Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 100
________________ लो०५] स्यावाद विरोधपरिहारः [ श्लोकव्याख्यादिग्दर्शनम् ] अत्र एकत्र एकस्मिन् वस्तुनि द्वयं न विरुद्धमिति न व्याख्येयं, विरुद्धपदस्यैवेकाधिकरणाऽवृत्त्यर्थकत्वेनैकत्रेत्यस्य पुनरनन्वयाऽऽपत्तेः, विरुद्ध एकवृत्तित्वस्य बाधादविरुद्धे तु तस्याविरुद्धत्वपर्यवसितस्याऽपि तेन रूपेणाऽसिषाधयिषितत्वादविरुद्धत्वप्रकारिकाया एव सिषाधयिषायाः सत्त्वात् । किन्तु-द्वयं न विरुद्ध =न परस्परानधिकरणाधिकरणम् । तत्र हेतुगर्भ विशेषणमाहुः 'एकत्रे'ति, एकाश्रयवृत्तित्वं तदर्थः । न चायं हेतुरसिद्धः, एकत्रैव घटादौ नित्यानित्यादिप्रतीतेः सार्वजनीनत्वात् । ननु नेयं प्रमा, तत्र विरोधग्राहकप्रमाणपरंपरासत्त्वेन विषयबाधात्, न च भ्रमावस्तुसिद्धिरित्याशंकायामभिदधति असदिति, अत्र विरोध इति शेषः । सत् पदं चं भावपरम् । तथा च विरोधे प्रमाणसिद्धरसत्त्वादेकाश्रयवृत्तित्वं निराबाधमिति हार्दम् । न हि अलानिलयोरिव तयोर्विरोधः साक्षादनुभूयते, रूपरसयोरिव प्रत्युतैकवृत्तित्वस्यैवानुभविकत्वात् । न वा छायातपयोरिव परस्परपरिहारेण वर्तमानत्वं, एकदैवानुभवात् । नापि घटतदभावयोरिवैकज्ञानानंतरमज्ञायमानत्वं, नित्यत्वादिज्ञाने सत्यप्यनित्यत्वादेर्शानात् । स्वभावतो विरोधाभिधानं तु स्ववासनामात्रविज़म्भितम् । ___ अथ 'प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वनियमात् कथमसत्त्वे पंचम्यन्वय इति' चेत् ? न, तवापि 'तेषां मोहः पापीयान् नामुढस्येतरोत्त्पत्ते'रितिसूत्रे (न्यायस०४-१-६) अमूढस्येतरोत्पत्त्यभावादित्यर्थकरणेन निपाताद्यतिरिक्तस्थल एवैतन्नियमस्वोकारात् । वस्तुतः प्रकृतित्वं नैकमिति विशिष्यैतद्वयुत्पत्तिस्वीकारेऽत्र नेयं व्युत्पत्तिः किन्तु भिन्नैवेत्यपि बोध्यम् । अथ-उक्तयाऽनया दिशा नान्वयो दृष्टचर इति चेत् ? तात्पर्यसत्त्वे किमदर्शनमात्रेण ! अन्यथा नामढस्येतरोत्पत्तेरित्यत्राप्येतत्पर्यनुयोगापातात् । ननु द्वयं न विरुद्धमित्यत्र सिद्धसाधनं, रूपरसादिद्वय(या)विरोधे परस्याप्यविवादात् । द्वयसामान्ये विरुद्धभेदः पुनरसंभवो गोत्वाश्वत्वयोरिव तदभावादिति चेत् ? न, अत्र द्वयपदस्य नित्यानित्यत्वादियुग्मतात्पर्यकत्वात् । . नन्वसत्प्रमाणप्रसिद्धित इत्यत्रासच्च तत्प्रमाणं चेति न समासोऽयोग्यत्वात् , 'प्रमाणप्रसिद्वेरसदिति समासे तु असत्पदस्यपूर्वोपादानानुपपत्तिरिति चेत् ? अत्र केचित्-सतोऽभावोऽसदिति तत्पुरुषादसत्त्वमित्यर्थः, तत्र च पंचम्यर्थान्वय; सत्त्वे च प्रमाणप्रसिद्धरन्वयो व्युत्पत्तिवैचित्र्यात् । विभक्त्यंतरावरुद्धप्रातिपदिकार्थे विभक्त्यंतरार्थान्वयः कथमिति चेत् ! तुल्यमिदमन्यत्र । अपरे तु 'म' इति प्रतिषेधार्थको निपातः । 'अ-मा-नो-ना प्रतिषेधे' इत्यनुशासनात् । तथा च सत्प्रमाणप्रसिद्धरभावादित्यर्थः । परे तु सत्पदं भावपरं, विरोधस्येति शेषाच विरोधस्याऽसत्त्वे प्रमाणप्रसिद्धरित्यर्थः । तथाहि नित्यानित्यत्वे न विरुद्ध, भिन्नावच्छेदेनैकत्र विशेषदर्शिना प्रती यमानत्वात्संयोगतदभाववत् । विरोधग्राहकमनुमानादिकं त्वप्रयोजकत्वाद् दुर्बलमिति भावः ।

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182