Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
चा.रा.भ.
टी.कि.को.
स.
९
कककककककककर
कन्दरान् भेदान् ॥ १३ ॥ विचिन्वन्तु वनं सर्व इति, भवन्तः इति शेषः ॥ १४-२२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे हितार्थमेतदुक्तं वः क्रियतां यदि रोचते । उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥१०॥ अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः । उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ११ ॥ सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह । हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ १२ ॥ पुनर्मार्गामहै शैलान् कन्दरांश्च दरीस्तथा । काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ १३॥ यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना । विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः॥१४॥ ततः समुत्थाय पुनर्वानरास्ते महाबलाः। विन्ध्यकाननसंकीर्णी विचेरुदक्षिणां दिशम् ॥१५॥ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् । शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः ॥ १६ ॥ तत्र कोद्रवनं रम्यं सप्तपर्णवनानि च । व्यचिन्वंस्ते हरिवराः सीतादर्शनकाक्षिणः ॥१७॥ तस्याग्रमाधिरूढास्ते श्रान्ता विपुलविक्रमाः। न पश्यन्ति स्म वैदेही रामस्य महिषी प्रियाम् ॥ १८॥ ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् । अवारोहन्त हरयो वीक्षमाणाः समन्ततः॥ १९ ॥ अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः । स्थित्वा मुहूर्तं तत्राथ वृक्षमूल मुपाश्रिताः॥२०॥ ते मुहूर्त समाश्वस्ताः किञ्चिद्भग्रपरिश्रमाः। पुनरेवोद्यताः कृत्स्ना मार्गितुं दक्षिणां दिशम् ॥२१ ॥ हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः । विन्ध्यमेवादितस्तावद्विचेरुस्ते ततस्ततः ॥ २२॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४९॥ मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ १९ ॥ इत्यादि । तस्य तस्मादित्यर्थः ॥९-११॥ सदशमिति । अङ्गदः यद्वाक्यमुवाच तद्वाक्यं वो युष्माकं सदृशं खलु सम्मतं खल्विति सम्बन्धः ॥ १२ ॥ १३ ॥ यथो दिष्टानीति । विचिन्वन्तु, भवन्त इति शेषः ॥१४-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण० किष्किन्धाकाण्डव्याख्यायाम् एकोनपञ्चाशः सर्गः ॥४९॥
॥१३५०
For Private And Personal Use Only

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699