SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir १४४॥ | निमित्तभयादित्यर्थः ॥ ६ ॥ ७ ॥ तव यौवराज्यस्थापनं किं विस्मृतोऽसीत्यत्राह - राज्य इति । पुत्रः जनिष्यमाणः स्वपुत्रः ॥ ८ ॥ भिन्नमन्त्रः प्रकाशित बा.रा.भू. ) विगृह्यावस्थानमन्त्रः । अपराद्धः कृतापराधः । यद्वा पितृहिंसनेन सआतापराधः ॥ ९ ॥ उपांशुदण्डेन रहस्यदण्डरूपेण | उपपादयेत् प्रापयेत् ॥ १० ॥ तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि । आर्य को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ ७ ॥ राज्ये पुत्रः प्रतिष्ठाप्यः सगुण निर्गुणोऽपि वा । कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ ८ ॥ भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् । किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ ९ ॥ उपांशुदण्डेन हि मां बन्धनेनो पपादयेत् । शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ १० ॥ बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम् । अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः ॥ ११ ॥ अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् । इहैव प्राय मासिष्ये श्रेयो मरणमेव मे ॥ १२ ॥ अभिवादन पूर्व तु राघवौ बलशालिनी । अभिवादनपूर्व तु राजा कुशलमेव च । वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ॥ १३ ॥ आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे । मातरं चैव तारामाश्वासयितुमर्हथ ॥ १४ ॥ प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी । विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥ १५ ॥ एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च । विवेश चाङ्गदो भूमौ रुदन दर्भेषु दुर्मनाः ॥ १६ ॥ तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः । नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ १७ ॥ बन्धनाद्वाऽवसादान्म इति । वेति प्रसिद्धौ । बन्धनरूपावसादात् ॥ ११ ॥ १२ ॥ अभिवादनेति । राघवौ कुशलं वाच्यावित्यनुषङ्गः ॥ १३ ॥ रामानु० - अभिवादनपूर्व तु राघवौं बलशालिनौ । अभिवादनपूर्वं तु राजा कुशलमेव च । वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः ॥ इति पाठक्रमः ॥ १३ ॥ १४॥ तपस्विनी शोच नीया ॥ १५ ॥ १६ ॥ तस्य संविशतस्तस्मिन् संविशति । संवेशः शयनम् ॥ १७ ॥ १८ ॥ | भयादेवादिष्टाः ॥ ६ ॥ स्मृतिहीने पूर्वोपकारस्मरणशून्ये ॥ ७ ॥ ८ ॥ मिन्नेति । भिन्नमन्त्रः प्रकाशितविगृह्यावस्थानविषयमन्त्रः ॥ ९-१६ ॥ तस्येति । समीप इति For Private And Personal Use Only टी.कि.कां. सं० ५५ ॥ १४४॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy