Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ एकान्तानित्यपक्षदूषणम् विनिगननाविरहः, स्वाश्रयविषयतासम्बन्धं कार्यतावच्छेदकीकृत्य द्रव्यत्वादिना तथात्वेऽपि मूर्तत्वादिना स एव दोषः" इत्यपास्तम् । इत्थश्च द्रव्यमानं सर्वथा नित्यमस्तु । न चैवं तंतूनामेव पटत्वातंतौ पट इति प्रत्ययो न स्पादिति वाच्यं, फलबलेन विलक्षणसंयोगवत्त्वरुप पटत्वादिविशिष्टाधारतावच्छेदकत्वस्य विलक्षणसंयोगवत्त्वरुपशक्यतावच्छेदकभेदात् । तंतुसंयोगात्पट उत्पन्न इति व्यवहारस्तु भ्रान्त एव, पटपदं वा पटाभिव्यक्तिपरम् । पट उत्पन्नइत्यादिप्रतीतिस्तु पटत्वादिघटकसंयोगोत्पादमात्रमवगाहते । तंतुः पट इति प्रतीतिस्तु वृक्षो वनमिति वदेव नोदेति । पटः तंतव इति प्रतीतिस्तु एकत्वधर्मितावच्छेदककबहुत्वप्रकारिका सतीच्छाविशषमपेक्षते । एकत्र द्वयमिति न्यायेन तदन्वयबोधापादने शब्दाऽसाधुत्वमेव वा । 'अधिकं मत्कृतन्यायवादार्थेषु बोध्यम् ।" अत्र ब्रमः-पर्यायत्वावच्छेदेनैव द्रव्यस्य कारणता सामान्यतो गृहीतेत्यसमानजातीयद्रव्यपर्यायरूपस्य घटस्य कथं न जन्यत्वम् १ अन्यथा कपालस्यैव घटत्वात्कपालरूप-घटरूपयोर्भेदो न स्यात् , तथा च प्रत्यक्षबाधः । किञ्चैवं दण्डादौ घटसाधनताज्ञानेन प्रवृत्तिन स्यात् । अथ "विजातीयसंयोग(व)त्वमेव घटत्वं, युक्तं चैतत् , कथमन्यथा घटत्वस्य जातित्वं ? मृत्त्वस्वर्णत्वादिना सांकर्यात् । न च कुलालादिजन्यतावच्छेदकतया मृत्त्वस्वर्णत्वादिव्याप्यं नानाघटत्वमेव स्वीकर्तव्यमनुगतधीस्तु कथञ्चित् सौसादृश्यात् , घटपदं तु नानार्थकमिति वाच्यम् , कुम्भकारादेविजातीयकृतिमत्त्वेन तत्त्वे घटत्वस्यैकत्वौचित्यात् इति चेत् ?" न, एवं सति घटवत्यपि भूतले संयोगेन घटो नास्तीति प्रतीतेः प्रमात्वापातात् , घटः पटसंयुक्त इत्यादिप्रतीतेरप्रमात्वापाताच्चेति दिक्। अथ अनित्यत्वैकान्तपक्षेऽपि दोषमाहुः "भ्यातामि"ति । एकान्तनाशे नित्यत्वाऽसंभिन्ननाशे कृतस्य नाशो अकृततुल्यता । तन्मते हि वस्तुनः सर्वस्य क्षणिकत्वादुत्पत्तिसमनंतरमेव घटस्य नाशः, इति पृथुबुध्नोदरत्वादिपर्यायाणामाधारेण केन भवितव्यम् ? तथाऽकृतस्याऽऽगम: अर्थक्रियाकारित्वम् । यद्धि कुम्भकारादिना घटादिकं कृतं तेन तु दुर्जनमनःप्रणयपरंपरावत्तदानीमेव दध्वंसे, तथा च जलाहरणादिक्रियासु व्याप्रियमाणेन तेनाकृतेनैवोपपस्थातव्यमिति दूषणद्वयमिदं बौद्धबुध्युपनीतकाकुव्याकुलीकरणप्रवणं प्रसज्येतेति भावः । [क्षणिकवादपूर्वपक्षः] इदमप्यत्र विचार्यते-किं क्षणभंगुरमेव वस्त्वन्यथा वा ? तत्र घौडा:-"मुद्गरादिसमवधानदशायां घटादेर्यत् स्वरुपं वरीवर्ति तेन प्रागासीनं न वा ? अन्त्ये स्वरुपभावहान्यापत्तिः, १-अधिक अधिकं पूर्वपक्षवचनमित्यर्थः ।

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182