Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भू. संबन्धः॥१५॥१६॥ तदसुखमिति । समीक्ष्य ज्ञात्वेत्यर्थः । ज्ञानं च वचनश्रवणं वानराणां दर्शनं च । अस्य श्लोकस्यानन्तरं सर्गसमाप्तिर्भवितुमर्हति॥१७|| टी.कि.का.
रामातु-तदसुखमिति । श्रुत्वेति शेषः । स गृध्रराडिति सम्यक् । अन्यथा वृत्तभङ्ग स्यात् । केषुचिकोशेषु अस्य श्लोकस्पानन्तरं सर्गकरण दृश्यते । केषुचित्सूर्यांशुदग्धपक्षत्वादिति २१४६॥
स०५६ तदसुखमनुकीर्तितं वचो भुवि पतितांश्चसमीक्ष्य वानरान् । भृशचलितमतिर्महामतिः कृपणमुदाहृतवान स गृध्रराट् ॥१७॥ तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् । अब्रवीद्रचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १८ ॥ कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे । जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥१९॥ कथमासीजनस्थाने युद्धं राक्षसगृध्रयोः । नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ २०॥ इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् । यवी यसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥२१॥ अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात् । तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ २२ ॥ भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः । तस्यैव च मम भ्रातुः सखा दश रथः कथम् ॥२३॥ यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः। सूर्याशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम्॥२४॥
इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः॥२५॥ इत्या०श्रीरामायणे श्रीमत्किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः॥५६॥ श्लोकस्यानन्तरं दृश्यते । प्रायेण सर्गसमाप्तिद्योतकवृत्तभेदसद्भावात् तदसुखमिति श्लोकानन्तरं सर्गकरणमुपपन्नमिति प्रतीयते ॥ १७ ॥ तीक्ष्णतुण्डः तीक्ष्णमुखः। “वकास्ये वदनं । तुण्डम्" इत्यमरः ॥१८-२४॥ अत्र "कथमासीजनस्थाने युद्धं राक्षसगृध्रयोः । सखा दशरथ कशम्" इत्येवमनुवादात् पूर्वमिदमप्यङ्गन्देनोक्तमिति ध्येयम् । अस्मिन् सर्गे पञ्चविंशतिश्लोकाः॥२५॥ इति श्रीगो. श्रीरामा० मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥५६॥ तदसुखमिति । वचः भ्रातृनिधनज्ञापकं वचः, श्रुत्वेति शेषः । वानरान् भुवि पतितांश्च समीक्ष्य ज्ञात्वा कृपणं भ्रातृवधमकारप्रश्नत्वाहीनं बच इत्यनुषङ्गः । उदा इतवान् पृष्टवान् ॥ १७-१९॥ कथमासीजनस्थाने युदम्, सखा दशरथः कथमित्यनुवादेन च तदुभयमप्यङ्गदेन पूर्वमुक्तमित्यवगन्तव्यम् ॥ २०-२५॥
इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षट्रपक्षाशः सर्गः ॥ ५६ ॥ 0 सा--गस्य स्वानुजमरणश्रवणतोऽङ्गस्मरण नास्तीति सूचयितुं कविः पुनः तीक्ष्णतुण्डो बचनमब्रवीदिति वदति-तस्विति । यद्वा पूर्व वानरान् प्रत्युदाहृतवानिति अन तु अङ्गदस्य मुखोद्गतं श्रुत्वा वचन IN मजबीदित्युक्या राजपुत्रत्वेनाङ्गदमात्र प्रत्युक्तिरिति न पुनरुक्तिः ॥ १८॥
॥१४६॥
For Private And Personal Use Only

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699