SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २२ भवति'' एवं लोके कथ्यते एव । अतस्स बालकोऽपि नित्यमेव जिनपूजा - गुरुसेवापाठशालागमनादीः आवश्यकधर्मक्रियाः चकार । "पुत्रस्य लक्षणानि पारणके, वध्वाः गृहद्वारे" एतदुक्तिं चरितार्थीकुर्वन्निव स बाल्यकालादेव तपनवत् दिव्यतेजस्वी, कुरङ्ग इव स्फूर्तिमान् चाऽऽसीत् । एवं द्वितीयाचन्द्रवत् प्रवर्द्धमानस्स बालको व्यावहारिकाऽभ्यासार्थं शालायां पितृभ्यां प्रेषितः । तत्राऽपि कुशाग्रबुद्धित्वात् सर्वेषां विद्यार्थिनोऽग्रे सरीभवन्नासीत् । अनुक्रमेणाऽष्टवर्षीयोऽभूत् । शालायां तिस्रः कक्षास्तेनोत्तीर्णाः। , (३) गुरुसमागमः वैक्रमीये वेदबाणनन्दवसुन्धरा (१९५८) वर्षे पूज्यपादाः शासनसम्राट् श्रीनेमिसूरीश्वरमहाराजाः सपरिवारं श्रीस्थंभतीर्थे समवसृताः । पूर्वमेतेन बालकेन शासनसम्राजां चारित्रनिष्ठा - पाण्डित्यादिगुणाः श्रुता आसन् । किन्तु नाऽद्यपर्यन्तं तेषां पुण्यदर्शनं तेन कृतम् । ततस्सहसैव शासनसम्राजां पापनाशक - दर्शनादेव बालकस्य मानसमानन्दोल्लासभृतमभूत् । तत्र शासनसम्राभिः संसारोदधितारिणी भववनपरिभ्रमणपरिश्रमप्रणाशिका धर्मदेशना प्रदत्ता। शर्करासमां मधुरदेशनां श्रुत्वां पूर्वं तेषां यद् गुणकीर्तनं श्रुतं तस्मिन् श्रद्धा दृढीभूता । तेषां कोमलवचनैः बालकस्यैतस्य मनोगताः प्राक्तनशुभसंस्कारा उद्घटिताः । तत्क्षणमेव बालकस्य हृदयमननुभूतपूर्वं मन्थनमनुभवितुं लग्नम् । अथ देशनां निशम्य सर्वे श्रावकजना निर्गताः, किन्तु तत्रैव स्थितस्स बालकः । यथा बालकोऽर्णवं वीक्ष्याऽऽनन्दमनुभवति, परंतु तस्याऽपूर्वाऽऽनन्दस्य यथार्थवर्णनं कर्तुं न समर्थो भवति; तथैवैष बालकोsपि शासनसम्राजां प्रवरं मुखारविन्दं निरीक्ष्याऽकथनीयाऽऽनन्दमनुभवति तथापि तद्वर्णनं कर्तुं हि केवलं पुनः पुनः स बालको गुरूणां मुखमेवाऽद्राक्षीत् । पश्चात् शनैः शनैः स तेषां समीपमागतवान् । शासनसम्राजोऽपि परीक्षका आसन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy