Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.का.
स०६०
वागिति । सर्वेषां वः युष्माकम् वाङ्मतिभ्यां प्रियं करिष्यामि हि । दाशरथेर्यत्कार्य तन्ममैव ॥२५-२८॥ कालसङ्गेन कालविलम्बन ॥२९॥
तच्छुत्वापि हि मे बुद्धिर्नासीत्काचित्पराक्रमे । अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे॥२३॥ यत्तु शक्यं मया कर्तु वाग्बुद्धिगुणवर्तिना। श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ॥ २४ ॥ वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः । यद्धि दाशरथेः कार्य मम तन्नात्र संशयः ॥ २५॥ ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः । प्रेषिताः कपिराजेन देवैरपि दुरासदाः ॥२६॥ रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः । त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ॥ २७॥ काम खलु दशग्रीवस्तेजोबलसमन्वितः। भवतां तु समर्थानां न किञ्चिदपि दुष्करम् ॥२८॥ तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः । न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥२९॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥५९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥२९॥ कालातिक्रमे एष हेतुरिति भावः ॥२२-२४॥ वागिति । सर्वेषां सर्वप्राणिनाम् । वागमतिभ्यां प्रियं करिष्यामि हि । दाशरथेः वः दाशरथिसम्बन्धिना युष्माकं
यत्कार्य तनु मम हिममेव, अब संशयो नेति योजना ॥ २५ ॥ २६ ॥ लोकानां त्राणनिग्रहे वाणे रक्षणे निग्रहे च ॥२७॥ काममिति । न किचिदपि दुष्करम, पानिपतीतियोषः ॥२८॥ तदिति । कालसङ्गेन कालविलम्बन भविष्यदर्पज्ञापनेन तेन बुद्धचा प्रियं कृतं भवतीति वेदितव्यम् ॥२९॥ इति श्रीमहेन्चरतीयविरचिताया। श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायाम् एकोनषष्टितमः सर्गः ॥ ५९॥ स०--पराक्रमं श्रुतवतोऽपि ते कुनो न पराक्रमे मतिरुदितत्यत आह-अपक्ष इति । पूर्व पक्षी इदानीमपक्षो हि यतः कथविकर्म समारमे प्रारम्भ कुर्याम् । आरमेदिति पाठे-पारोक्षिकयुक्तिरिति मन्तव्यम् । परस्म पदिता तु चान्द्री ॥२३॥ वाग्बुद्धिगुणवर्तिना वाक् च बुनिष तपोगुणा येषां ते आर्याः ताननुवतितुं शीलमपास्तीति स तथा । तेन मया कर्तुं यच्छापं तत्र न भूपताम् । पौरुषाश्रयं पौरुषस्य पराकमस्य भाश्रयो यस्मिस्तत् । यद्वा वाम्बुद्धिगुणवर्तिना वायुविहितको गुण उपकारः तन्मात्रानुवर्तिना।।२४।। कपिराजेन सुप्रीवेण । प्रहिताः प्रेषिताः । देवैरपि दुरासदाः अतो मनस्विनः सीताम्वेषणमानसाः भवतेति शेषः ॥२६॥ निशिताः शाणोलीदाः । विहिता इति पाटे 'दधातेहि: ' इति ही विहिताः कता इत्यर्थः । विहिताः विशिष्टहितकरा: विगतहिताक्ष, साधसाधूनामिति वा । बागेन सहितो निमहः प्राणनिषदः तस्मिन् यहा पाणां लोकानामध्ये विहिताः द्वेषिणः लोकानामित्यावर्तते । तेषां त्राण निगहे पर्याप्ताः बाणनिरोधे समर्था पति वा ॥ २७ ॥ भवतो तु समर्थानामिषत्र तुशम्देन स्वयं समर्थानां तत्रापि रामानु गृहीतानां दुष्करं नेति विशेष द्योतयति ।। २८॥
॥१५॥
For Private And Personal Use Only

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699