Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 659
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तत्र विन्ध्ये ॥ १९ ॥ उदक्तीरं समुद्रस्योत्तरतीरम् । एतत् प्रायोपवेशनं क्षममिति, मत्वेति शेषः ॥२०॥ जनस्थानवघं जनस्थानस्थरक्षोवधम् ॥२३॥ आगतं भयं प्रायोपवेशनरूपभयानिमित्तं च । वदतां वदत्सु च स महीधरो भृशं सन्नादितनिर्दरान्तरो बभूवेत्युत्तरेणान्वयः । अस्मिन्सर्गे सार्धत्रयो । विंशतिश्लोकाः ॥ २२-२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥१५॥ सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् । परिवार्याङ्गदं सर्वे व्यवसन प्रायमासितुम् ॥१८॥ मतं तदालिपुत्रस्य विज्ञाय प्लवगर्षभाः। उपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन्॥१९॥ दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः। मुमूर्षवो हरिश्रेष्ठा एतत्क्षममिति स्म ह ॥ २०॥ रामस्य वनवासं च क्षयं दशरथस्य च । जनस्थानवधं चैव वधं चैव जटायुषः ॥२१॥ हरणं चैव वैदेह्या वालिनश्च वधं रणे । रामकोपं च वदतां हरीणां भयमागतम् ॥ २२ ॥ स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः । बभूव सन्नादितनिर्दरान्तरो भृशं नदद्धिर्जलदैरिवोल्बणैः ॥ २३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले । हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ १॥ संपाति म नाम्ना तु चिरञ्जीवी विहङ्गमः । भ्राता जटायुषः श्रीमान प्रख्यातबलपौरुषः॥२॥ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥३॥ अथ संपातिसंवादः षट्पञ्चाशे-उपविष्टा इत्यादि । उपचक्रमे प्राप्ठमुपकान्तः॥॥ संपातिरित्यादि श्शेकद्वयमेकान्वयम् ॥२॥३॥ शेषः ॥ १७॥१८ ॥ मतमिति । तत्र विन्ध्ये ॥१९॥ दक्षिणाष्विति । उत्तरीयं समाहिता इति कर्तरि निष्ठा । उत्तरीयं संवसितवन्त इत्यर्थः । उदक्तीरं समाश्रिता इति च पाठः ॥ २० ॥ २१ ॥ हरीणां भयमागतं सम्पातिरूपं भयानिमित्तं प्राप्तम् । एतच्चानन्तरसर्गादो स्पष्टीभविष्यति ॥ २१ ॥ भयनिमित्तागमने हेतुमाह-स संविशद्भिरिति । सन्त्रादितनिर्दशन्तरत्वस्य भयनिमित्तसम्पात्यागमनहेतुत्वात् । नदद्भिः सम्पातिदर्शनजनितभयेन नादं कुर्वद्भिः ॥ २३॥ इति श्रीमहेश्वरतीर्थ || विरचितायो श्रीरामायणत त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ ५५॥१-३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699