________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
|
आत्मकार्यगरीयस्त्वात् अस्मत्प्रयोजनस्यातिमहत्त्वात्, अल्पयत्नेन अल्पकालेन चासाध्यत्वादित्यर्थः । वक्तुं नियोक्तुम् । नेच्छामीति भूतार्थे लट् ॥ ६१॥रामानु-अपि चातिपरिक्लिष्टबिरादरिः समागत इति प्रथमान्तपाठे इतिकरणं द्रष्टव्यम् ॥६॥ स्वयमिति । कार्ल शरत्कालम् ॥ ६२॥ उक्तोपपत्तिभिः पूर्वसोक्तं द्रढयति-तस्मादित्यादिना ॥ ६३ ॥ उपकारेणेति । अकृतज्ञः कृतोपकारानभिज्ञः पुरुषः । अप्रतिकृतः प्रत्युपकारमकुर्वन् । सत्त्ववतां
अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् । आत्मकार्यगरीयस्त्वादक्तुं नेच्छामि वानरम् ॥ ६॥ स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् । उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥६२॥ तस्मात्कालप्रतीक्षोऽहं स्थितो ऽस्मि शुभलक्षण । सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥६३ ॥ उपकारेण वीरो हि प्रतिकारेण युज्यते । अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥६॥ तमेवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् । उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम् ॥६५॥ यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः । शरत्प्रतीक्षःक्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ॥६६ ॥ इत्याचे श्रीरामायणे
वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥२८॥ महात्मनाम् । मनो हन्ति क्षोभयति । वीरः प्रत्युपकारसमर्थः । उपकारेण हेतुना प्रतिकारेण प्रत्युपकारेण युज्यते हि युज्यत एव । सुग्रीवोप्येवंविध त्वात् प्रत्युपकारं करिष्यतीति भावः । अनेन प्रत्युपकारं कारयित्वा लोके प्रत्युपकारधर्म प्रवर्तयिष्यामि इत्याशयः ॥ ६४ ॥ अस्य रामवचनस्य पूर्वसर्गान्तोत्तरमाह-तमिति । तं राममित्यन्वयः । दर्शनं मतम् ॥ ६५॥ यथोक्तमिति । कर्ता करिष्यति । लुट् ॥ ६६ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टाविंशः सर्गः ॥२८॥ कर्तव्य इति प्रार्थनापूर्वक प्रवीभते ॥६० ॥ अपिचेति । आत्मकार्यगरीयस्त्वात् अस्मत्प्रयोजनस्यातिमहत्त्वात, अल्पयत्नेन अल्पकालेनासाध्यत्वादित्यर्थः । वक्तुं नयाकुमच्छामात भूत लट् । परिकष्टोदारस्समागतः इति प्रथमान्तपाठ इतिकरण द्रष्टव्यम् ॥ टी-अनिवारण युक्त्यन्तरमाह-अपिचति । ननु त्वत्कायस्याल्पत्वात् किमनेन| कालविलम्बेनेत्यत आह आन्मेति ॥ ६१-६३ ॥ उपकारेणेति । अकृतज्ञः कृतोपकारानभिज्ञः पुरुषः अप्रतिकृतः प्रत्युपकारमकुर्वन । सत्ववता महात्मना मनो हन्ति | क्षोभयति । वीरः प्रत्युपकारकरणसमर्थः उपकारेण हेतुना प्रतिकारेण युज्यते हि युज्यत एव, सुग्रीवोप्येवंविधत्वात्प्रत्युपकारं करोतीति भावः ॥ ६४-६६ ॥ इति श्रीमद्देश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायामष्टाविंशः सर्गः ॥ २८ ॥
For Private And Personal Use Only