Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
बृहत्स्याद्वादरहस्ये
त्वात् । न चात्ममानसत्वावच्छिन्नं प्रति संयोगेनैव मनसो हेतुत्वान्न किश्चिदेतदिति वाच्यं, पूर्व तदप्राप्यकारित्वं प्रसाध्य दृष्टान्तत्वाभिप्रायात् । एवञ्च मनस इव चक्षुषस्तत्तदुपयोगसाचिव्यात्तदा तदा तत्तदर्थग्राहकत्वं स्वभावादेवेत्यपि प्राञ्चः ।
"स्वप्राचीस्थपुरुषसाक्षात्कारे स्वप्रतीचोवृत्तित्वसम्बन्धेन विजातीयद्रव्यत्वेनास्तु भित्यादीनां प्रतिबन्धकता । प्रतिबन्धकतावच्छेदक सम्बन्धाननुगमश्च न दोषाय । तावत्सम्बन्धपर्याप्तप्रतियोगितावच्छेदकताकविलक्षणाभावस्यैकस्य कारणतास्वीकारात् । तथा च भित्त्यादीनां प्रतिबन्धकत्वादेव न तदन्तरितार्थग्रहणमिति किं योग्यतये"ति कश्चित् । तन्न, पृथिवीत्वादिना साङ्कर्येण विजातीयद्रव्यत्वेन तथात्वाऽसम्भवात् व्यवहितेयोगिचाक्षुषानुरोधेन योग्यताया अवश्याश्रयणीत्वाच्च । एतेन स्फटिकत्वाद्यभावक्टविशिष्टद्रव्यत्वेनोक्तसम्बन्धेनास्तु प्रतिबन्धकत्वमित्यप्यपास्तम् । ननु किश्चिदवच्छेदेन तमःप्रच्छन्नेऽपि भित्त्यादौ यदवच्छेदेन चक्षुःसंयोगस्तदवच्छेदेनालोकसंयोगादेव चाक्षुषदर्शनाच्चक्षुषःप्राप्यकारित्वं सेत्स्यतीति चेत् ? एतन्निपुणतरमन्धकारवादे प्रतिविधास्यामः ।
एवश्च 'शाखाभिमुखेन चक्षुषा विटपिनो मूलावच्छिन्नसंयोगग्रहाभावादव्याप्यवृत्तिचाक्षुषं प्रति चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायाः सन्निकर्षत्वस्यावश्यकल्पनीयतया चक्षुषःप्राप्यकारित्वमायास्यतीत्यपि प्रतिविधेयप्रायमवधेयम् । तदानी चक्षुरभिमुखदेशाविष्वगभावाऽभावादेव संयोगादिचाक्षुषानुदयात् । केचित्तु 'चक्षुषःप्राप्यकारित्वे पृथुतरग्रहणानुपपत्तिः, न ह्यणुना चक्षुषा पृथुतरद्रव्यसंयोगसम्भवी'त्याहुः । “रूवं पुण पासई अपुढे त्वि"[आ. नि. ५] त्याद्यागमोऽप्यत्रार्थे साक्षीति दिग् । इति चक्षुरप्राप्यकारिताव्यवस्थापन प्रासङ्गिकम् ॥
[समवायसिद्धिनिरसनम् ] अथ प्रकृतं प्रस्तुमः ॥ 'गुणजातिक्रियाविशिष्टबुद्धयो विशेषणसम्बन्धविषयाः, विशिष्टबुद्धिवादण्डीति बुद्धिवदि'त्यनुमानमपि न समवायसाधने पटीयः, स्वरूपसम्बन्धेनार्थान्तरत्वात् । न च 'पक्षीभूतबुद्धेरनुगतसम्बन्धविषयत्वे लाघवात् कत्रैक्यस्येव पक्षधर्माताबलात्सम्बन्धैक्यस्य सिद्धौ समवायसिद्धिः', तबुद्धेस्तदविषयत्वेऽप्यतिलाघवेन तदसिद्धिप्रसङ्गात् । न च गुणगुण्यादिविशिष्टबुद्धेः समूहालम्बनवैलक्षण्यनिर्वाहकतया तत्सिद्धिः, अत एव विशिष्टबुद्धित्वहेतुरप्यतयावृत्तिधीजनकबुद्धित्वपर्य्यवसायितयैव कार्यकारणभावलक्षणानुकूलतर्कसध्रीचीन इति वाच्यम् , योग्यताविशेषाश्रयणं विना तवोपायसहस्रेणापि समूहालम्बनविशिष्टबुद्धयोर्विशेषाऽसम्भवात् । 'घटरूपसमवाया' इति समूहालम्बनेऽपि समवायस्य विषयत्वात् । अथ स्वरूपतो भासमानेन वैशिष्टयेन विशिष्टबुद्धेः समूहालम्बनाद्विशेषो, न ह्युपदर्शितसमूहालम्बने समवायस्य स्वरूपतो भानं किन्तु समवायत्वेनेति चेत् ? न, 'दण्डवान् दण्डसंयोगवान् पुरुष' इत्यत्रापि

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182