SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भ. ॥८७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ हनुमान् रामभक्तोऽपि स्वस्वाम्यनुज्ञाभावेन तं ध्यायन् सुग्रीवसमीप एव स्थितः स्वस्वामिना सर्वस्वामिहितानुगुणं कार्यमारब्धवानित्याहै कोन त्रिंशे - समीक्ष्येत्यादि हनुमान्वाक्यमत्रवीदित्यन्तमेकं वाक्यम् । हनुमान् उक्तगुणविशिष्टं व्योम उक्तगुणविशिष्टं सुग्रीवं च समीक्ष्य । हरीशं प्रसाद्य दरीश्वरमुपागम्य प्रणयाद्वाक्यमब्रवीदिति संबन्धः । विमलमित्यादिना सेनासन्नाहस्य प्राप्तकालत्वमुक्तम् । समृद्धार्थमित्यादिना समयातिक्रमहेतवः समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्। सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् ॥ १ ॥ समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् । अत्यर्थमसतां मार्गमेकान्तगत मानसम् ॥ २ ॥ निर्वृत्तकार्य सिद्धार्थ प्रमदाभिरतं सदा । प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ॥ ३ ॥ स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् । विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ ४ ॥ क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः । मन्त्रिषु न्यस्तकार्ये च मन्त्रिणामनवेक्षकम् ॥ ५ ॥ उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् । निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ६ ॥ प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः । वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥७॥ हितं तत्त्वं च पथ्यं च सामधर्मार्थ नीतिमत् । प्रणय प्रीतिसंयुक्तं विश्वासकृतनिश्चयम् । हरीश्वरभुपागम्य हनुमान् वाक्यमब्रवीत ॥ ८ ॥ प्रदर्श्यन्ते । समृद्धार्थ संपूर्णरत्नवस्त्राभरणादिकम् । मन्दः अल्पः धर्मार्थयोः संग्रहः सम्पादनं यस्य तम् । एकान्तगतमानसम् एकस्मिन् काम समीक्ष्येत्यादि 'समृद्धार्थं च ' इत्यादिना ' कामवृत्तमवस्थितम् ' इत्यन्तेनोक्तविशेषणविशिष्टं सुग्रीवं समीक्ष्य मधुरैर्वाक्यैईरीश्वरं प्रसाद्य हरीश्वरमुपागम्य हनुमान् प्रणयाद्वाक्यमब्रवीदिति सम्बन्धः । मन्दधर्मार्थसहं मन्दौ स्वल्पौ धर्मार्थी सद्गृद्वातीति तथा एकान्तगतमानसम् एकस्मिन्नेव कामपुरुषायें अन्तं निश्वयं गतं मानसं यस्य स तथोक्तः । निर्वृत्तकार्य निष्पन्नवालिवधरूपकार्यम् । सिद्धार्थं प्राप्तराज्यम् । अभिप्रेतान ईप्सितार्थान मनारथान राज्यमात्यनन्तरमेवं करि प्यामीति मनोरथविषयभूतानर्थाश्च समीप्सितां तारां चापि प्राप्तवन्तमिति सम्बन्धः ॥ १-५ ॥ उत्सन्नराज्यसन्देहः उत्सन्नः नष्टः राज्यसन्देहो यस्य स तथोक्तः, स्वेनारक्षितस्य राज्यस्य कुशलं भवति वा न वेति शङ्कारहितमित्यर्थः ॥ ६ ॥ ७ ॥ हिनम् उदर्कसुखकरम् । पथ्यं नीतिमार्गादनपेतम् । सामधर्मार्थनीतिमत् साम च टीका-अथ त्रिकालवेदी हनुमान् सुप्रीवस्य किष्किन्धाप्रस्थापनसमये रामानुज्ञाते समयमासनं सुशीव कामासक चालोच्य तचित्तानुरञ्जनपुरस्सरं समयोचितं हितमुपदिशति - समीक्ष्येत्यादि । सारसैराकुलं संघुष्ट तत्वोषवत्। प्रणयः प्रार्थना प्रीतिः स्नेहविशेषः ॥ १-८ ॥ For Private And Personal Use Only टी.कि.की. सं० १९ ||20||
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy