Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 170
________________ श्लो० १] विजातीयसंयोगनाशकारणताविचारः अत्र केचित्-विजातीयसंयोगनाशस्य द्रव्यनाशत्वं न जन्यतावच्छेदकं, मूर्त्तनाशत्वभूतनाशत्वादिना विनिगमनाविरहात्, किन्तु स्वाश्रयसमवेतत्व कालिकोभयसम्बन्धेन स्वविशिष्टप्रतियोगिकनाशत्वमेव तथेति घटादेस्तेन सम्बन्धेन स्वाऽविशिष्टत्वान्न विजातीयसंयोगनाशनाश्यत्वं अन्यथा कपालरूपादेरपि तथात्वापत्तेरित्याहुः । तच्चिन्त्यं मूर्त्तनाशत्वस्यैव लघुनो विजातीयसंयोगनाशजन्यतावच्छेदकत्वात , न चोक्तदोषाऽनुद्धारः, सम्भवति क्लुप्ताऽगुरुविशेषधर्मे सामान्यधर्मस्य कार्यताद्यनवच्छेदकत्वादित्येके । वस्तुतस्तु विजातीयसंयोगनाशस्य स्वप्रतियोगिकनाशत्वमेव कार्यताऽवच्छेदकम् । न च संयोगनाशत्वेनैवास्तु हेतुत्वं, उक्तसम्बन्धनिवेशेऽनतिप्रसङ्गादिति वाच्यं, तथा सति तुरीतन्तुसंयोगनाशादपि पटनाशापत्तेः । इत्थञ्च सर्वत्राऽसमवायिकारणनाशादेव कार्यनाश इति । युक्तं चैतदन्यथा परमाण्वादिषु पूर्वपूर्वाऽसमवायिकारणनाशसत्त्वाऽऽपादितघणुकादिक्षणिकत्वपरिहाराय तत्तद्रव्यनाशं प्रति तत्तत्संयोगनाशानां विशिष्याऽनन्तकार्यकारणभावकल्पने महद्गौरवात् । याभ्यां तन्तुभ्यां कपालाभ्यां वा संयोगविशेषेण न खण्डपटादिरारब्धस्तत्रैव सामान्यकारणताऽवकाशात् । यदि तु नाश्यनिष्टतयैव नाशकत्वकल्पनौचित्यं तदापि द्रव्यीयत्वविशिष्टप्रतियोगितया नाशत्वावच्छिन्नं प्रति स्वप्रतियोगिजन्यतया विजातीयसंयोगनाशस्य हेतुत्वे न दोषो, द्रव्यीयत्वविशिष्टप्रतियोगिताया एव मूर्तीयत्वविशिष्टत्वात् । इत्थं च द्रव्यनाशत्वाधवच्छिन्नं प्रति स्वप्रतियोगिजनकत्वसम्बन्धेन स्वविशिष्टविजातीयसंयोगनाशत्वेन हेतुतया विनिगमनाविरहोऽपि निरस्त इति दिग् । विजातीयरूपादिनाशे च विजातीयतेजःसंयोगादिकं हेतुरिति जन्यमानं सर्वथाऽनित्यमेवेत्येकान्तोऽपि न कान्तः, घटादिपर्यायाणामपि द्रव्यार्थतया ध्रवत्वात् । प्रतियन्ति हि लोका अपि 'घटत्वेन घटो नष्टः, न तु मृत्त्वेने'ति । उपादानोपादेययोर्भेदाभेदस्तु निपुणतरमुपपादित एवेति किमित्यानेडितविस्मरणशीलताऽऽयुष्मत इति । श्रीहेमसरिवाचामाचामति चातुरीपरविचारम् ।व्याख्याताऽऽद्यश्लोकस्तां परिचिनुते यशोविजयः।।१ सत्केवलप्रकाशेन भुवनाभोगभास्वते । भद्रंकराय भक्तानां वामेयाय नमो नमः ॥२॥ [आत्मनित्यत्वशंका] ननु भवतु कदाचिद् बाह्यवस्तुनो नित्याऽनित्यत्वं, प्रमातुस्तु नित्यत्वमेव युक्तं तस्याऽनित्यत्वे मानाऽभावात् । न चाऽनित्यज्ञानाद्यभेदात्तस्य तथात्वं, तथा सति दुखाभेदादुःखध्वंसस्थाऽप्यात्मध्वंसरूपत्वात्तदर्थिनो यमनियमादौ प्रवृत्तिर्न स्याद् दुःखध्वंसत्वस्य चरमदुःखध्वंसत्वस्य वा काम्यताऽवच्छेदकत्वे दुःखध्वंसे आत्मध्वंसाऽमेदज्ञाने तत्साधनीभूतयमनियमादी बलवदनिष्टाsननुबन्धीष्टसाधनत्वस्य ज्ञातुमशक्यत्वात् । न चाऽऽत्मत्वावच्छिन्नध्वंसत्वमेव चार्वाकादिमतप्रसि

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182