Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ज्ञायत इति । हर्यक्षसत्तमेति । ऋक्षत्वं वानरावान्तरजातिः, अतः सुग्रीवादेः ऋक्षराजत्वमिति ॥२०॥ काममिति । भवान् योजनानां शतं सहस्रं ज्ञायते गमने शक्तिस्तव हर्यक्षसत्तम ॥२०॥ कामं शतं सहस्रं वा नह्येष विधिरुच्यते । योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥२१॥ नहि प्रेषयिता तात स्वामी प्रेष्यः कथंचन । भवताऽयं जनःसर्वःप्रेष्यःप्लवगसत्तम ॥२२॥ भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः। स्वामी कलत्रं सैन्यस्य गतिरेषा परन्तप । तस्मात्कलत्र वत्तात प्रतिपाल्यः सदा भवान् ॥ २३ ॥ अपि चैतस्य कार्यस्य भवान् मूलमरिंदम । मूलमर्थस्य संरक्ष्यमेष कार्य विदा नयः। मूले हि सति सिद्धयन्ति गुणाः पुष्पफलोदयाः ॥ २४ ॥ तद्भवानस्य कार्यस्य साधने सत्यविक्रम ॥२५॥ बुद्धिविक्रमसम्पन्नो हेतुरत्र परंतप । गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ॥२६ ॥ भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने । उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ॥ २७॥ प्रत्युवाचोत्तरं वाक्यं वालिसूनु
रथाङ्गदः । यदि नाहं गमिष्यामि नान्ये वानरपुङ्गवाः ॥ २८॥ वा गन्तुं प्रतिनिवर्तितुं च कामं शतः । एष विधिः भृत्यैः स्वामिप्रस्थापनं नोच्यते न विधीयते ॥ २१॥ तदेव विवृणोति-नहीति ॥२२ ॥ कलत्रं रक्षणीयं वस्तु ॥२३-३३ ॥ रामानु०-तस्मात् कलत्रवत्तात प्रतिपाल्पः इति पाठः ॥ २३ ॥ गुणाः पुष्पफलोदयाः इति सम्यक् ॥ २४ ॥ इति जाम्बवतो व्यपदेशो हरिसाधात्, अल्पमन्तरम् कक्षाणां हरीणां च अत एवासी हर्पक्षसत्तमेत्यजद सम्बोधयति । सजातीयस्य हि निर्धारणं भवति "न| निर्धारणे" इति षष्ठीसमासस्य निषेधेपि मुनिप्रयोगात्साधुत्वम् सप्तमीसमासो वा ॥१९॥२०॥ काममिति । भवान् योजनानां शतं सहस्र वा गन्तुं प्रतिनिवर्तितुं च कामं शकः । तथापि एप विधिः भृत्यः स्वामिप्रस्थापनं नोच्यते न विधीयते हि ॥ २१ ॥ तदेव विवृणोति-नहीति । हे तात! प्रेषयिता स्वामी । कथचन केन। प्रकारणापि प्रेभ्यो नाहि ।। २२ ॥ भवानिति । कलचं रक्षणीय वस्तु । एषा गतिः लोकस्थितिरित्यर्थः॥ २३ ॥ एतस्य कार्यस्य समुद्रलङ्कनस्य । अर्धस्य प्रयो| जनस्य । उतार्थमर्थान्तरन्यासेनाह मूले हीति । वृक्षस्य चेति शेषः ॥ २५-२७ ॥ यदीति । नान्ये गमिष्पन्तीति व्यत्ययः। गतिसामाभावादित्यर्थः ॥२८-३३॥
सा-दर्यक्षसत्तम ! हरिणी पिले अक्षिणी येषां कपीना तेषु सत्तमः । यहा हर्यक्षः सिंह व सतमः श्रेष्ठः ॥ २० ॥
For Private And Personal Use Only

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699