Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.पादोणादिक इलप्रत्ययः । शीघ्रवेगस्य शीघ्राः वैनतेयादयः तेषां वेग इव वेगो यस्य सः तस्य । तत्साम्यमसहमानस्ततोप्याधिक्यमाह शीघगस्येति गटी .कि.का. Mयदा शीघ्रवेगस्य अत एव शीघ्रगस्य ॥९॥ १०॥ उत्सहेयमिति । विस्तीर्णमिति मेरुविशेषणम् । वानरसेनाभयनिवृत्त्यर्थं स्वोत्कर्षमपि स्वयं
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः। मारुतस्यौरसः पुत्रः प्लवने नास्ति मत्समः ॥ १०॥ उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्। मेरे गिरिमसङ्गेन परिगन्तुं सहस्रशः॥ ११ ॥ बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे। समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥१२॥ ममोरुजङ्घवेगेन भविष्यति समुत्थितः । समुच्छ्रितमहाग्राहः समुद्रो
वरुणालयः॥ १३॥ पन्नगाशनमाकाशे पतन्तं पक्षिसेविते । वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ १४॥ निवेदयति ॥११-१३॥ पन्नगाशनं स्वोचिताहारलाभाय निरवधिकत्वरासम्पन्नम् । यद्वा आहारग्रहणत्वरया सर्वेषां भयावहम् । पतन्तं नतु वर्तमानम् ।। आकाशे स्वोचितक्षेत्रे । पक्षिसेवित इति स्वपरिकरसम्पत्तिरुच्यते । वैनतेयं विनतापुत्रम् । अनेन कौमारावस्थायां बलवेगोत्कर्षः सूच्यते । अहं तस्यापि प्राणदातुः पुत्रः। परिगन्तुं परितो गन्तुं प्रदक्षिणीकर्तुम् । सहस्रशः एकयत्नेन सहस्रशः परिगन्तुं शक्तः। आजानसिद्धसामोऽस्मि ॥१४॥ तस्येति । शीघ्रवेगस्य शीघ्रा वैनतेयादयः तेषां वेग इव वेगो यस्य तस्य । यद्धा वेगवत्साम्पमसहमानस्ततोप्याधिक्यमाह शीघ्रगस्येति । शीघ्रान् पुरतस्त्वरितं | गच्छतो वैनतेयादीनगच्छतीति शीघ्रगः तस्य ॥१०॥ सम्पति हनूमान् वीरवादानाह-उत्सहेयमिति । असङ्गेन अविलम्बेन । परिगन्तुं परितः प्रदक्षिणं कर्तुम् ॥११॥ बाहुवेगेति । समाप्लावयितुं सम्यक् आसमन्तात् प्लावयितुम् ॥ १२ ॥ ममेति । ऊरू च जलेच उरुजङ्गं तस्य वेगेन । प्राण्यङ्गत्वादेकवद्भावः ॥ १३ ॥ पक्षिसेविते आकाशे वैनतेयगतिः पदे त्यक्तस्व पदे स्थित्वा ततोऽध: पतन्तं पनगाशनं वैनतेयमुपर्यधोनमणेन सहस्रशः परिगन्तुं शक्तः । पत्रगाशनं पतन्तमिति पदद्वयन आमिषार्थः पतनवेगातिशयः सच्यते ॥ १४॥
स०-शीघ्रवेगस्य शीघ्र हुतं वेग: प्रवाहो यस्य स तथा तस्य सरिदादेः सकाशात् श्रीनगः शीघ्रं गच्छतीति स तबा, " वेगो जवे प्रवाहे च " इति विश्वः । यहा अहंशीधवेगस्थेत्येकं पदम् । अहमित्य ॥१६॥ भिमान्धमानवाचिनाऽभिमानी गृह्यते । तथा च अहमा रुदेण शीघ्रवेगं मनः । तस्य सकाशाशीधगस्तस्य ॥ १०॥ बरुणालयः अन्धिः । समुद्रः मुदया उत्तरणाय करिष्यमाणसेतुरेखाचिझेन सह वर्तत इति स तथा । राथा हि साहरामायणे-" सेतुं विधातुं हरिवाहिनीनां पुरैल कुर्वनिव उपमरेताम् " इति । एतेन नान्यतराधिक्यशङ्का वरुणालय इत्पस्प शुद्धयौगिकवानपणेन परिहारधास्वारस्यान युक्तौ ॥१३॥
For Private And Personal Use Only

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699