Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इहैवेति । सीतामन्विष्य तस्याः प्रवृत्तिं वृत्तान्तमुपलभ्य वीरं तं गच्छाम नोचेदिहेव यमक्षयं यमगृहं गमिष्यामः ॥ ३६-३८॥ श्रुत्वेति । अङ्गदस्या प्यनुकूलं तारस्य वचनं श्रुत्वेत्यन्वयः। विधानं कार्यम् । कर्मणि ल्युट् । असक्तम् अविलम्बम् । अस्मिन् सर्गे साधेकोनचत्वारिंशयोकाः॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥५३॥
इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा । नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥ ३६॥ प्लवङ्गमानां तु भयादितानां श्रुत्वा वचस्तार इदं बभाषे । अलं विषादेन विलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥ ३७॥ इर्द हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् । इहास्ति नो नैव भयं पुरन्दरान्न राघवादानरराजतोऽपि वा ॥ ३८॥ श्रुत्वाऽङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताः। यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः॥३९॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः॥५३॥
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि । अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ १ ॥ बुद्धया ह्यष्टाङ्गया युक्त चतुर्बलसमन्वितम् । चतुर्दशगुणं मेने हनुमान वालिनः सुतम् ॥ २॥
अथ हनुमता अङ्गदमतभेदनपूर्वकमङ्गदस्य सुग्रीवसमीपगमनाय नियोजनं चतुष्पञ्चाशे-तथेत्यादि । राज्यं हृत मेने । राज्यं कर्तुं सामर्थ्यमस्तीति मिन इत्यर्थः ॥ १॥ अष्टाङ्गया "ग्रहणं धारणं चैव स्मरणं प्रतिपादनम् । ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः" इत्युक्ताष्टाङ्गयुक्तया । चतुर्वल समन्वितं बाहुबलमनोबलोपायबलबन्धुबलयुक्तम् । चतुर्दशगुणम् देशकालज्ञता दाढये सर्वक्लेशसहिष्णुता । सर्वविज्ञानिता दाक्ष्यमूर्जः संवृतमन्त्रता श्रुत्वाऽङ्गदस्यापि वचोऽनुकलम अङ्गदस्याप्यनुकूलं तारस्य वचनं श्रुत्वेत्यर्थः । प्रतीता हृष्टाः सन्तः । असक्तमविलम्बम् ॥ ३९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां त्रिपक्षाशः सर्गः॥ ५३ ॥ अथ महाप्राज्ञो हनुमान् तारादिमतस्याप्रतिपिद्धत्वाददं तन्मतावलम्बिन मवगम्य तस्याशंसितं प्रतिषेधयति-तथेति । राज्यं हृतं मेने, राज्यं कर्तुं सामर्थ्यमस्तीति मेन इत्यर्थः ॥ १॥ सामर्थ्यमेव प्रतिपादयति-बुद्धचा हीत्यादिना । अष्टाङ्गया अष्टगुणया । ते च गुणा:-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । उहोऽपोहोऽर्थविज्ञानं तद्विज्ञानं च धीगुणाः ॥" इति । चतुर्बलसमन्वितम् बाहु बलमनोवलोपायबलबन्धुबलसमन्वितम् । यद्वा चतुर्विधवलानि साभादयश्चतुरुपायाः। चतुर्दशगुणास्तु-"देशकालज्ञता दार्थ सर्वनेशसहिष्णुता । सर्वविज्ञानिता
।
For Private And Personal Use Only

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699