्मसाधारणो नान्यो धर्मोऽस्ति' । पृथगजनानामेताशि वचनान्याकर्ण्य श्रावकाः तदुपर्यपि दयाभावमानीय ते भद्रिकजना कुमार्गे न स्थिरीभवन्तु' इति विचिन्त्य ते श्रावका भद्रिकजनानां वचनानि नैकतर्कयुक्तिभिः प्रतिहत्य तत्तापसं दृग्भ्यामपि न पश्यन्ति। एकदा तत्र आचार्यत्वसंपूर्णगुणालङ्कृतः जिनशानधौरेयः प्रवचनप्रभावकः नैक सिद्धिसंपन्नः सकलशास्त्ररहस्यवित् उत्सर्गापवादमार्गज्ञः श्रीवज्र स्वामिमातुलः श्रीआर्यसमितिसूरिः आगतवान्। श्रीआर्यसमितसूरीणामागमनोदन्तं श्रुत्वा पत्तनवासिन: सर्वे श्रावका महर्द्धया समागत्य चरणयुगयोर्वन्दित्वा तापसकृतजिनशासनावहेलनाप्रवृत्तिं दीनवचनैर्निवेदितवन्तः। तच्छुत्वा श्रीआर्यसमितसूरिः उवाचः स धूर्ततापसःचरणलेपक्रियया मुग्धजनान् वञ्चति, तस्मिन् अन्या कापि तपःशक्तिर्नास्ति' । श्रीआर्यसमितसूरीश्वराणां मुखारविन्दनिर्गच्छदमृतसममधुरवचनमाकर्ण्य श्रावका गुरुन् प्रणम्य स्वस्थानं प्रत्यागताः । तदनु वञ्चकतापसपरीक्षार्थमेकेन श्रावकेण स तापसः निजगेहे भोजनार्थमामन्त्रितः । बहुभक्तजनपरिवृतः स तापसः श्रावकस्य गृहं भोजनार्थ-मागतः । आगच्छन्तं तापसं दृष्ट्वा अवसरज्ञेन श्रावकेण तस्य माननं कृतम् । श्रावकस्य अत्याग्रहात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy