Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
११६
परिशिष्ट-१ म०वृ०स्या० रहस्ये स्पष्टीकृता अर्थविशेषाः
पृष्ठाङ्कः
२. ऋजुसूत्र ये उपादेयक्षण एवोपादानप्रध्वंसः ।
२ व्यवहारनये तु घटोत्तर कालवर्त्तिमृदादिस्वद्रव्वं घटप्रध्वंसः ।
२ समनियताभावस्त्वेक एव ।
६ उपयोगश्चोपलिप्सोराभोग करणं इति विशेषावश्यकवृत्तौ ।
११ कृतस्य = कुम्भकारादिप्रयत्नस्य नाशः = उपधानाव्याप्यत्वम् ।
अकृतस्य = कुम्भकारादिप्रयत्नाऽभावस्य आगमः = अनुपधानाऽव्याप्यत्वम् ।
१६ स्वभावो हि स्वद्रव्यगुणपर्यायानुगतं स्वरूपास्तित्वम् ।
१८ मोहक्षोभविहीनो ह्यात्मनः परिणामः शुद्धः........ स एव हि चारित्रशब्दवाच्यः ।
२५ एकशेषस्थ तु वस्तुतः पदान्तरस्मरणमेव कल्प्यम् ।
२६ एकदोभयतात्पर्यग्रहे एकपदादेकदोभयबोधास्वारस्यनिर्वाहाय 'सकृदुच्चरिते ०' त्यादिनियमो युक्तः ।
२६ ‘सर्वे सर्वार्थवाचका' इत्यभ्युपगमेनैकया शक्त्याप्येकपदस्यानेकार्थबोधकत्वात् । २८ योग्यताविशेषश्च तदंशे ज्ञानावरणकर्मक्षयोपशमः ।
३० वस्तुतः सामान्यत एका चाक्षुषजननी योग्यताऽपरा च तमःसंयुक्तचाक्षुषजननी ।
३८ क्षयश्चात्र (कर्मक्षये) स्वसमानाधिकरणतज्जातीयपर्योयप्रागभावासमानकालीनस्तत्पर्यांयध्वंसो, न तु सर्वथाऽभावः ।
३९ द्वयं न विरुद्धं = न परस्परानधिकरणाधिकरणम् ।
४० विधिमुखप्रत्ययवेद्यत्वं सत्त्वं, निषेधमुखप्रत्ययवेद्यत्वं चासत्त्वम् ।
४३ सादृश्यं न तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं किन्तु तद्वृत्तिधर्मैक धर्मवत्त्वम् । एकत्वं च संग्रहनयार्पणार्पितबुद्धिविशेषविषयत्वम् ।
४५ तत्तदर्थस्वरूपपरिणाम परिणतपदबोध्यतावच्छेदकरूपवत्त्वं तत् ( अनभिलाप्यत्वम्) ।
४६ भगवतां मोहाभिव्यक्तचैतन्यविशेषरूपाया इच्छाया असत्वेऽपि तदनभिव्यक्तचैतन्यविशेषरूपानुजिघृक्षादिसत्त्वमविरुद्धम् ।
४६ न चैवं मोक्षेऽप्यनुजिघृक्षापत्तिः, जिननामकर्मोदयसाचिन्यादेव तत्प्रवृत्तः । ५६ आभिमुख्येन ग्रहणं मुख्यत्वं, तद्विपरीतत्वमुपसर्जनत्वम् ।
५७ संकेतो हि तपश्चरणदानप्रतिपक्षभावनावज्ज्ञानावरणक्षयोपशम ऽभिव्यञ्जकतयोपयुज्यते न तु शब्दार्थसम्बन्धतया ।

Page Navigation
1 ... 175 176 177 178 179 180 181 182