________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ब
हकारुण्ययन्त्रिताः स्नेहकारुण्याभ्यां बद्धाः । अन्योन्यं प्रत्येकं प्रत्येकम् ॥ १०-१२॥ परमां गतिं मुक्तिमित्यर्थः ॥ १३ ॥ १४ ॥ राम
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि। प्रियंकुर्वन्तिरामस्य त्यक्त्वा प्राणान् यथा वयम् । अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः॥१०॥ तेन तस्योपकारार्थ त्यजतात्मानमात्मना। प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ॥११॥राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः। कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्॥१२॥ स सुखी गृध्रराजस्तु रावणेन हतोरणे। मुक्तश्च सुग्रीवभयाद्तश्च परमांगतिम्॥१३॥ जटायुषो विनाशेनराज्ञो दशरथस्य च। हरणेन च वैदेह्याः संशयं हरयो गताः॥१४॥ रामलक्ष्मणयोर्वास अरण्ये सह सीतया। राघवस्य च बाणेन वालिनश्च ।
तथा वधः॥१५॥रामकोपादशेषाणां राक्षसानां तथा वधः । कैकेय्या वरदानेन इदं हि विकृतं कृतम् ॥ १६॥ लक्ष्मणयोरित्यादि । रामवनवासमारभ्य प्रायोपवेशपर्यन्तं यदस्ति तत्सर्वमिदं विकृतं कैकेय्या वरदानेन कृतं हीति संबन्धः । इत्यङ्गदोऽब्रवीदिति तथेति सार्धश्लोकमकं वाक्यम् । स्नेहकारुण्ययन्त्रिताः रामस्नेहकारुण्याभ्यां निबद्धाः वयं यथा तथा उपकुर्वन्ति उपकुर्वाणानि तिर्यग्योनिगतान्यपि सर्वाण्यपि भूतानि अन्योन्य प्रत्येक प्रत्येकम रामस्य प्रियं कुर्वन्ति ॥१०॥ जटायुषा रामस्य प्रियं कृतमित्युक्तं तदेव विवृणोति-तेनेति । तस्य रामस्य उपकारार्थम् आत्मानं| त्यजता जटायुषा प्रियं कृतमिति सम्बन्धः ॥११॥राघवार्थ इतिं । संत्यक्तजीविताः सन्त्यक्तजीविताशाः॥ १२॥ सुमीवभयान्मुक्तः सुग्रीवस्य वनचरेश्वरत्वेन वान | राणामिव जटायुषोपि सुग्रीवनिमित्तकं भयं सम्भविष्यतीति आलोच्यैवमुक्तमिति भावः।।१३।। जटायुषो विनाशेन दशरथस्य विनाशेन वैदेह्या हरणेन च हरयःसंशयं प्राणसंशयम् गता इति योजना। जटायुर्यदिन विनश्येत् सीता नापहियेतदशरथो यदि जीवेत रामादीनां बना प्रत्यानयनं सम्भवेदिति भावः । जटायुर्वेदेवाः कृते रावणेन सह युद्धं कृत्वारामसत्रिधानमरणेन उत्तमगतिभागभूत, वयं तु रामसमीपेन बसामः, सीतामपिन पश्यामः अतो वृथा प्राणांस्त्यजाम इति दुःखातिशयोक्ति रिति ज्ञेयम् ॥ १४ ॥ उक्तहेतूनां कारणमाह-रामलक्ष्मणयोरित्यादिना श्लोकद्वयेन । रामादीनां वनवास: राक्षसाना खरादीनां वालिनो वधश्च इतीदं विकृतं केकेच्या वरदानेन कृतं हीति सम्बन्धः । कैकेयीवरदानेन हेतुना रामवनवासमारभ्य प्रायोपवेशपर्यन्तं यदस्ति तत्सर्व प्राप्तमिति भावः ॥ १५ ॥ १६ ॥
सा-स्नेहकारुण्ययन्त्रिता: उत्तमेषु स्नेहो भक्तिः । मध्यमेषु स्नेहः प्रीतिः । अधमेषु कारुण्यं कृपा । यजतेति तृतीयान्त जटायुधो विशेषणम् । आत्मानं शरीरम् । आत्मना मनसा ॥ १०॥११ सामान्यतस्तियवस्वामित्वं सुग्रीवस्येति सचीवमयान्मुक्त इति जटायुष प्रति पचनमुक्तिमिति भावः । यहा स्पेषां सुवीवाये यथा तथा सवामपि भयं तस्मादिति आन्तिपरवातयाऽदेनैवमुक्त सुग्रीवभपात् सुपीवस्य मयं सकार्याकरणे यस्मात्स तथा रामः तस्मात् मुक्तः शरीरात परमां गतिं गत इत्यन्वयः । अनेन सुप्रीमोपि परतन्त्र इति भीतोऽस्मान् भीषयतीति सूच्यते ॥१३॥
A
For Private And Personal Use Only