Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भ.
॥८७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ हनुमान् रामभक्तोऽपि स्वस्वाम्यनुज्ञाभावेन तं ध्यायन् सुग्रीवसमीप एव स्थितः स्वस्वामिना सर्वस्वामिहितानुगुणं कार्यमारब्धवानित्याहै कोन त्रिंशे - समीक्ष्येत्यादि हनुमान्वाक्यमत्रवीदित्यन्तमेकं वाक्यम् । हनुमान् उक्तगुणविशिष्टं व्योम उक्तगुणविशिष्टं सुग्रीवं च समीक्ष्य । हरीशं प्रसाद्य दरीश्वरमुपागम्य प्रणयाद्वाक्यमब्रवीदिति संबन्धः । विमलमित्यादिना सेनासन्नाहस्य प्राप्तकालत्वमुक्तम् । समृद्धार्थमित्यादिना समयातिक्रमहेतवः समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्। सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् ॥ १ ॥ समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् । अत्यर्थमसतां मार्गमेकान्तगत मानसम् ॥ २ ॥ निर्वृत्तकार्य सिद्धार्थ प्रमदाभिरतं सदा । प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ॥ ३ ॥ स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् । विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ ४ ॥ क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः । मन्त्रिषु न्यस्तकार्ये च मन्त्रिणामनवेक्षकम् ॥ ५ ॥ उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् । निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ६ ॥ प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः । वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥७॥ हितं तत्त्वं च पथ्यं च सामधर्मार्थ नीतिमत् । प्रणय प्रीतिसंयुक्तं विश्वासकृतनिश्चयम् । हरीश्वरभुपागम्य हनुमान् वाक्यमब्रवीत ॥ ८ ॥ प्रदर्श्यन्ते । समृद्धार्थ संपूर्णरत्नवस्त्राभरणादिकम् । मन्दः अल्पः धर्मार्थयोः संग्रहः सम्पादनं यस्य तम् । एकान्तगतमानसम् एकस्मिन् काम समीक्ष्येत्यादि 'समृद्धार्थं च ' इत्यादिना ' कामवृत्तमवस्थितम् ' इत्यन्तेनोक्तविशेषणविशिष्टं सुग्रीवं समीक्ष्य मधुरैर्वाक्यैईरीश्वरं प्रसाद्य हरीश्वरमुपागम्य हनुमान् प्रणयाद्वाक्यमब्रवीदिति सम्बन्धः । मन्दधर्मार्थसहं मन्दौ स्वल्पौ धर्मार्थी सद्गृद्वातीति तथा एकान्तगतमानसम् एकस्मिन्नेव कामपुरुषायें अन्तं निश्वयं गतं मानसं यस्य स तथोक्तः । निर्वृत्तकार्य निष्पन्नवालिवधरूपकार्यम् । सिद्धार्थं प्राप्तराज्यम् । अभिप्रेतान ईप्सितार्थान मनारथान राज्यमात्यनन्तरमेवं करि प्यामीति मनोरथविषयभूतानर्थाश्च समीप्सितां तारां चापि प्राप्तवन्तमिति सम्बन्धः ॥ १-५ ॥ उत्सन्नराज्यसन्देहः उत्सन्नः नष्टः राज्यसन्देहो यस्य स तथोक्तः, स्वेनारक्षितस्य राज्यस्य कुशलं भवति वा न वेति शङ्कारहितमित्यर्थः ॥ ६ ॥ ७ ॥ हिनम् उदर्कसुखकरम् । पथ्यं नीतिमार्गादनपेतम् । सामधर्मार्थनीतिमत् साम च टीका-अथ त्रिकालवेदी हनुमान् सुप्रीवस्य किष्किन्धाप्रस्थापनसमये रामानुज्ञाते समयमासनं सुशीव कामासक चालोच्य तचित्तानुरञ्जनपुरस्सरं समयोचितं हितमुपदिशति - समीक्ष्येत्यादि । सारसैराकुलं संघुष्ट तत्वोषवत्। प्रणयः प्रार्थना प्रीतिः स्नेहविशेषः ॥ १-८ ॥
For Private And Personal Use Only
टी.कि.की. सं० १९
||20||

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699