Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
Mब्रह्मणा हेमाय दत्तम्॥१५॥१६॥ ममेति ।सेदानी ब्रह्मसदनं गतेत्याशयेनाह नृत्तेति॥१७॥ कि कार्य किं प्रयोजनम् । कस्य हेतोः कस्मात् प्रयोजनात्॥१८॥ अस्मिन् सगै सार्धे कोनविंशतिश्लोकाः ॥१९॥ इति श्रीगोवि. श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥५१॥ दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा। इदं रक्षामि भवनं हेमाया वानरोत्तम ॥ १६॥ मम प्रियसखी हेमा नृत्तगीतविशारदा । तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ॥ १७ ॥ किं कार्य कस्य वा हेतोः कान्ताराणि प्रपश्यथ। कथं चेदं वनं दुर्ग युष्माभिरुपलक्षितम् ॥ १८॥ इमान्यभ्यवहायांणि मूलानि च फलानि च । भुत्ता पीत्वा च पानीयं सर्व मे वक्तुमर्हथ ॥१९॥ इत्यार्षे श्रीरामायणे श्रीमत्किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥५१॥
अथ तानब्रवीत्सर्वान् विक्रान्तान हरिपुङ्गवान् । इदं वचनमेकाना तापसी धर्मचारिणी॥॥वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् । यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ २ ॥ तस्यास्तद्वचनं श्रुत्वा हनुमान मारुतात्मजः।आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥३॥राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।रामो दाश रथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥४॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया । तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ॥ ५ ॥
अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे-अथेत्यादि ॥ ३ ॥२॥ आर्जवेन अकपटेन ।। ३-५॥ विचित्रनिर्माणसामर्थ्यगुणयोगात अत्र ब्रह्मशब्दो दानवविश्वकर्ममयवाची ॥ १५ ॥ तर्हि त्वं का, किमर्थं चात्र तिष्ठसीत्यत आह-दहितेति । तस्याः हेभाया| इति सम्बन्धः ॥ १५ ॥ दत्तवरा, वरः पराप्रधृष्यत्वादिरूपः । युवयोः कः सम्बन्ध इत्यत आह ममेति । तथापि रक्षणसामर्थ्य तव कथमित्यत आह सयेति॥१७॥वानरागमनं पृच्छति-किं कार्यमिति ॥१८॥१९॥इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायो किष्किन्धाकाण्ड एकपञ्चाशः सर्ग:५१
अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे-अथेत्यादि ॥१॥ वानरा इति । मया श्राव्य मया श्रोतुं योग्यम ॥२॥ तस्या इति । आर्जवेन ऋजुस्वभावेन ॥३॥ Vाटी०-महेन्द्रवरुणोपमः महेन्द्रवरुणाभ्याम् उपमा साम्पं शौर्यगाम्भीर्यादौ यस्य स तथा ॥-4॥
For Private And Personal Use Only

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699