Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
१४४॥
| निमित्तभयादित्यर्थः ॥ ६ ॥ ७ ॥ तव यौवराज्यस्थापनं किं विस्मृतोऽसीत्यत्राह - राज्य इति । पुत्रः जनिष्यमाणः स्वपुत्रः ॥ ८ ॥ भिन्नमन्त्रः प्रकाशित बा.रा.भू. ) विगृह्यावस्थानमन्त्रः । अपराद्धः कृतापराधः । यद्वा पितृहिंसनेन सआतापराधः ॥ ९ ॥ उपांशुदण्डेन रहस्यदण्डरूपेण | उपपादयेत् प्रापयेत् ॥ १० ॥ तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि । आर्य को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ ७ ॥ राज्ये पुत्रः प्रतिष्ठाप्यः सगुण निर्गुणोऽपि वा । कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ ८ ॥ भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् । किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ ९ ॥ उपांशुदण्डेन हि मां बन्धनेनो पपादयेत् । शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ १० ॥ बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम् । अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः ॥ ११ ॥ अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् । इहैव प्राय मासिष्ये श्रेयो मरणमेव मे ॥ १२ ॥ अभिवादन पूर्व तु राघवौ बलशालिनी । अभिवादनपूर्व तु राजा कुशलमेव च । वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ॥ १३ ॥ आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे । मातरं चैव
तारामाश्वासयितुमर्हथ ॥ १४ ॥ प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी । विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥ १५ ॥ एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च । विवेश चाङ्गदो भूमौ रुदन दर्भेषु दुर्मनाः ॥ १६ ॥ तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः । नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ १७ ॥ बन्धनाद्वाऽवसादान्म इति । वेति प्रसिद्धौ । बन्धनरूपावसादात् ॥ ११ ॥ १२ ॥ अभिवादनेति । राघवौ कुशलं वाच्यावित्यनुषङ्गः ॥ १३ ॥ रामानु० - अभिवादनपूर्व तु राघवौं बलशालिनौ । अभिवादनपूर्वं तु राजा कुशलमेव च । वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः ॥ इति पाठक्रमः ॥ १३ ॥ १४॥ तपस्विनी शोच नीया ॥ १५ ॥ १६ ॥ तस्य संविशतस्तस्मिन् संविशति । संवेशः शयनम् ॥ १७ ॥ १८ ॥
| भयादेवादिष्टाः ॥ ६ ॥ स्मृतिहीने पूर्वोपकारस्मरणशून्ये ॥ ७ ॥ ८ ॥ मिन्नेति । भिन्नमन्त्रः प्रकाशितविगृह्यावस्थानविषयमन्त्रः ॥ ९-१६ ॥ तस्येति । समीप इति
For Private And Personal Use Only
टी.कि.कां. सं० ५५
॥ १४४॥

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699