Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 617
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir Fa मन्त्रकरणाभावात्परस्मैपदम् । अस्तगिरिसमीपस्थसावर्णिमेरोरभिधानात्सर्वेपि समुद्रद्वीपादयोपि मागितव्यत्वेनोक्ताः ॥ ३९-१७॥ रामानु०-विश्वेदेवाण इति । पश्चिमा सन्ध्याम् अस्मटपेक्षया पश्चिमसन्ध्यायाम उत्तरपर्वतं मेरुमासाथ वर्तमानमादित्यमुपतिष्ठन्ति पूजयन्ति । मन्त्रकरणाभावात्परस्मैपदम् । अस्तगिरिसमीपस्थ | सावर्णिमेगेरभिधानात्ततः पूर्वस्था अनुक्ताः समुद्रबीपादयोपि मागितव्यत्वेनोक्ता इत्यवगन्तव्यम् । योजनानां सहस्राणि दश तानि दिवाकरः इति पाठः ॥ ३९-४७ ॥ एतावदिति । भास्करः रजनीक्षये जीवलोकस्य एतावत् उदयास्ताद्रिमध्यं वितिमिरं कृत्वा अस्तं गच्छतीति योजना ॥ १८-५० ॥ सदैवेति । दिष्ट प्रष्टव्यो मेरुसावर्णिमहर्षिः मूर्यसन्निभः। प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिली प्रति ॥४७॥ एतावज्जीवलोकस्य भास्करो रजनीक्षये। कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥४८॥ एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम् ॥ ४९ ॥ अधिगम्य तु वैदेहीं निलयं रावणस्य च । अस्तपर्वतमासाद्य पूणे मासे निवर्तत । ऊ मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ॥५०॥ सहैव शूरो युष्माभिः श्वशुरो मे गमि ष्यति । श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ॥५१॥ गुरुरेष महाबाहुः श्वशुरो मे महाबलः । भवन्तश्चापि विक्रान्ताःप्रमाणं सर्वकर्मसु ॥५२॥ प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिम दिशम् । [भवन्तः परिपश्यन्तुयथा दृश्येत जानकी । ] दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः । कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥५३॥ अतोऽन्यदपि यत्कार्य कार्यस्यास्य हितं भवेत् । संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥ ५४॥ कारिभिः आदिष्टकारिभिः॥ ५१ ॥ रामानु० शुरी मे गमिष्यतीति पाठः ॥ ५१ ॥५२॥ प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिम दिशमिति पाठः।। प्रमाणं व्यवस्थापकम् । पश्यध्वं पश्यत । आत्मनेपदमार्पम् ॥५३॥ अतोऽन्यदिति । अस्य कार्यस्य सीतान्वेषणरूपस्य अन्यदपि यद्धितं भवेत् । पतापदिति । भास्करः रजनीक्षये जीवलोकस्य एतावत्सर्वमुदयास्तमयाद्रिमध्यं वितिमिरं कृत्वा अस्तं गच्छतीति योजना ॥ १८-५१॥ भवन्तश्चेति । एवं सुषेणं प्रमाणं व्यवस्थापकम् ॥ ५२ ॥ ५॥ अन इत्यादि । अस्य रामस्य यत्कार्य प्रियमनुकूलं भवेनद्भवद्भिस्सम्मधार्य कर्तव्यमित्यर्थः ॥ ५४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699