Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 682
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir खा.रा.भू. सिद्धयतीत्यनन्तरम् इतिकरणं बोध्यम् ॥ १२-२३ ॥ सङ्गः प्रतिहतिः । ब्रुवध्वमित्यार्षो निर्देशः ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते क इदानीं महातेजा लङ्घयिष्यति सागरम् । कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् ॥ १७ ॥ को वीरो योजनशतं लङ्घयेच्च प्लवङ्गमाः । इमांश्च यूथपान् सर्वान् मोक्षयेत्को महाभयात् ॥ १८ ॥ कस्य प्रभावाद्दाश्वि पुत्रांश्चैव गृहाणि च । इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥ १९ ॥ कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् । अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ॥ २० ॥ यदि कश्चित्समर्थो वः सागर प्लवने हरिः । स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ २१ ॥ अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत् । स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी ॥ २२ ॥ पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः । सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ २३ ॥ व्यपदेश्यकुले जाताः पूजिताश्चाप्यभीक्ष्णशः । नहि वो गमने सङ्गः कदाचित्कस्यचित्कचित् । ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ २४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्किञ्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥ श्रीरामायण भूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥ ६४ ॥ पूर्वेण सम्बन्धः॥१२- २०॥ यदीति । अभयदक्षिणाम् अहं यास्यामीत्येवंरूपाभयवचनमित्यर्थः॥ २१ ॥ न कश्चित्किञ्चिदब्रवीत् । नन्वमितयोजन देशलङ्कन समर्थवानराणा मसमर्थानामिव शतयोजन परिमित समुद्रलङ्घनप्रसङ्गे कथं तूष्णीम्भाव इति चेद ? अलशासनसुग्रीवनियमित कालातिक्रमेण च्युतधैर्यत्वादप्रमेय रावणवल परि ज्ञानाश्चेत्यवगन्तव्यम् । तथा चोक्तं स्कान्दे-“ नीलोऽङ्गदो हनूमांश्च जाम्बवानथ केसरी । समुद्रतीरमागम्य न शेकुः स्पन्दितुं पदम् । रावणस्य बलं ज्ञात्वा तीरे नदनदीपतेः ॥ " इति ॥ २२ ॥ २३ ॥ नहि व इति । सङ्गः प्रतिहतिः । ब्रुवध्वमिति निर्देशः छान्दसः ॥ २४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुष्षष्टितमः सर्गः ॥ ६४ ॥ For Private And Personal Use Only टी.कि.का स० ६४ ।। १५६ ।।

Loading...

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699