Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नयपण्डितेत्यनन्तरमितिकरणं बोध्यम् । इत्यत्रवीदिति पूर्वेणान्वयः ॥ ७ ॥ ततः सुग्रीववचनात् हनूमति कार्यसमासङ्गं कार्यविषयासक्तिम् अवगम्य अस्मिन् सुग्रीवेण स्वकार्यभारो निक्षिप्त इति ज्ञात्वेत्यर्थः । स्वयमपि हनुमन्तं कार्यसाधकं विदित्वा चिन्तयामास ॥ ८ ॥ चिन्ताप्रकारमाह--सर्वथेत्या दिना श्लोकद्वयेन । अन्ते इतिकरणं बोध्यम् । कार्यसाधने विषये निश्चितार्थः निश्चित कार्यसाधकः । हनुमानपि निश्चितार्थंकरः || ९ || तदेवमिति । अस्य
त्वय्येव हनुमन् स्वस्ति बलं बुद्धिः पराक्रमः । देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥ ७ ॥ ततः कार्यसमासङ्गमव गम्य हनूमति । विदित्वा हनुमन्तं च चिन्तयामास राघवः ॥ ८ ॥ सर्वथा निश्चितार्थोऽयं हनुमति हरीश्वरः । निश्चितार्थ करश्चापि हनुमान कार्यसाधने ॥ ९ ॥ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः । भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः ॥ १० ॥ तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् । कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ ११ ॥ ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् । अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥ १२ ॥
Acharya Shri Kalassagarsuri Gyanmandir
कार्यफलोदयः अस्य संबन्धिनी कार्यसिद्धिः । ध्रुवः निश्चितः १० ॥ व्यवसायोत्तरं व्यवसायेन उत्तरं श्रेष्ठम् । कृतार्थः संवृत्त इव, अमन्यतेति ७ शेषः || ११|| राजपुत्र्या अभिज्ञानम् अभिज्ञायतेऽनेनेत्यभिज्ञानम् । ननु त्यक्तसकलधनस्य वन्यवृत्त्या वर्तमानस्य कुतोऽङ्गुलीयकमिति चेत् इदमेकमेत त्कार्यार्थे रक्षितवान् । अत एवाङ्गुलीयमुन्मुच्येति नोक्तम् । यद्वा रामनामाङ्कितमङ्गुलीयकं सीतायाः कदाचिद्रावणागमनात् पूर्व प्रणयपरत्वेन रामेण स्वीकृतमिति बोध्यम् । यद्वा भार्याखेहेन कनिष्ठिकायां सदा मुद्रिका धार्यत इति देशाचारः । यद्वा विवाहकाले जनकेन दत्तमिदं वरालङ्कारत्वेन । सेति । भूतं सत्त्वम् । तत्त्वमित्यत्र तदिति च्छेदः । तत् तथाशब्दायें। नयपण्डितेत्यत्रेतिकरणं द्रष्टव्यम् । तस्थाब्रवीचेति पूर्वेण सम्बन्धः ॥ ६ ॥ ७॥ अथ रामस्तुग्रीव वचनैर्हनुमतो न दुर्लभमस्तीत्यालोच्य समनन्तरकर्तव्यं चिन्तयति तत इति । ततः सुग्रीववचनात हनुमति कार्यसमासङ्गमवगम्य सुग्रीवेण हनुमति कार्यभारो निवेशित इति बुद्ध्वा हनुमन्तं स्वयमेव कार्यसाधकं विदित्वा च राघवचिन्तयामास ॥ ८ ॥ चिन्ता प्रकार माह- सर्वथेति श्लोकद्वयेन । कर्मभिः परिज्ञातस्य अस्य हनुमतः फलोदय इत्यत्र इतिकरणं द्रष्टव्यम् । एतस्य चिन्तयामासेति पूर्वेण सम्बन्धः ॥९॥१०॥ तं समीक्ष्येति । व्यवसायोत्तरमुद्योग प्रधानम् ॥११॥ अभिज्ञायते
स०-हनुमान् निश्चितार्थतरः । इदं च " अत्यन्तमन्तरङ्गत्वात्प्रधानाङ्ग हि मारुतिः इत्युक्तेः प्रधानत्वायुक्तमिति भावः ॥ ९ ॥
For Private And Personal Use Only

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699