________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥८६॥
www.kobatirth.org
|| मिच्छताम् । अध्यायसमयः वेदारम्भसमयः ॥ ५४ ॥ निवृत्तं कर्म यस्य तन्निवृत्तकर्म आयतनं गृहं यस्य सः निवृत्तकर्मायतनः, उपरतसकल हो |पकरणसम्पादन इत्यर्थः । संचितसञ्चयः सम्पादितधननिचयः । आषाढीम् आषाढमाससमाप्तिपौर्णमासीम् । अभ्युपगतः व्रताङ्गत्वेन स्वीकृतवान् । अमेन ' चत्वारो वार्षिका मासाः ' इति पूर्वोक्तमासानाम् आषाढ: प्राथमिक इति सूचितम् ॥ ५५ ॥ अयोध्यायाः अयोध्यावासिजनस्य ॥ ५६ ॥ इमा
निवृत्तकर्मायतनो नूनं सञ्चितसञ्चयः । आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥ ५५ ॥ नूनमापूर्यमाणायाः सरय्वा वर्धते रयः । मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ॥ ५६ ॥ इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते । विजितारिः सदारश्च राज्ये महति च स्थितः ॥५७॥ अहं तु हतदारश्च राज्याच्च महतश्रयुतः । नदी कूलमिव क्विन्नमवसीदामि लक्ष्मण ॥५८॥ शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः । रावणश्च महान शत्रुरपारं प्रतिभाति मे ॥५९॥ अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् । प्रणते चैव सुग्रीवे न मया किंचिदीरितम् ॥ ६० ॥
Acharya Shri Kailassagarsun Gyanmandir
इति । वर्षा इत्यत्यन्तसंयोगे द्वितीया ॥ ५७ ॥ अहं स्विति । अजितारिश्वेत्यपि ज्ञेयम् । किन्नम् आर्द्रम् ॥ ५८ ॥ शोकश्चेति । मम शोकश्च विस्तीर्णः । वर्षाश्च भृशदुर्गमाः अत्यन्तं दुरत्ययाः । रावणश्च महान् शत्रुः । अतश्च एतत्रितयम् अपारं दुस्तरं प्रतिभाति ॥ ५९ ॥ अयात्रां राज्ञामेतत्कालोचित दण्डयात्राभावम् । प्रणते चैव इदानीमेव सीतान्वेषणरावणनिरसनोद्योगः कर्तव्य इति प्रार्थनापूर्वकं प्रह्वीभूते सत्यपीत्यर्थः ॥ ६० ॥
उपस्थितोऽयं कालः । प्रोष्ठपदे मासि माइपदे । ह्म वेदं विवशतां सामगानां ब्राह्मणानाम् अभ्यायोऽव्ययन तस्य, अध्यापनस्य वा समयः || ५४ || निवृत्तकर्मायतनः निवृत्तं कर्म यस्य तत् निवृत्तकर्म आयतनं गृहं यस्य स तथोक्तः, उपरतगृहव्यापार इत्यर्थः । आषाढीम् आषाढमासपरिसमाप्तिपौर्णमासीमभ्युपगतः व्रताङ्गत्वेन स्वीकृतवान् । तदुक्तं महाभारते - " आषाढे तु सिते पक्षे एकादश्यामुपोषितः । चातुर्मास्यव्रतं कुर्याद्यत्किञ्चित्मयतो नः । वार्षिकांश्चतुरो मासान् व्रतं किञ्चित्समापयेत् । असम्भवे तुलार्केऽपि कर्तव्यं तत् प्रयत्नतः ॥ " इति ॥ ५५ ॥ ५६ ॥ वर्षाः वर्षाकालान् ॥ ५७ ॥ निमाईम् ॥ ५८ ॥ शोकश्चेति । इमाः वर्षाः वर्षाकालः रावणः शोकश्चेति मे पत त्रितयमपारं प्रतिभाति, दुर्निस्तरं प्रतिभातीत्यर्थः ॥ ५९ ॥ अयात्रां राज्ञामेतत्कालोचितदण्ड यात्राभावम् । प्रणते चैव इदानीमेव सीतान्वेषणरावणहिंसनोद्योग :
For Private And Personal Use Only
डी...
स० २८
॥८६॥