SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie अथ सम्पातिप्रश्नोत्तरं सप्तपञ्चाशे-शोकादित्यादि । कर्मणा हिंसाकर्मणा ॥१॥ रौद्राम् आत्मत्यागाध्यवसायरूपत्वेन क्रूराम् ॥२-४॥बभूवेत्यादि । शोकाद भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः। श्रद्दधुर्नेव तद्वाक्यं कर्मणा तस्य शङ्किताः॥१॥ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्र प्लवङ्गमाः। चक्रुर्बुद्धिं तदा रौद्रा सर्वान् नो भक्षयिष्यति ॥२॥ सर्वथा प्रायमासीनान यदि नो भक्षयि ष्यति । कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः॥३॥ एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः । अवतार्य गिरेः शृङ्गाद गृध्रमाहाङ्गदस्तदा ॥ ४॥ बभूवःरजा नाम वानरेन्द्रः प्रतापवान् । ममार्यः पार्थिवः पक्षिन धार्मिक स्तस्य चात्मजो॥५॥ सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ । लोके विश्रुतकर्माऽभूद्राजा वाली पिता मम॥६॥ राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः। रामो दाशरथिः श्रीमान प्रविष्टो दण्डकावनम् ॥ ७॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया। पितुर्निदेशनिरतो धयं पन्थानमाश्रितः । तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ ८॥ रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् । ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥९॥रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ १० ॥ एवं गृध्रो हतस्तेन रावणेन बलीयसा । संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ ११ ॥ ततो मम पितृव्येण सुग्रीवेण महात्मना। चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥ १२ ॥ मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ॥ १३ ॥ Mआर्यः पितामहः । आत्मजौ औरसौ । ओघबलौ ओघसङ्ख्याकपुरुषबलौ । ओघसङ्ख्या च पूर्वोक्ता ॥५-८॥ रामस्य तु पितुमित्रमिति कथनात् SI शोकादिति । कर्मणा शहिताः " मृतं मृतं च भक्षिष्ये " इति भक्षणकर्मप्रतिपादकवाक्येन भीताः ॥ १॥ रोद्रो बुद्धिम् आत्मत्यागाध्यवसायरूपत्वेन करा मतिम् ॥ २-४ ॥ आर्यः पितामहः ॥ ५॥ ओघवली ओघसङ्ख्याकपुरुषवलो । ओघः सेनासमुदायः ॥६-१३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy