Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
१११
प्रलो० २]
भोगपदार्थपरालोचनम् दुपचरितार्थत्वमेव पूर्वोक्तश्रुतेरिति वाच्यं, 'राहोः शिर' इत्यादौ षष्ठया अभेदेऽपि दर्शनात् । अत्राऽमेदप्रकारकबोधाल्लक्षणैव श्रुतौ तु सा न युक्तेति चेत् ? न, सुब्विभक्तो लक्षणाऽनभ्युपगमात् । अन्यथा व्यत्ययानुशासनवैयर्थ्यात् ।
__ अथ विभक्त्यन्तरार्थे विभक्त्यन्तरस्य लक्षणाया निषिद्धत्वज्ञापकं व्यत्ययानुशासनं, अत एव 'घटं जानाती'त्यादौ द्वितीयाया विषयित्वे लक्षणा नाऽनुपपन्ना । कृश्योगे षष्ठयनुशासनं, च द्वितीयाया असाधुत्वज्ञापकमपि, अन्यथा 'भारतस्य श्रवणमित्यादौ कर्मत्वे षष्ठ्यतिरिक्तविभक्तेर्लक्षणाया निषिद्धत्वेऽपि शक्त्यैव द्वितीयया तद्बोधप्रसंगात् । निष्ठादिवर्जनं च निष्ठायां तत्साधुत्वज्ञापकम् , कृत्ययोगे विकल्पविधानं च निष्ठायां शेषपष्ठ्यसाधुत्वज्ञापकमिति चेत् ? न, तथापि भेद एव षष्ठोत्यनियमात्तत्र सम्बन्धत्वप्रकारकबोधेनाप्युपपत्तेः । इत्यत आचचक्षिरे "आत्मनी"ति
आत्मन्येकान्तनित्ये स्यान्न भोगः मुखदुखयोः।
एकान्ताऽनित्यरूपेऽपि न भोगः सुखदुखयोः ॥२॥ आत्मन्येकान्तनित्ये-सर्वथा ध्वंसाऽप्रतियोगिनि अभ्युपगम्यमान इति शेषः । सुखदुःखयोर्भोगः-साक्षात्कारो न स्यात् । यद्यपि भोगपदं सुखदुःखान्यतरसाक्षात्कारे रूढमिति पुनः "सुखदुःखयो" रित्युपादाने पौनरुक्त्यं, तथापि ''विशिष्टवाचकानामि'त्यादिन्यायाद्भोगपदमत्र साक्षात्कारमात्रपरं दृष्टव्यम् । न च शक्यादनन्याऽर्थे कथं लक्षणा ? शक्यसम्बन्धाभावादिति वाच्यम् , तत्राप्यभेदसम्बन्धस्य जागरुकत्वात् । अत एव जिधातोः 'प्रजयती'त्यादौ प्रकृष्टजये लक्षणा।
ननु सम्बन्धितावच्छेदकभेदं विनाऽभेदग्रहो दुःशकः, 'घटो घटः, नीलघटो घट' इत्यादी तदग्रहात् । अत एव 'प्रजयती'त्यत्र जिधातोः शक्त्योपस्थिते जयत्वावच्छिन्ने लक्षणयोपस्थितेन प्रकृष्टत्वावच्छिन्नेनैव सममभेदबोधो यौक्तिकः, युगपवृत्तिद्वयाऽऽपातस्य मणिकृतामिष्टत्वात् । अस्तु वा तत्र प्रोत्तरजित्वादिना शक्तत्वाद् प्रकृष्टजयस्य शक्त्यैव बोधः । न चैवमुपसर्गस्य धोतकत्वं न स्यादिति वाच्यं, औपसन्दानिकशक्तेरेव द्योतनत्वात् । न च जिर्वप्रत्वादिनापि शक्तत्वे विनिगमनाविरहः, धातुभिन्नाऽर्थस्याऽऽख्यातार्थभावनायामन्वयाऽव्युत्पत्तेर्विनिगमिकात्वादिति चेत् ? न, विभिन्नधर्मावच्छेदेनाऽभेदग्रहस्याऽन्ततो मनसापि सम्भवादन्यथा सामान्यवाचकपदानां विशेषपरत्वं कुत्रापि न स्यात् । 'विशिष्टवाचकानामि'त्यादिन्यायेन विशेषणवाचकविशिष्टवाचकपदयोर्विशेषणांशे सम्भूयैकाऽन्वयबोधजनकत्वमेव व्युत्पाद्यत इत्यप्याहुः।
ये तु वदति -भोगत्वं चाक्षुषादिसामग्रीप्रतिबद्धयतावच्छेदककुक्षिप्रविष्टतया सिद्धो जातिविशेष एव, भोगान्यमानसत्वावच्छिन्नं प्रति तत्प्रतिबन्धकत्वात् । न च स्वसमवायिलौकिक
१-'विशिष्टवाचकानां पदानां सति विशेषणवाचकपदसमवधाने विशेष्यार्थमात्रपरत्वं' इति न्यायात् ।

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182