SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir चा.रा.भू. संबन्धः॥१५॥१६॥ तदसुखमिति । समीक्ष्य ज्ञात्वेत्यर्थः । ज्ञानं च वचनश्रवणं वानराणां दर्शनं च । अस्य श्लोकस्यानन्तरं सर्गसमाप्तिर्भवितुमर्हति॥१७|| टी.कि.का. रामातु-तदसुखमिति । श्रुत्वेति शेषः । स गृध्रराडिति सम्यक् । अन्यथा वृत्तभङ्ग स्यात् । केषुचिकोशेषु अस्य श्लोकस्पानन्तरं सर्गकरण दृश्यते । केषुचित्सूर्यांशुदग्धपक्षत्वादिति २१४६॥ स०५६ तदसुखमनुकीर्तितं वचो भुवि पतितांश्चसमीक्ष्य वानरान् । भृशचलितमतिर्महामतिः कृपणमुदाहृतवान स गृध्रराट् ॥१७॥ तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् । अब्रवीद्रचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १८ ॥ कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे । जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥१९॥ कथमासीजनस्थाने युद्धं राक्षसगृध्रयोः । नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ २०॥ इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् । यवी यसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥२१॥ अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात् । तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ २२ ॥ भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः । तस्यैव च मम भ्रातुः सखा दश रथः कथम् ॥२३॥ यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः। सूर्याशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम्॥२४॥ इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः॥२५॥ इत्या०श्रीरामायणे श्रीमत्किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः॥५६॥ श्लोकस्यानन्तरं दृश्यते । प्रायेण सर्गसमाप्तिद्योतकवृत्तभेदसद्भावात् तदसुखमिति श्लोकानन्तरं सर्गकरणमुपपन्नमिति प्रतीयते ॥ १७ ॥ तीक्ष्णतुण्डः तीक्ष्णमुखः। “वकास्ये वदनं । तुण्डम्" इत्यमरः ॥१८-२४॥ अत्र "कथमासीजनस्थाने युद्धं राक्षसगृध्रयोः । सखा दशरथ कशम्" इत्येवमनुवादात् पूर्वमिदमप्यङ्गन्देनोक्तमिति ध्येयम् । अस्मिन् सर्गे पञ्चविंशतिश्लोकाः॥२५॥ इति श्रीगो. श्रीरामा० मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥५६॥ तदसुखमिति । वचः भ्रातृनिधनज्ञापकं वचः, श्रुत्वेति शेषः । वानरान् भुवि पतितांश्च समीक्ष्य ज्ञात्वा कृपणं भ्रातृवधमकारप्रश्नत्वाहीनं बच इत्यनुषङ्गः । उदा इतवान् पृष्टवान् ॥ १७-१९॥ कथमासीजनस्थाने युदम्, सखा दशरथः कथमित्यनुवादेन च तदुभयमप्यङ्गदेन पूर्वमुक्तमित्यवगन्तव्यम् ॥ २०-२५॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षट्रपक्षाशः सर्गः ॥ ५६ ॥ 0 सा--गस्य स्वानुजमरणश्रवणतोऽङ्गस्मरण नास्तीति सूचयितुं कविः पुनः तीक्ष्णतुण्डो बचनमब्रवीदिति वदति-तस्विति । यद्वा पूर्व वानरान् प्रत्युदाहृतवानिति अन तु अङ्गदस्य मुखोद्गतं श्रुत्वा वचन IN मजबीदित्युक्या राजपुत्रत्वेनाङ्गदमात्र प्रत्युक्तिरिति न पुनरुक्तिः ॥ १८॥ ॥१४६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy