Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतैरित्यादि ॥१॥२॥ रामानु० - कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैरिति पाठः ॥ २ ॥ अद्य त्विति । पूर्व निशाकरसुनिप्रयाणानन्तरम् अष्टौ वर्षसहस्राणि व्यतीतानीत्युक्तवान् । अतः सायं वर्षशतं गतमित्येतदृष्टवर्षसहस्रोपलक्षणम् ॥ ३ ॥ वितर्कैः विविधविचारैः ॥ ४-६ ॥ रामानु० - बुद्धयता च मया वीर्यमिति एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः । मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम् ॥ १ ॥ कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः । अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥ २ ॥ अद्य त्वेतस्य कालस्य साग्रं वर्ष शतं गतम् । देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः ॥ ३ ॥ महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे । माँ निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम् ॥ ४॥ उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये । बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु । सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ॥ ५ ॥ बुध्यता च मया वीर्य रावणस्य दुरात्मनः । पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् ॥ ६ ॥ तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ । न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् ॥ ७ ॥ तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैः सह । उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ॥ ८ ॥ स दृष्ट्वा स्वां तनुं पक्षैरुद्भूतैररुणच्छदैः । प्रहर्षमतुलं लेभे वानरश्चेदमब्रवीत् ॥ ९ ॥ ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः । आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ ॥ १० ॥ यौवने वर्तमानस्य ममासीद्यः पराक्रमः । तमेवाद्यानुगच्छामि बलं पौरुषमेव च ॥ ११ ॥
पाठः ॥ ६ ॥ ॥ ७ ॥ ८ ॥ अरुणच्छदैः अरुणबहिष्पत्रैः ॥ ९-१४ ॥
॥ १ ॥ २ ॥ अद्य त्वेत्तस्येति । पूर्व निशाकर मुनिप्रयाणानन्तरम् । अष्टौ वर्षसहस्राणि मम व्यतीतानीत्युक्तत्वात् इदानीं सायं वर्षशतमित्येतदष्टवर्षसहस्रोप लक्षणम् || ३ || वित्तकैः विविधविचारैः ॥ टीका०-महाप्रस्थानसंज्ञकं तम् । वितर्कः विविधविचारः कदा वानरास्समेष्यन्ति कदा पक्षादिकं मम प्रादुर्भविष्यतीत्येवं विचारः ॥ ४ ॥ ९ ॥ बुद्धयनेति । तस्याः विलपितं वा मैथिली कथं न त्राता न गुप्ता इति वाग्भिस्तर्जितः ॥ ६ ॥ ७ ॥ तस्येति । पक्षाविति प्रपक्षयोरुपलक्षणम् । अन्यथा उत्तरत्र पक्षैरिति बहुवचनायोगात् ॥ ८ ॥ अरुणच्छदैः अरुणबहिष्पत्रैः । अरुणप्रभैरिति पाठः ॥ ९ ॥ १० बलं पौराणमेव च इति पाठः । पुराणमेव पौराणम् । स्त्रार्थेऽण् । पुराणेषु
॥
१४६
For Private And Personal Use Only

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699