Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 683
________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalassagarsun Gyarmandie ततोऽङ्गदवच इत्यादि । गतौ गमनविषये । यद्यपि गजादयोऽपि शतयोजनलने शताः, “भूतले सागरे वापि शैलेषु च वनेषु च । पातालस्यापि मध्ये वा न ममाच्छिद्यते गतिः।" इति सुग्रीवसन्निधौ वानरयूथपैः स्वस्वशक्तेः ख्यापितत्वात् “ नहि वो गमने सङ्गः कदाचित्कस्यचित्त्वचित् " इति । ततोऽङ्गन्दवचः श्रुत्वा सर्वे ते वानरोत्तमाः। स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ॥१॥ गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवास्तथा ॥२॥ आवभाषे गजस्तत्र प्लवेयं दशयोजनम् । गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥३॥ गवयो वानरस्तत्र वानरांस्तानुवाच ह । त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥४॥ शरभस्तानुवाचाथ वानरान् वानरर्षभः । चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः ॥५॥ वानरस्तु महातेजा अब्रवीद्गन्धमादनः । योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥६॥ मैन्दस्तु वानर स्तत्र वानरांस्तानुवाच ह । योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥७॥ ततस्तत्र महातेजा द्विविदः प्रत्यभाषत । गमिष्यामिन सन्देहः सप्ततिं योजनान्यहम् ॥ ८॥ सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान । अशीति योजनानां तु प्लवेयं प्लवगेश्वराः॥९॥ पूर्वमङ्गदोकेश्च । तथापि रावणाधिष्ठितलङ्काप्रवेशसीतान्वेषणादिकं दुष्करमन्येनेति तत्साधकहनुमत्प्रोत्साहनाय तथोक्तवन्त इति ध्येयम् ॥ १-९॥ रामानु -स्वं स्वं गती समुत्साहमिति पाटः । सुषेणो जाम्बवास्तथेति पाठः ॥ १--३ ॥ गयो वानरस्तत्र वानरांस्तानुवाच ह । इति पाठः ॥ ४॥ शरभस्तानुवाचाथ वानरान्वानरर्षभः । | तत इति । गती गमनविषये । स्वं स्व स्वकीय स्वकीयम् उत्साहमूचुरितिसम्बन्धः॥ १॥२ ॥ ' आवभाष गजस्तब तवेयं दशयोजनम् ' इत्यादिना गजादीना दशयोजनमात्रविषयस्वस्वप्लवनशक्तिकथनं न वास्तवम् । “भूतले सागरे वापि शैलेषूपवनेषु च । पातालस्यापि वा मध्ये न ममाछियते गतिः" इति सुप्रीवसन्निधौ - वानरपथः स्वस्वशक्तेः प्रख्यापितत्वात " नहि वो गमने सङ्गः कदाचित्कस्यचित् कचित् । बुवध्वं यस्य या शक्तिर्गमने प्लवर्गषभाः॥" इत्यङ्गदेन यूथपान्मति सन्निहितपूर्वसर्गे विधानाञ्च । तर्हि प्लवेयं दशयोजनमित्यादिना किमर्थ स्वस्वपवनशक्तिन्यूनतामुक्तवन्त इति चेत् ? सत्यम, अधिकशक्तियुक्ता अप्येते रावणाधि पष्ठितलकामवंशः सीतान्वेषणं च दुष्करमिति मत्वा ताशकार्यसाधकस्य वीरस्य हनुमत्तः प्रोत्साहनार्थ तथोक्तवन्त इति सर्व समासम् ॥॥४॥ चत्वारिंशत - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699