Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
अथ सम्पातिप्रश्नोत्तरं सप्तपञ्चाशे-शोकादित्यादि । कर्मणा हिंसाकर्मणा ॥१॥ रौद्राम् आत्मत्यागाध्यवसायरूपत्वेन क्रूराम् ॥२-४॥बभूवेत्यादि । शोकाद भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः। श्रद्दधुर्नेव तद्वाक्यं कर्मणा तस्य शङ्किताः॥१॥ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्र प्लवङ्गमाः। चक्रुर्बुद्धिं तदा रौद्रा सर्वान् नो भक्षयिष्यति ॥२॥ सर्वथा प्रायमासीनान यदि नो भक्षयि ष्यति । कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः॥३॥ एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः । अवतार्य गिरेः शृङ्गाद गृध्रमाहाङ्गदस्तदा ॥ ४॥ बभूवःरजा नाम वानरेन्द्रः प्रतापवान् । ममार्यः पार्थिवः पक्षिन धार्मिक स्तस्य चात्मजो॥५॥ सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ । लोके विश्रुतकर्माऽभूद्राजा वाली पिता मम॥६॥ राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः। रामो दाशरथिः श्रीमान प्रविष्टो दण्डकावनम् ॥ ७॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया। पितुर्निदेशनिरतो धयं पन्थानमाश्रितः । तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ ८॥ रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् । ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥९॥रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ १० ॥ एवं गृध्रो हतस्तेन रावणेन बलीयसा । संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ ११ ॥ ततो मम पितृव्येण सुग्रीवेण महात्मना।
चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥ १२ ॥ मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ॥ १३ ॥ Mआर्यः पितामहः । आत्मजौ औरसौ । ओघबलौ ओघसङ्ख्याकपुरुषबलौ । ओघसङ्ख्या च पूर्वोक्ता ॥५-८॥ रामस्य तु पितुमित्रमिति कथनात् SI शोकादिति । कर्मणा शहिताः " मृतं मृतं च भक्षिष्ये " इति भक्षणकर्मप्रतिपादकवाक्येन भीताः ॥ १॥ रोद्रो बुद्धिम् आत्मत्यागाध्यवसायरूपत्वेन करा मतिम् ॥ २-४ ॥ आर्यः पितामहः ॥ ५॥ ओघवली ओघसङ्ख्याकपुरुषवलो । ओघः सेनासमुदायः ॥६-१३ ॥
For Private And Personal Use Only

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699