Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 669
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तीरं देशम् , तीरप्रदेशमित्यर्थः । तं देशं संपात्यावासभूतं देशं पुनः प्रत्यानयित्वा । प्रवृत्तिं वृत्तान्तम् उपलभ्य ते वानराः हृष्टाः बभूवुः ॥ ३५ ॥३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥५८॥ ततो नीत्वा तु तं देशं तीरं नदनदीपतेः। निर्दग्धपक्षं सम्पाति वानराः सुमहौजसः ।। ३५॥ पुनः प्रत्यानयित्वा व तं देशं पतगेश्वरम् । बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥५८ ॥ ततस्तदमृतास्वादं गृध्रराजेन भाषितम् । निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः ॥१॥ जाम्बवान् वानरश्रेष्ठः सह सर्वेः प्लवङ्गमैः । भूतलात्सहसोत्थाय गृध्रराजमथाब्रवीत् ॥२॥ व सीता केन वा दृष्टा को वा हरति मैथिलीम् । तदाख्यातु भवान सर्व गतिर्भव वनौकसाम् ॥३॥ को दाशरथिबाणानां वजवेगनिपातिनाम् । स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥४॥ ततस्तदमृतास्वादमित्यारभ्य पञ्च सर्गाः प्रक्षिप्ताः । सर्वकोशेष्वदर्शनात् तान् विनापि कथासङ्घट्टनात् पूर्वोक्तार्थविरोधस्फोरकत्वाच । तथापि तृतीया ॥ ३४ ॥ तत इत्यादिश्लोकद्वयमेकं वाक्यम् । वानराः पतगेश्वरं सम्पातिं नदनदीपतेः तीरं देशं तीरप्रदेशं नीत्वा पुनः तं देशम् आवासभूदेशमत्या नयित्वा प्रवृत्ति सीतावृत्तान्तमुपलभ्य ते वानराः हृष्टा बभूवुरिति सम्बन्धः ॥ ३५॥ ३६॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्या किष्किन्धाकाण्डव्याख्यायामष्टपनाशः सर्गः ॥ ५८ ॥ तत इत्यादि । अमृतस्येवास्वादो यस्य तत् तथोक्तम्, अमृततुल्पमित्यर्थः ॥११॥२॥ अथ जाम्बवान लनपक्षा स०-अमृतास्वादम् अमृतवन्मधुरम् । यदत्तो हृष्टाः । वदता उ इति पदम् । यस्ष गूधराजस्य वदता वामिमता । ततः तेन गृधरा जेन भाषितं वचः निशम्य ते प्रवगर्षभाः हष्टाः । उ विस्मय इत्यर्थः । प्रायः प्रायोपवेशिनां हर्षोत्कर्षः कापि नावलोकित इति दैवगतिविचित्रेति विसिस्मिरे इति भावः । यहा वदतेति तृतीयकरचनं गुधराजपदनान्येति । निशम्य तत्र संहष्टा इति पाठे नायासः । बदतः इति पदे वा बदशम्दा| तृतीयान्तात्ततिः । तस्प गृध्रराजेनेस्यनेनान्वयः । बदत इति षष्टी शेष सती तृतीयार्थ वा ॥ १ ॥ विषम-सीतां को हरति स्म, दयमाणा च केन दृष्टा क्याम्पेनापि मा। हता च क वा वर्तते इति सर्व भवानाख्यातु । सामान्यतः श्रुत्वा प्रायोपवेशास्थिताना विशिष्य बदविल्यर्थः ॥३॥ स-सीता... कृति नेताऽनङ्गस्मरण इत्याह-क प्रति । स्वमिति दाशरथियाणपदमेव लक्ष्मणमुक्तपदेनाष्यन्वेति । स्वयं दाश रथिः स्वेच्छयव दाशरथिदशरथपापस्य रामः । तस्प पाणानानित्यवान्जयो वा । यहा दाशरविपदेन रामरामानुजयोहणम् । स्वयंलक्ष्मणमुकाना स्वयं लक्ष्मण स्वस्वनाम रामेति लक्ष्मणेति च मुक्त शिल्पिभिर्येष| ते तथा । " लक्ष्मणं लाम्चने नाम्नि " इति विश्वः ॥ ४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699