Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 144
________________ लो० १] नयमेषेन ध्वंसस्वरूपम् स्तस्यैव प्रध्वंसत्वाऽभ्युपगमात् । ननु ' यदुत्पत्तावि' त्यत्र सप्तम्यर्थः पूर्वकालवं, निमित्तत्वं वाऽनुपपन्नम्, कपालपालेरुत्पत्तेः प्रागुत्तरं वा घटविपत्तेरनभ्युपगमात्तदुत्पत्तिसमय एव प्रत्युत तदभ्युपगमात् । किञ्च विपत्तिपदार्थस्याप्यत्राऽपरिचयस्तस्य प्रध्वंसातिरिक्तस्य वक्तुमशक्यत्वात्, न चोत्पन्नस्य यस्य यदुत्पत्तौ सत्यां योग्यानुपलब्धिः स तस्य प्रध्वंस इत्यत्र तात्पर्यम्, अयोग्य - M ध्वंसेऽतिव्याप्तेः । एतेन 'विपत्तिव्यवहारव्याप्योत्पत्तिकत्वमपि तल्लक्षणं' परास्तमिति चेत् ? मैवं, ' यदुत्पत्त्यधिकरणे उत्पन्नस्य यस्यावश्यमभावः स तस्य प्रध्वंस इत्यर्थे दोषाऽभावात् । नचैवमवश्यं पदवैयर्थ्यं पूर्वोन्नेऽतिव्याप्तिवारणाय व्याप्यत्वार्थकस्य तस्य साफल्यात् । तत्र ऋजुनये उपादेयक्षण एवोपादानप्रध्वंसः । न च द्वितीयादिक्षणेष्वेवं ध्वंसस्था-' भावेन घटस्य पुनरुन्मज्ञ्जनापत्तिः, ध्वंससंताना भावस्यैव तदापादकत्वात् । अत एव प्रागभावस्यापि पूर्वितत्तत्क्षण रूपत्वेऽपि नादिमक्षणरूपप्रागभावोपमर्दनात्मकत्वेन द्वितीयक्षणस्य प्रतियोगित्वप्रसङ्गः, प्रागभावसन्तानोपमर्दनेनैव प्रतियोग्यात्मलाभात् । i व्यवहारनये तु घटोत्तरकालवर्त्तिमृदादिस्वद्रव्यं घटप्रध्वंसः । घटपूर्ववर्तिनि मृदादिस्वद्रव्येऽतिव्याप्तिवारणाय 'घटोत्तरकालवर्ती'ति । घटोत्तरकालवर्त्तिन्यपि मृदादिसन्तानान्तरे तद्वारणाय 'स्वे 'ति । समनियताभावस्त्वेक एवेति भावः । एतेन 'कपालस्यैव घटध्वंसरूपत्वे घटप्रागभावकालेऽपि 'घटो नष्ट' इति प्रतीतिः स्यादिति दूषणमनवकाशं वेदितव्यम्, विशिष्ट कपालस्य प्रागसत्त्वात् । विशिष्टाऽविशिष्टयोः कथञ्चिद्भेदस्तु सुप्रतीत एव, क्षणभङ्गाद्यापत्तेः सर्वथा भेदपक्ष एव दूषकत्वाद् । न चैवं दुःखध्वंसस्याप्यात्मरूपत्वेनाऽजन्यत्वान्मोक्षस्याऽपुरुषार्थत्वापत्तिः, स्याद्वादिभिरात्मनोऽपि कथञ्चिज्जन्यत्वाऽभ्युपगमात् । अथैवं 'भूतले कपालकदम्बकमि 'तिवद्' भूतले घटध्वंस' इत्येव प्रतीतिः स्यान्न तु 'कपाले कपालमि'तिवत् 'कपाले घटध्वंस' इति चेत् ? न, प्रतीतिबलेन घटध्वंसत्वविशिष्टाधारतावच्छेदकत्वस्य कपालत्वेऽपि स्वीकारादिति सम्प्रदायपरिष्कारः । नन्वेवं भावरूपत्वे ध्वंसस्य निःप्रतियोंगिकतापत्तिः, न चेष्टापत्तिः, 'घटो ध्वस्त' इत्यादितो 'ध्वंसप्रतियोगी घट' इत्यबाधितानुभवात् । एतेनाभावव्यवहार एव सप्रतियोगिको न त्वभाव इति निरस्तम्, अनुभवव्यवहारयोः समानप्रकारकत्वेन कार्यकारणभावात्तदननुभवे तदव्यवहारप्रसङ्गाच्चेति चेत् ? [प्रतियोगिताविचारः] किमत्र प्रतियोगित्वम् ? न तावत्सहानवस्थाननियमरूपं विरोधित्वम्, अव्याप्यवृत्त्यत्यन्ताभावप्रागभावादिप्रतियोगितायामव्याप्तेः । न चैकदेशकालावच्छेदेनेति विशेषणान्नायं दोष इति वाच्यम्, अन्योन्याभावप्रतियोगितायां तथाप्यव्याप्तेः । “सम्बन्धान्तरेण वहून्यभाववति सम्बन्धान्तरेण वहूनेर्वृत्तेस्तेन सम्बन्धेन तदभाववति तेनाऽवृत्तौ वक्तव्यायां तेनाऽसम्बन्धत्वोक्ती'

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182