Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 677
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रक्षणार्थे तदुपरि सत्वरमागच्छमित्यर्थः ॥ १४ ॥ पक्षाभ्यामिति । प्रमादात् सूर्यो धक्ष्यतीति बुद्धयवधानाभावात् ॥ १६-१७ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥ एवमुक्त्वेत्यादि ॥ १-४ ॥ अरण्यमिति । पक्षाभ्यां च मया गुतो जटायुर्न प्रदह्यते । प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम् ॥ १५ ॥ आशङ्केतं निपतितं जनस्थाने जटायुषम् | अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ १६ ॥ राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्र मेण च । सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरैः॥ १७ ॥ इत्यार्षे श्रीमत्किष्किन्धाकाण्डे एकषष्टितमः सर्गः ६ १ एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम्। अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ॥ १ ॥ पक्षौ च ते प्रपक्षौ च पुनरन्यो भविष्यतः । प्राणाश्च चक्षुषी चैव विक्रमश्च बलं चते ॥ २ ॥ पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम् । दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ ३ ॥ राजा दशरथो नाम कश्विदिक्ष्वाकुनन्दनः । तस्य पुत्रो महा तेजा रामो नाम भविष्यति ॥ ४ ॥ अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति । अस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ॥ ५ ॥ नैर्ऋतो रावणो नाम तस्य भार्यौ हरिष्यति । राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ॥ ६ ॥ सा च कामैः प्रलोभ्यन्ती भक्ष्यभोज्यैश्च मैथिली । न भोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी ॥ ७ ॥ | अस्मिन्नर्थे अरण्यगमने ॥ ५ ॥ ६ ॥ काम्यन्त इति कामैः अपेक्षणीयैः । प्रलोभ्यन्ती प्रलोभ्यमाना ॥ ७ ॥ महीं प्रति निपपात । तं पतन्तं दृष्ट्वा आकाशात पूर्वाधिष्ठिताकाशप्रदेशात् आत्मानं तूर्ण मुक्तवान जटापुषो रक्षणार्थं तदुपरि सत्वरमागच्छमित्यर्थः । प्रमादा दिति । पक्षयोविवृतत्वे सूर्यो धक्ष्यतीति बुद्धयभावात् ॥१४- १७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकषष्टितमः सर्गः ॥ ६१ ॥ एवमिति । एवं स्वव्यापारमुक्त्वा ॥ १। Teresa भविष्यन्तीति वचनव्यत्ययः कर्तव्यः । प्रपक्षौ प्रधानपक्षौ । पूर्ववत्सर्व व्यवहारसमर्थावित्यर्थः ॥ २ ॥ पुराण इति । पुराणे शाखरहस्ये श्रुत्वा स्थितस्य मम च तपसा दृष्टमिति सम्बन्धः ॥ ३-६ ॥ सा चेति । काम्यन्त इति कामाः स० [सुरदानवः सुरैः सहिता दानवास्तः । एतेन " येषां च विरोधः शाश्वतिकः " इत्येकवज्ञानामात्रः कथमिति निरस्तम् ॥ ॥ प्रतोपन्ती प्रलोभ्यमाना प्रोमोग्याः प्रलोभ्याः, तदाचरन्ती । वस्तुतस्तु न प्रलोमनीयेत्यर्थः । महाभागाऽदुःखमाना इति पाठः । दुःखमन्ना मोज्याभावप्रयोज्यः खरहिता नित्यतृप्तत्वात्तस्य दुरन्तत्वाद्वा भोजनमिति मन्तव्यम् । मोदति मोक्ष्यते ॥ ७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699