SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६७ तापसेन स्वासनमलङ्कृतम् । पश्चात् तेन श्रावके ण उष्णजलेन तत्तापसचरणयुगलप्रक्षालनमारेभे । स्वपादलेपनाशदरात् चरणप्रक्षालनमनिच्छतोऽपि तापसस्य, अत्याग्रहात् तेन श्रावकेण तस्य पादौ प्रक्षालितौ । पादप्रक्षालनाल्लेपांशोऽपि चरणयुगले नावशिष्टः । भोजनान्तरं तापसो वेणापगाप्रतीरे आगतः । तापसस्य जनमनोहारिचमत्कारक्रियां द्रष्टु बहवो जनाः समूहिताः। संमीलितेषु जनेषु श्रावका अपिमहत्यां संख्यायामुपस्थिताः। तदा 'तेन श्रावकेण चरणलग्नलेपः प्रधौतः, तथापि लेपस्य किञ्चिदंशो भविष्यति, ततो सलिलमार्गे चलने हानिर्न भविष्यति इति विचिन्त्य तापसो वेणानिम्नगायां प्राविशत् । वेणानद्यां यावत् प्रविष्टः तावत् निमज्जितुमारब्धः । तदा स 'अहं निमज्जामि रक्ष माम्' इति निस्वनं चकार । तदा कतिपयैर्दयालुश्रावकैरनुधावित्वा स तोयाद् बहिरुद्धृतः। तदा तापस्य वञ्चकत्वं प्रकटीभूतम्। तद्दृष्ट्वा जना ऊचुः ‘भो! अनेन मायावितापसेन वयं चिरकालं वञ्चिताः' । पश्चाद् कुमार्गवासितास्ते जैनधर्मानुरागिणो भूताः। तदा श्रीजिनशासनोद्योतकराः युगप्रधानाः प्रवचनदेशनादक्षाः पूज्यपादाः श्रीआर्यसमितसूरयस्तत्रागताः। आगत्य तस्यां वेणाद्वीपवत्यामेकं चूर्ण प्रक्षिप्त्वा सर्वजनसमक्षं 'हे वेणासरित् एतत्तीराद् दूरवर्तिनि रोधे गन्तुमस्माकं सर्वेषामिच्छाऽस्ति' इति कथितं, कथनमात्रे नद्या द्वौ रोधौ संमीलितौ । तद् दृष्ट्वा सर्वे जना विस्मिताः पश्चाद् आर्यसमितसूरय आनन्दपरिपूर्णसंघेन सह ब्रह्मद्वीपमागताः। आगत्य तत्र धर्मस्य सत्यस्वरूपमुपदिष्टवन्तः । धर्मस्य सत्यस्वरूपं श्रुत्वा सर्वे तापसाः प्रतिबोधिताः । प्रतिबोधितैः तापसैराचार्यपार्श्वे दीक्षा अङ्गीकृता। तेभ्यः साधुभ्यो ब्रह्मद्वीपिकाख्या एका शाखा निर्गता। सा शाखा आगमे प्रसिद्धास्ति। तमांसि हन्ति प्रौढानि बालोऽपि हि दिवाकरः ।। हैमवचनामृतम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy