Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
श्लो० १]
प्रागभावविमर्शः
१०५
च्छिन्नसंयोगे शास्त्रात्वादिनैव हेतुत्वं युक्तमिति चेत् ? न, तथाप्यवच्छेदकतया संयोगमात्रं प्रति क्रियादेः स्वजन्यप्रतियोगिकप्रागभावावच्छेदकत्वसम्बन्धेन हेतुतयापि तत्सिद्धेः । 'अन्यजन्यीयप्रागभावस्याऽन्याऽसम्बन्घत्वान्नातिप्रसङ्ग इति चेत् ? न, आभिमुख्यसम्बन्धेन तत्तत्क्रियाया एव तत्तदवच्छिन्नसंयोगनियामकत्वात् । अननुगतस्वत्वघटितसम्बन्धेन तवापि नानाहेतुत्वावश्यकत्वात् । 'अनन्तप्रागभाव कल्पनापेक्षया तत्रैकाभिमुख्यसम्बन्धकल्पनैवोचिते' त्यप्याहु: । 'स्वभावत एव संयोगादेः प्रादेशिकत्वनियम' इत्यपि कश्चित् ।
'तद्देशावच्छिन्नसंयोगावच्छिन्नविशेष्यतयेश्वरीयाणां तन्नियामकत्वमित्यन्ये । ' नीलाभावादिषट्कस्य चित्ररूपं प्रति हेतुत्वे गौरवाच्चित्रप्रागभावस्यैकस्यैव चित्ररूप हेतुत्वौचित्यात्तत्सिद्धिरिति चेत् ? न, पाकेन भवि चित्रे नीलादिमति घटे तदापत्तिवारणाय कार्यसहभावेन चित्रेतररूपाभावस्यैव चित्रहेतुत्वात् । प्रागभावपदप्रयोगविषयस्तु प्रतियोगिदेशप्रतियोगिपूर्वकालवृत्तित्वविशिष्टाऽत्यन्ताभाव एव पूर्वत्वं च तदनधिकरणत्वे सति तद्ध्वंसाऽनधिकरणत्वादिकं प्रागभावाऽघटितमिति न कोऽपि दोष इत्याहुः ।
"
[प्रागभावविषये स्वाद्वादिमतम् ]
वयं तु ब्रूमः । पटपूर्वकालवृत्तित्वविशिष्टाः पटवत्तन्तवस्तादृशपटवत्तन्तुत्वमेव वा पटप्रागभावपदप्रयोगविषयो न पुनरतिरिक्ताभावः, क्लृप्तेनोपपत्तावतिरिक्त कल्पने गौरवात् । उपादानकारणत्वं तु तन्तुत्वेनैव, न तु विशिष्टतन्तुत्वेन, गौरवात् । तदुत्तरसमयपरिणामे च तत्पूर्व समयस्य नियामकत्वान्नातिप्रसङ्ग इति दिग् ।
ननु तथापि सत्त्वाऽसत्त्वाभ्यामनिर्वाच्यमेवास्तु वस्त्विति चेत् ? न, अनिर्वाच्यपदेनैव तस्य निर्वाच्यत्वात् । अयुगपदर्पणया सदादिपदादपि तद्बोधस्याऽनुभविकत्वात् । अनिर्वचनीयख्यातेः सप्रपञ्चमाकरे निरस्तत्वाच्चेति किमतिप्रसक्ताऽनुप्रसक्त्या ।
स्यादेतत्-संयुक्ताणुद्वयादिकमेव व्यणुकादिकं, अतिरिक्ताऽनंताऽवयव्यादिकल्पने गौरवात् । अणुकत्वादिघटक विजातीयसंयोगानां तु द्रव्यसाक्षात्कारत्वावच्छिन्नं प्रति हेतुत्वम् । न च विजातीयसंयोगं विनापि गुणादौ द्रव्यसाक्षात्कारोदयाव्यभिचारो द्रव्यनिष्ठलौकिक विषयतायाः कार्यतावच्छेदकसम्बन्धत्वेन तदुद्धारात् । एतेन द्रव्यसाक्षात्कारत्वस्य तत्कार्यतावच्छेदकत्वे मूर्त्त साक्षात्कारत्वादिना विनिगमनाविरहः, स्वाश्रयविषयितासम्बन्धं कार्यतावच्छेदकतावच्छेदकीकृत्य द्रव्यत्वादेस्तथात्वेऽपि मूर्त्तत्वादिना स एव दोष' इत्यपास्तम् उक्तसम्बन्धेन जन्यसाक्षात्कारत्वस्यैव तत्कार्यतावच्छेदकत्वात् । अत एव द्रव्यत्वापेक्षया द्रव्यसाक्षात्कारत्वं गुरु, न तथाsवयवादिकल्पना, गौरवं तु फलमुखत्वान्न दोष' इत्यपि निराकृतं जन्यद्रव्यत्वजन्यसाक्षात्कारत्वयोस्तुल्यत्वात् ।
स्या. र. १४
"

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182