SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ तार्किका कविः सद्गृहस्थः वैयाकरणः सद्गृहस्थः तार्किकः वैयाकरणः तार्किकः कविः शिवमस्तु श्रेष्ठिन् ! धनागमोऽस्तु श्रेष्ठिन् ! (बहिर्धावन्) सुस्वागतम् पण्डितवर्याः! सुस्वागतम् । अहो ! अद्य सौभाग्यभाजां शेखरोऽहं यन्मम गृहाङ्गण एव ज्ञानिनां त्रिवेणीसङ्गमः प्रकटितः। भवतां पवित्रैश्चरणरजोभिर्मम गृहमद्य पवित्रीभूतम् । (गृहान्तर्नयति) इत आगम्यन्ताम् । अत्र पर्यङ्क उपविशन्तु महाभागाः ! श्रेष्ठिन् ! भवानपि उपविशतु। पूज्या ! भवादृशां ज्ञानिनां महापुरुषाणां भोजनव्यवस्था कर्तव्या अतोऽहं अन्तर्गच्छामि...क्षन्तव्योऽहं..किन्तु...भवन्तः!... अरे ! न काऽपि चिन्ता कार्या । वयमत्रैव उपविष्टाः स्मः। (तद्गमनान्तरं-) भोः तर्कशास्त्रिन् ! मन्ये सुमहती व्यवस्था कृता भवेदनेन । भोः ! प्राघूर्णका अपि न पृथग्जनाः। हुम् । अतस्तादृशी रसवती अपि प्रगुणीकर्तव्या न वा ? (इत्यादिसंलापैर्मुहूर्तद्वयं व्यतीतम्। तदा-) पूज्याः! किञ्चित् प्रतीक्षा कर्तव्या । अथ तावत् ज्ञानचर्चा कुर्मः ? भवन्मुखनिःसृतेन ज्ञानामृतेन अहमपि कर्णयुगलं पुनामि । श्रेष्ठिवर्य ! भोजनानन्तरमेव चर्चा कुर्मस्तावत्। प्रथमं तु भोजनमेव। उक्तमपिशतं विहाय भोक्तव्यमिति। सत्यं वदत्ययम् । भोजनानन्तरमेव चर्चा रसप्रदा भविष्यति। अवश्यम् । प्रथमं रसपूर्ण भोजनं तदनु रसप्रदा चर्चा। भवतु। किन्तु अद्य युष्माकं पाण्डित्यस्याऽगाधसरसि स्नपयितव्य एवाऽहम्। अवश्यम्...अवश्यम्...कोऽत्र सन्देहः ? (एवमन्यदपि मुहूर्तं गमितं तैः । तदा-) सद्गृहस्थः वैयाकरणः तार्किकः कविः सद्गृहस्थः पण्डिताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy